________________ काय 446 - अभिधानराजेन्द्रः - भाग 3 काय ण्यते। एष खलुगतिकायः / स्वरूपेणैवदर्शयन्नाह-(सतेयगं कम्मगसरीरं) कार्मणस्य प्राधान्यात् सह तैजसेन वर्तते इति सतैजसं कार्मणशरीरं गतिकायः, तदाश्रयेणापान्तरालगतौ जीवगतेरिति भावनीयमिति गाथार्थः॥२१॥ निकायकायः प्रतिपाद्यतेनिअयमहिगो व काओ, जीवनिकाओ निकायकाओ अ। (निययमहिगो व काओ जीवनिकाओ त्ति)नियतो नित्यः कायो निकायः, नित्यता चास्य त्रिष्वपि कालेषु भावात्। अधिको वा कायो निकायः, यथाऽधिको दाहो निदाह इति / आधिक्यं चास्य धर्माधर्मास्तिकायापेक्षया स्वभेदापेक्षया वा / तथा हि-एकादयो यावदसंख्येयाः पृथिवीकायिकाः, तावत्काय एव स्वजाजीयान्यप्रक्षेपापेक्षया निकाय इति। एवमन्येष्वपि विभाषेति। एवं जीवनिकायः सामान्येनन निकायकायो भण्यते / अथवा जीवनिकायः पृथिव्यादिभेदभिन्नः षडविधोऽपि निकायो भण्यते ; तत्समुदाय एव निकायकाय इति। अधुनाऽस्तिकायः प्रतिपाद्यते, तत्रेदं गाथाशकलम्अस्थि त्ति बहुपएसा, तेणं पंचऽत्थिकाया उ॥२२॥ (अस्थि तीत्यादि) अस्तीत्ययं त्रिकालवचनो निपातः। अभूवन् भवन्ति भविष्यन्ति चेति भावना / बहुप्रदेशाश्च, यतस्तेन पञ्चैवास्तिकायाः / तुशब्दस्यावधारणार्थत्वान्न न्यूनानाऽप्यधिका इति / अनेन धर्मा च धर्माधर्माकाशानामेकद्रव्यत्वादेकास्तिकायत्वानुपपत्तिः। अद्धासमयस्य चैकत्वादस्तिकायत्वापत्तिरित्येतत्परिहृतमवगस्तव्यम् / तेचामि पञ्च / तद्यथा-धर्मास्तिकायः, अधर्मास्तिकायः, आकाशास्तिकायः, जीवस्तिकायः, पुद्गलस्तिकायश्चेति / अस्ति-कायश्च काय इति हृदयमयं गाथार्थः / / 22 // साम्प्रतं द्रव्यकायावसरस्तत्प्रतिपादनायाऽऽहजंतु पुरक्खडभावं, दवि पच्छाकडं वा भावाओ। तं होइदव्वदवि,जह भविओ दय्वदेवाइ।।२३।। यव्यमिति योगः। तुशब्दो विशेषणार्थः। किं विशिनष्टि? जीवपुगलद्रव्यं न धर्मास्तिकायादि / ततश्चैतदुक्तं भवति-यद् द्रव्यं यद् वस्तु, पुरस्कृतभावमिति, पुरो यतः कृतो भावो येनिति समासः / भाविनो भावस्य योग्यमभिमुखमित्यर्थः। (पच्छाकडं व भावाओ त्ति) वाशब्दस्य व्यवहितः संबन्धः / ततश्चैवं प्रयोगः-पश्चात् कृतभावम् / वाशब्दो विकल्पवचनः / पश्चात्कृतः प्राप्योज्झितो भावः पर्यायविशेषलक्षणो येन स तथोच्यते / एतदुक्तं भवति-यस्मिन् भावे वर्तते द्रव्यं ततो यः पूर्वमासीद्भावस्तस्मादपेतं पश्चात्कृतभावमुच्यते। (तं होइ दव्वदवियं) तदित्थंभूतं द्विप्रकारमपि भाविनो, भूतस्य च भावस्य योग्यं (दव्यं ति) वस्तु वस्मुवतो ह्येको द्रव्यशब्दः / किंभवति? द्रव्यम्। भवतिशब्दस्य व्यवहितः प्रयोगः / इत्थं द्रव्यलक्षणमभिधायाधुनोदाहरणमाह-(जह भविओ दव्वदेवाई) यथेत्युदाहरणोपन्यासार्थः / भव्यो योग्यः / द्रव्यदेवादिरिति। इयमत्र भावना-यो हि पुरुषादिम॒त्वा देवत्वं प्राप्स्यति बद्धायुष्कः, अभिमुखनामगोत्रो वा योग्यत्वाइव्यदेवोऽभिधीयते / एवमनुभूतदेवभावोऽपि / आदिशब्दाव्यनारकादिपरिग्रहः, परमाणुग्रहश्च / तथा ह्यसावपि ह्यणुकादिकायगोग्यो भवत्येव, ततश्चेत्थं भूतं द्रव्यं द्रव्यकायो भण्यत इति गाथार्थः / / 23 / / आह- किमिति तुशब्दविशेषणाजीवपुद्गलद्रव्यमङ्गीकृत्य धर्मास्ति कायादीनामिह व्यवच्छेदः कृत इति ?उच्यते-तेषां च यथोक्तकारद्रव्यलक्षणायोगात् सर्वदेवास्तिकायत्वलक्षणभावोपेतत्वात्। आहच भाष्यकार:जइ अत्थिकायभावो, इय एसो हुज्ज अस्थिकायाणं / पच्छाकडो व तो ते, हवेज्ज दव्वत्थिकाय त्ति ||24|| यद्यस्तिकायभावः अस्तिकायत्वलक्षणः (इय एसो हुज अस्थिकायाणं ) 'इय त्ति' एवं यथा जीवपद्लद्रव्ये विशिष्टः पर्याय इति, एष्य आगामी भवेत्। केषाम् ? अस्तिकायानां, धर्मास्तिकायादीनामिति व्याख्यानाद् विशेषप्रतिपत्तिः / तथा-पञ्चात्कृतो वा यदि भवेत् / (तो ते हवेज दव्वत्थिकाय त्ति) ततस्ते भवेरन् द्रव्यास्तिकाया इति गाथार्थः // 24 // तीअमणागयभावं,जमत्थिकायाण नत्थि अत्थित्तं / तेणिर केवल तेसुं, नत्थी दव्वत्थिकायत्तं // 25 // अतीतमतिक्रान्तम् अनागतभावं भावि, यद्यस्मात्कारणात्, अस्तिकायानां धर्मादीनां, नास्ति न विद्यते अस्तित्वं विद्यमानत्वं, कायत्वापेक्षया सदैव कायत्वयोगादितिहृदयम् / (तेणिर त्ति) तेन (इर ति) किल केवलं शुद्धं, तेषु धर्मास्तिकायादिषु, नास्ति न विद्यते (दव्वत्थिकायत्तं) द्रव्यास्तिकायत्वं, सदैव तद्भावयोगादितिगाथार्थः। आह-यद्येवम्, द्रव्यदेवायुदाहरणोक्तमपि द्रव्यं न प्राप्नोति, सदैव तद्भावयोगात्। तथाहि स एव तस्य भावो योऽस्मिन् वर्तते इति अत्र गुरुराहकामं भविअसुराइसु, भावो सो चेव जत्थ वटुंति। एसो न ताव जाएइ, ते तेणिर ते दव्वेदेव त्ति // 26 / / काममित्यनुमतम्, यथा (भवियसुराइसु) भव्याश्च ते सुरादयश्चेति विग्रहः। आदिशब्दाद् द्रव्यनारकादिग्रहः। तेषु तद्विषये विचारे, भावः स एव यत्र वर्तते, तदानीं मनुष्यादिभावे इति, किं तु एष्यो भावी, न तावजायते, तदा (तेणिर ते दव्येदव त्ति) न ते किल द्रव्यदेवा इति / योग्यत्वात्, योग्यस्य च द्रव्यत्वाद्वा / न चैतद्धर्मास्तिकायादीनामस्ति, एप्यकालेऽपि तद्भावयुक्तत्वादेवे ति गाथार्थः // 26 // यथोक्तद्रव्यलक्षणमवगम्य तद्भावेऽतिप्रसङ्ग च मनस्याधायाऽऽह चोदकःदुहओऽणंतररहिआ, जइ एवं तो भवा अणंतगुणा। एगस्स एगकाले, भवा न जुजंती अणेगा / / 27|| (दुहओ त्ति) वर्तमानभवे स्थितस्य उभ्यत एष्यकाले, अतीतकाले च (अणंतररहित त्ति) अनन्तरौ एष्यातीतौ, अनन्तरौ च तौ रहितौ च, वर्तमानभवभावेनेति प्रकरणाद्गम्यते / अनन्तररहितौ तावपि (जइ त्ति)यदि तस्योच्यते, (एवं तो भवा अर्णतगुण त्ति) एवं चसतिततो भवा अनन्तगुणाः तद्भवद्वयव्यतिरिक्ता वर्तमानभवभावेन रहिता एष्यातिक्रान्ताश्च तेषूच्येरन् / ततश्च तदपेक्षयाऽपि द्रव्यत्वकल्पना स्यात् / अथोच्यते भवत्वेवमेवं का नो हानिरिति?। उच्यते-एकस्य पुरुषादेः, एक काले पुरुषादिकाले, भवा (नजुजंति) न युज्यन्ते न घटने, अनेके बहवः इतिगाथार्थः।२७।, इत्थं चोदकेनोक्ते गुरुराहदुहओऽणंतरभविअं,जह चिट्ठइ आउअं तु जं बद्ध / हुजिरेसु वि जइ तं, दव्वभवा हुजा तो ते वि॥२८॥