________________ कायजोग 452 - अभिधानराजेन्द्रः - भाग 3 कायट्ठि . भाविनस्तिरश्चोऽधिकुत्य वेदनीयम्, अन्येषामेतावत्कालप्रमाणा पर्याप्तावस्थायामविच्छेदेनाप्राप्यमाणत्वात् अत्राप्यन्तर्मुहूर्तस्यापर्याप्तावस्थाया ग्रस्तत्वात् / एवं तिर्यक्स्त्रीमनुष्यभानुषीसूत्रेष्वपि भावनीयम्। तथा देवदेवीसूत्रयोस्तु जघन्त उत्कर्षतश्च कायस्थितिपरिमाणं प्रागुक्तमेवापर्याप्तावस्थाभाविनामन्तर्मुहूर्तेन हीनं परिभावनीयम्। गतं गतिद्वारम्। (7) इदानीमिन्द्रियद्वारमभिधित्सुराहसइंदिएणं भंते ! सइंदिएत्तिकालओ केव चिरं होइ? गोयमा! सइंदिए दुविहे पण्णत्ते / तं जहा-अणाइए अपञ्जवसिए, अणाइए सपज्जवसिए॥ (सइंदिए णं भंते ! इत्यादि) सह इन्द्रियं यस्य येन वा स सेन्द्रियः। इन्द्रियं च द्विधा-लब्धीन्द्रियं द्रव्येन्द्रियं च तत्रेह लब्धिन्द्रियमवसेयं, तद्विग्रहगतावप्यस्ति। इन्द्रियपर्याप्तस्यापि चततो निर्वचनसूत्रमुपपद्यते; अन्यथा तदघटमानमेव स्यात्। निर्वचनसूत्रमेवाह-(गोयमेत्यादि) इह यः संसारीस नियतमात्मेन्द्रियः, संसारश्चानादिरित्यनादिः सेन्द्रियः। तत्रापि यः कश्चित्कदाचिदपिन सेत्स्यतिऽनाद्यपर्यवसितः, सेन्द्रियत्ये पर्यायस्य कदाचिदप्यव्यच्छेदात् / यस्तु सेत्स्यति सोऽनादिसपर्यवसितः, मुक्त्यवस्थायां सेन्द्रियत्वपर्यायस्याभावात्। एकेन्द्रियादीनाम्एगिदिए णं भंते ! एगिदिए त्ति कालओ केव चिरं होइ? | गोयमा! जहण्णेणं अन्तोमुहुत्तं उक्कोसेणं अणंतं कालं वणस्सइकालो॥ एकेन्द्रियसूत्रे यदुक्तं "उक्कोसेणं अणंतं कालमिति'' तमेवानन्तं कालं | सविशेषं निरूपयति-(वणस्सइकालओ इति) यावन् वनस्पतिकालः / अग्रे वक्ष्यति, तावन्तं कालं यावदित्यर्थः; वनस्पतिकायस्यैकेन्द्रियपदे तस्यापि परिग्रहात् / स च वनस्पतिकाल एवं प्रमाणः-"अणंताओ उस्सप्पिणि-ओसप्पिणीओ कालओ, खेत्तओ अणंता लोगा असंखेज्जा पोग्गलपरियट्टा तेणं पोग्गलपरियट्टा आवलियाए असंखेजाइभागे" इति // द्वीन्द्रियादीनाम्वेइंदिए णं भंते ! वेइंदिए त्ति कालओ केव चिरं होइ ? गोयमा ! जहणणेण अन्तोमुहुत्तं उक्कोसेणं संखिज्जं कालं / एवं तेइंदियचउरिदिए वि। पंचिंदिए णं भंते ! पंचिंदिए त्तिकालओ केव चिरं होइ ?गोयमा ! जहण्णेणं अन्तोमुत्तं उक्कोसेणं सागरोवमसहस्सं सातिरेगं / आणिंदिए णं पुच्छा ? गोयमा ! सादिए अपञ्जवसिए। सइंदियअपञ्जत्तए णं पुच्छा ? गोयमा ! जहन्नेणं वि उकोसेण वि अन्तोमुहत्तं / एवं जाव पंचिंदियअपजत्तए वि।। द्वीन्द्रियसूत्रे-(संखेनं कालं ति) संख्येयानि वर्षसहस्राणीत्यर्थः; "विगले दियाण य वाससहस्सं संखेन्जा'' इति वचनात् / एवं त्रीन्द्रियचतुरिन्द्रिययोरपि सूत्रे वक्तव्ये / तत्रापि जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः संख्येयकालमिति वक्तव्यमिति भावः ! संख्येयश्च कालः संख्येयानि वर्षसहस्राणि प्रत्येतव्यानि / पञ्चेन्द्रियसूत्रे-उत्कर्षतः सातिरेक सागरोपमसहस्रं, तब नैरयिकतिर्यक् पञ्चेन्द्रियमनुष्यदेवभवभ्रतणेन द्रष्टव्यमधिकं तुन भवति, एतावत एव कालस्य केवलवेदस्योपलब्धत्वात्। अनिन्द्रियो द्रव्यभावेन्द्रियविकलः,सच सिद्धएव। सिद्धश्च साद्यपर्यवसितः। तत उक्तम्-'साइ अपज्जवसिए' इति। 'सइंदियअपजत्तएणमित्यादि / इहापर्याप्ता लब्धापेक्षया, करणापेक्षया च द्रष्टय्याः; उभयथाऽपि तत्पर्याप्तस्य जघन्यत उत्कर्षतो वाऽन्तर्मुहूर्तप्रमाणत्वात्। एवं तावद्वाच्यं यावत्पञ्चेन्द्रियापर्याप्तकः पञ्चेन्द्रियापर्याप्तकसूत्रम तय सुगमत्वात् स्वयं परिभावनीयम् / अनिन्द्रियोऽत्र न वक्तव्यः, तस्य पर्याप्तापर्याप्तविशेषणरहितत्वात्। सइंदियपञ्जत्तएणं भंते ! सइंदियपज्जत्तएत्ति कालओ केव चिरं होइ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसयपुहुत्तं सातिरेगं। एगिदियपजत्त एणं भंते! पुच्छा? गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं संखेज्जाई वाससहस्साई। वेइंइियपज्जत्तए णं पुच्छा ? गोयमा ! जहण्णेणं अंतोमुहूत्तं उक्कोसेणं संखिजाई वाससहस्साइं / वेइन्दियपज्जत्तए णं पुच्छा? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं संखिज्जाई वासाई / तेइंदियपज्जत्तए णं पुच्छा ?गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं संखेज्जाइराइंदियाई। चउरिदिय पञ्जत्तए णं भंते ! पुच्छा? गोयमा ! जहण्णेणं अंतोमुहत्तं उक्कोसेणं संखिज्जा मासा / पंचिंदियपज्जत्तए णं भंते ! पुच्छा ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसय पुहुत्तं / / (सइंदियपजत्तएणं भंते! इत्यादि) इह पर्याप्तो लब्ध्यपेक्षया वेदितव्यः / स हि विग्रहगतावपि सम्मतिकरणैरपर्याप्तस्यापि, तत उत्कर्षतः सातिरेकसागरोपमशतपृथक्त्वमिति यन्निर्वचनं तदुपपद्यते / अन्यथा करणपर्याप्तस्योत्कर्षतोऽप्यन्तर्मुहूर्तानां त्रयस्त्रिंशत्सागरोपमप्रमाणतया लभ्यमानत्वात् यथोक्तं निर्वचनेनोपपद्यते / एवमुत्तरसूत्रेऽपि पर्याप्तत्वं लब्ध्यपेक्षया द्रष्टव्यम्। एकेन्द्रियपायैप्तसूत्रेसंख्येयानि वर्षसहस्राणीति। एकेन्द्रियस्य हि पृथिवीकायस्योत्कर्षतो द्वाविंशतिवर्षसहस्राणि भवस्थितिः / अप्कायस्य सप्त वर्षसहस्राणि, वातकायस्य त्रीणि वर्षसहस्राणि, ततो निरन्तरं कतिपयपर्याप्तभवसङ्कलनया सङ्ख्येयानि वर्षसहस्राणि धटन्ते इति।द्वीन्द्रियस्य पर्याप्तसूत्रे-सङ्ख्येयानि वर्षाणि, द्वीन्द्रिया ह्युत्कर्षतो भवस्थितिपरिमाणं द्वादशसंवत्सराणि / न चर्वेष्वपि भवेषूत्कृष्टस्थितिसम्भवः, ततः कतिपयनिरन्तरपर्याप्तभवसङ्कलनयाऽपि संख्येयानि वर्षाण्येवलभ्यन्ते, न तु वर्षशतानि, वर्षसहस्राणि वा। त्रीन्द्रियपर्याप्तसूत्रे-संख्येयानि रात्रिंदिवानि तेषां च भवस्थितिरुत्कर्षतोऽप्येकोनपञ्चाशद्दिनस्या कतिपय निरन्तरपर्याप्तभवसङ्कलनायामपि संख्येयानां रात्रिंदिवानामेव लभ्यमानत्वात् / चतुरिन्द्रियसूत्रेसंवयेया मासाः, तेषां भवस्थितेरुत्कर्षतः षण्मासप्रमाणतया कतिपयनिरन्तरपर्याप्तकालसङ्कलनायामपि संख्येयानां मासानं प्राप्यमाणत्वात् / पञ्चेन्द्रियसूत्रं सुगमम्। (8) इदानीं कयद्वारमभिधित्सुराहसकाइए णं भंते ! सकाइए त्ति कालओ के व चिरं होइ ?