SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ काय 447 - अभिधानराजेन्द्रः - भाग 3 काय वर्तमानभवे वर्तमानस्य उभयत एष्ये अतीते च, अनन्तरभविकं, पुरस्कृतपश्चात्कृतभवसंबन्धीत्युक्तं भवति / यथा तिष्ठति आयुष्कमेव, तुशब्दस्यावधारणार्थत्याद् न शेष कर्त विवक्षितं यद् बद्धम् / अयं भावार्थः-पुरस्कृतभवसंबन्धित्रिभागाविशेषायुष्कः सामान्येनतस्मिन्नेव भवे वर्तमानो बध्नाति, पश्चात्कृतसंबन्धिनः पुनस्तस्मिन्नेव वेदयति। अतिप्रसंगनिवृत्त्यर्थमाह-(हुजिरेसु वि जइ तं दव्वभवा हुन्ज तो ते वि) भवेत् इतरेष्वपि प्रभूतेषू अतीतेषु यद् बद्धम, अनागतेषु च् यद्रेक्ष्यते। यदि तत्तस्मिन्नेव भवे वर्तमानस्य, द्रव्यभवा भवेरन् ततस्तेऽपि, तदायुष्ककर्मसंबन्धादिति हृदयम् / न चैतदस्ति; तस्मादसबोदक वचनमिति गाथार्थः // 28 // अस्यैवार्थस्य प्रसाधकं लोकप्रतीतं निदर्शनमभिधातुकाम आहसंझासु दोसु सूरो, अदिस्समाणो वि पप्प समई। जह ओभासइ खित्तं, तहेव एअंपिनायव्वं // 26 // संध्या च संध्या च संध्ये, तयोः संध्ययोर्द्वयोः प्रत्यूषप्रदोषप्रतिबद्धयोः, सूर्य आदित्यः, अदृश्यमानोऽप्यनुपलभ्यमानोऽपि, प्रापणीयं प्राप्यं, समतिक्रान्तं समतीतं, यथाऽवभासते प्रकाशयति क्षेत्रम् / तद्यथाप्रत्यूषसंध्यायां पूर्वविदेह भरतंच, प्रदोषसंध्यायां तु भरतमपरविदेहं च, तथैव, यथा सूर्यः, इदमपि प्रक्रान्तं, ज्ञातव्यं विज्ञेयम्। एतदुक्तं भवतिवर्तमानभवे स्थितः पुरस्कृतभवं. पश्चात्कृतभवंच आयुष्ककर्मसद्दव्यतया स्पृशति, प्रकाशेनाऽऽदित्यवदिति गाथार्थः / / 26 // अधुना मातृकायः प्रतिपाद्यते, मातृकेतिमातृकापदानि "उप्पण्णे इव" इत्यादीनि, तत्समूहो मातृकायः, अन्योऽपि _तथाविधः पदसमूहो बह्वर्थ इति। तथाचाह भाष्यकार:माउ अपयं ति णेमं, नवरं अन्नो वि जो पयसमुहो। सो पयकाओ भन्नइ, जे एगपउ बहू अत्था // 30 / / मातृकापदमिति (णेतं ति) चिहं, नवरमन्योऽपि यः पदसमूहः पदसङ्घातः स पदकायो भण्यते; मातृकापदकाय इति भावना। नाविशिष्टः पदसमूहः, किंतु (जे एगपएबहू अत्या) यस्मिन्नेकस्मिन् पदे बहवोऽर्थाः, तेषां पदानां यत्समूह इति / पाठान्तरं वा-(जम्मेगपए इहू अत्थ त्ति) गाथार्थः||३०|| संग्रहकायप्रतिपादयन्नाहसंगहकाओऽणेगा, वि जत्थ एगवयणेण धिप्पंति। जह सालिगामसेणा, जाओ वसई निविट्ठत्ति॥३१॥ संग्रहणं संग्रहः, स एव कायः संग्रहकायः। स किंविशिष्ट इत्याह-(णेगा वि जत्थ एगवयणेण घेप्पंति त्ति) प्रभूता अपि यत्रैकवचनेन गृह्यन्ते / यथा-शालिग्रामसेना जातो वसति निविष्टति यथासंख्यम्। प्रभूतेष्वपि स्तम्बेषु सत्सु जातः शालिरिति व्यपदेशः। प्रभूतष्वपि पुरुषवनितादिषु वसतिग्रामः, प्रभूतेष्वपिहस्त्यादिषु निविष्टा सेनेति।अयंशाल्यादिरर्थः संग्रहकायो भण्यते इति गाथार्थः // 31 // साम्प्रतं पर्यायकायं दर्शयतिपज्जवकाओ पुण हुं-ति पज्जवा जत्थ पिंडिआ बहवे / परमाणुम्मि वि कम्मि वि, जह वन्नाई अणंतगुणा ||32|| पर्यायकायः पुनः भवन्ति पर्याया वस्तुधर्मा यत्र परमाण्वादौ पिण्डिताः बहवः, तथा च परमाणावपि कस्मिंश्चित, संव्यवहारिक इति पाठोऽववुध्यते / सांव्यवहारिके, यथा वर्णादयो वर्णगन्धरसस्पर्शाः अनन्तगुणाः, अन्यापेक्षया / तथाचोक्तम्-"कारणमेव तदल्पं, सूक्ष्मो नित्यश्च भवति परमाणुः / एकरसगन्धवर्णो, द्विस्पर्शः कार्यलिङ्गश्च // 1|| स चैकस्तिक्तादिरसः तदन्यापेक्षया तिक्ततरतिक्ततमादिभेदानन्त्यं प्रतिपद्यते / एवं वर्णादिष्वपि विभावनेति गाथार्थः / / 3 / / अधुना भरकायःएगो काओ दुहा जाओ, एगो चिट्ठइ एगु मारिओ। जीवंत मरण मारिओ तं,लव माणव ! केण हेउणो?३३|| एकः कायः क्षीरकायो द्विधा जातः, घटद्वयेन्यासात्। तत्र एकस्तिष्ठति, एको मारितः, जीवन् मृतेन मारितः / तदेतत् (लव माणव त्ति) ब्रूहि हे मानव ! केन कारणेन ? कथानकं यथा प्रतिक्रमणाध्ययने परिहरणायामिति गाथार्थः / भारकायश्चात्र क्षीरभृतकुम्भद्योपेता कापोती भण्यते; भारश्चासौ कायश्चेतिभारकाय अन्ये भणन्ति;अन्ये तु भारकायः कापोत्येवोच्यते इति। भावकायप्रतिपादनायाऽऽहदुगतिगचउरा पंच, भावा बहुआ व जत्थ विजंति। सो होइ भावकाओ, जीवमजीवे विभासाओ॥३४|| द्वौ त्रयश्चत्वारः पञ्च वा भावा औदायिकादयः प्रभूता अन्येऽपि यत्र सचेतनाचेतने वस्तुनि विद्यन्ते स भवति भावकायः, भावानां कायो भावकाय इति / (जीवमजीवे विभासाओ) जीवा जीवयोर्विभाषा खल्वागमानुसारेण कार्येति गाथार्थः॥३४॥ अधुनैकार्थिकान्युच्यन्तेकाए 1 सरीर 2 देहे 3, बुंदी 4 चय 5 उवचए अ६ संघाए / उस्सय 8 समुस्सए वा६, कलेवरे 10 भत्थ 11 तणु 12 पाणू 13 // 35|| कायः शरीरं देहो बोन्दिः चय उपचयश्च सङ्घात उच्छ्यः समुच्छ्यः कडेवरं भस्त्रा तनुः पाणुरिति गाथार्थः।।३५|| अव०५ अ०दश। आ०चूला आ०म०। दर्श०। विशे० पृथिव्यप्तेजोवायुवनस्पतित्रसकायभेदात् षोढा कायः। प्रव०२२५ द्वार। कर्मा विशे०। चतुर्धा कायःपृथिव्यप्तेजोवायश्च / आचा०१ श्रु०१ अ०१ उ०। दर्शा पाञ्चभौतिके शरीरे, द्वा०२६ द्वा०। ''वसाऽसृग्मांसमेदोऽस्थिमज्जशुक्रान्त्रवर्चसाम्। अशुचीनां पदं कायः, शुचित्वं तस्य तत्कृतः?"||१|| अष्ट०१६ अ०। (कायान्मलनिःसारणनिषेधो 'अणायार' शब्दे प्रथमभागे 314 पृष्ठे निरूपितः) औदारिकादित्रये घातिचतुष्टये, आचा०१ श्रु०६ अ०५ उ०। आया भंते! काए अण्णे काए ? गोयमा ! आया विकाए, अण्णे वि काए। रुवी भंते! काए अरूवी काए ? गोयमा! रूवी विकाए अरुवी विकाए। एवं एक्कक्के पुच्छा / गोयमा! सचित्ते विकाए, अचित्ते विकाए, जीवे विकाए अजीवे विकाए, जीवाण विकाए अजीवाण वि काए / पुट्विं भंते ! काए पुच्छा / गोयमा ! पुटिव पि काए
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy