SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ कायट्ठि 455 - अभिधानराजेन्द्रः - भाग 3 कायट्ठि कायजोगीणं भंते ! पुच्छा ? गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं वणस्सइकालो। अजोगीणं भंते! अजोगिति कालओ। केव चिरं होइ ? गोयमा ! सादिए अपञ्जवासिए। योगा मनोवाकायव्यापाराः योगा एषां सन्तीतियोगिनो मनोवाक्कायाः, सह योगिनी यस्य येन वा सयोगी। अत्र निर्वचनम्-(सजोगी दुविहे पन्नत्ते इत्यादि) अनाद्यपर्यवसितोयो न जातु चिदपि मोक्षगतः सर्वकालमवश्यमन्यतमेन योगेन सयोगी; ततोऽनाद्यपर्यवसितो–यस्तु यास्यति मोक्षं सोऽनादिसपर्यवसितः; मुक्तिपर्यायप्रादुर्भावे योगस्य सर्वथाऽपगमात् / मनोयोगिसूत्रे-जघन्यत एकं समयमिति यदा कश्चिदौदारिककाययोगेन प्रथमसमयमनोयोग्यान पुद्गलानादाय द्वितीयसमये मनस्त्वेन परिणमय्य मुञ्चति तृतीयसमये चोपरमते म्रियते वा, तदा एकं समयं मनोयोगी लभ्यते उत्कर्षतसो ऽन्तर्मुहूर्त निरन्तरं मनोयोग्यपुद्गलानां ग्रहणविसर्गों कुर्वन् तत ऊवं सोऽवश्य जीवस्वाभाव्यादुपरमते, उपरम्य च भूयोऽपि ग्रहणविसौ करोति परं कालसूक्ष्मात् कदाचिन्न स्वसंवेदनपथ-मायाति / उत्कर्षतोऽपि मनोयोग्यन्तर्मुहूर्तमेव / / (एवं वययोगी वि इति) एवं मनोयोगीव वाग्योग्यपि वक्तव्यः / तद्यथा-"यइजोगी णं भंते ! वइजोगि त्ति कालाआ केव चिरं होइ ? गोयमा! जहन्नेणं एवं समयं उक्कोसणं अंतोमुत्तमिति" / तत्रयः प्रथमसमय काययोगेन भाषायोग्यानि द्रव्याणि गृह्णाति, द्वितीयसमये तानि भाषात्वेन परिणमय्य मुञ्चति, तृतीयसमये चोपरमते म्रियतेवा, स एक समयं वाग्योगी लभ्यते / आह च मूलटीकाकारः-''पढमसमये काययोगेण गहियाण भासादव्वाणं, विइयसमयेवइयोगेण निसर्ग काऊण उवरमंतस्स वा एगसमओ लब्भइ" इति अन्तर्मुहूर्त निरन्तरंग्रहणविसर्गी कुर्य न तदनन्तरं चोपरमते, तथाजीवस्वाभाव्यात् / काययोगी जघन्यतोऽन्तर्मुहूर्त्तमिति / इह द्वीन्द्रियादीनां वायोग्यपि लभ्यते / संज्ञिपञ्चेन्द्रियाणां मनोयोगोऽपि, ततो यदा वाग्योगो भवति मनोयोगो वा तदा न काययोगप्राधन्यमिति, सादिसपर्यवसितत्भावात् / जधन्यतोऽन्तर्मुहूर्त काययोगी लभ्यते, उत्कर्षतो वनस्पतिकालः, सच प्रागेवोक्तः / वनस्पतिकायिकेषु हि काययोग एव केवलो न वाग्योगो, मनोयोगोवा। ततः शेषयोगासम्भवात्तेषां कायस्थितिः। सततं काययोग इति मानम् / अयोगी च सिद्धः, स च साद्यपर्यवसित इत्ययोगी साद्यपर्यवसित उक्तः। गतंयोगद्वारम्। (10) इदानीं वेदद्वारं प्रतिपिपादश्षुिराहसवेदएणं भंते ! सवेदए त्तिकालओ केव चिरं होइ ? गोयमा!] सवेदए तिविहे पण्णत्ते / तं जहा-अणादिए वा अपज्जवसिए, अणादिए वा सपज्जवसिए, सादिए वा सपज्जससिए। तत्थणंजे ते सादिए सपज्जवसिए से जहन्नेणं अंतोमुहत्तं उक्कोसेणं अणंताओ ओसप्पिणिउस्सप्प्णिीओ कालओ, खेत्तओ अवसपोग्गलपरियट्ट देसूणं / इत्थिवेदे णं भंते ! इत्थिवेदे त्ति कालओ केव चिरं होइ? गोयमा ! एगेणं आदेसेणं जहन्नेणं एक समयं उक्कोसेणं दसुत्तरं पलिओवमसतं पुवकोडीपुहत्तममहियं / एगेणं आदेसेणं जहन्नेणं एक समयं उक्कोसेणं अट्ठारसपलिओवमाइं पुटटको डिपुहत्तमभहियाई / एगेणं आदेसेणं जहन्नेणं एगं समयं उक्कोसेणं चोहसपलिओवमाई पुव्वकोडिपुहत्तमब्भहियाइं। एगेणं आदेसेणं जहन्नणं एग समयं उक्कोसेणं पलिओवमसतं पुथ्वकोडिमभहियं / एंगेणं आदेसेणं जहण्णेणं एग समयं उक्कोसेणं पलिओवमपुहत्तं पुथ्वकोडिपुहत्तमडमाहियं // (सवेदए णं भंते ! इत्यादि) सह वेदो यस्य येन वा स सवेदकः / "शेषादा"७।३।१७५॥ इति कप्रत्ययः / स च त्रिविधः / तद्यथाअनाद्यऽपर्यवसिताऽनादिसपर्यवसितः, सादिसपर्यवसितश्च / तत्र य उपशमश्रेणिं, क्षपक श्रेणिं वा न जातुचिदपि प्राप्स्यति सोऽनाद्यपर्यवसितः, कदाचिदपि तस्य वेदोदयव्यवच्छेदासम्भवात् / यस्तु प्राप्स्यत्युपशमश्रेणिं क्षपक श्रेणिं वा सोऽनादिसपर्यवसितः; उपशमश्रेणिप्रतिपत्तौ क्षपक श्रेणिप्रतिपत्तौ वा वेदोदयव्यवच्छेदस्य भावितत्वात् / यस्तूपशमश्रेणिं प्रतिपद्यते तत्र चावेदको भूत्वा भूय उपशमश्रेणीतः प्रतिपतन् सवेदको भवति, स सादिसपर्यवसिनः, सच जघन्येनान्तर्मुहूत्तम् / कथमिति चेत् ? उच्यते-इह यदा कोऽपि उपशमश्रेणिमुपपद्य त्रिविधमपि वेदमुपशमय्यावेदको भूत्वा पुनरपि श्रेणितः प्रतिपतन सवेदकत्वं प्राप्य झटित्युपशमश्रेणिं कर्मग्रन्थिकाभिप्रायेण क्षपक श्रेणिं वा प्रतिपद्य च वेदत्रयमुपशमयति, क्षपयति वा अन्तर्मुहूर्तेन, तदा जघन्येनान्तर्मुहूर्तमवेदकः, उत्कर्षतोऽपार्द्धपुद्गलपरावर्त्तदेशोनम् अपगतमर्द्ध यस्य स अपार्द्धः, देशोनां किंचिदूनम् / उपशमश्रेणीतो हि प्रतिपतित एतावन्तं कालं संसारं पर्यटन्ति, ततो यथोक्तमुत्कर्षतः सादिसपर्यवसितस्य सवेदकस्य कालमानमुपपद्यते। स्त्रीवेदविषये च पश्चादेशाः, तान् क्रमेण निरूपयति-(एगेण ओदेसेणमित्यादि) तत्र सर्वत्रापि जघन्यतः समयमात्रं भावनीयम्काचित् युवतिरुपशमश्रेणिवेद-त्रयोपशमेनावेदकत्वमनुभूय ततः श्रेणिं प्रतिपतन्ती स्त्रीवेदादयमेकसमयमनुभूय द्वितीयसमये कालं कृत्वा देवेषूत्पद्यते; तत्र च तस्याः पुंस्त्वमेव न स्त्रीत्वम् / तत एवं जघन्यतः समयमात्रं स्त्रीवेदः / उत्कर्षचिन्तायामियं प्रथमाऽऽदेशभावनाकश्चिजन्तु रीषु तिरश्चीषु वा पूर्वकोट्यायुष्कासुमध्ये पञ्चषान् भवान् अनुभूय ईशाने कल्पे पञ्चपञ्चाशत्पल्योपमप्रमाणोत्कृष्टस्थितिष्वपरिगृहीतासुदेवीषु मध्ये देवीत्वेनोत्पन्नः, ततः स्वायुःक्षये च्युत्वा भूयोऽपि नारीषु तिरश्चीषु वा पूर्वकोट्यायुष्कासु मध्ये स्त्रीत्वेनोत्पन्नः, ततो भूयोद्धपि द्वितीयवारमीशाने देवलोके पञ्चपञ्चाशत्पल्येपमप्रमाणोत्कृ टायुष्कास्वपरिगृहीतदेवीषु मध्ये देवीत्वेनोत्पन्नः, ततः परमवश्यं वेदान्तरमेव गच्छति। एवं दशोत्तरंपल्योपमशतं पूर्वकोटिपृथक्त्वाभ्यधिक प्राप्यते / अत्र पर आहननु यदि देवकुरुत्तरकुर्वादिषु पल्योपमत्रयस्थितिकासु स्त्रीशु मध्ये समुपपद्यते, ततोऽधिकाऽपि स्त्रीवेदस्य स्थितिरवाप्यते, ततः किमित्येवोपदिष्टा ? तदयुक्तम्। अभिप्रायापरिज्ञानात्। तथाहि-इह तावद्देवीभ्यश्च्युत्वा असंख्येयवर्षायुष्कासु स्त्रीमध्ये नोत्पद्यते. देवयोनेश्च्युतानामसंख्येयवर्षायुष्केषुमध्ये उत्पादप्रतिषेधात् / नाप्यसंख्येयवर्षायुष्का सती योषित उत्कृष्टासु देवीषु जायते। यत उक्तं मूलटीकाकृता-"जाताअसंखेजा वासाउया उक्कोसटिईन पावेइ" इति /
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy