________________ काउसग्ग 126 - अभिधानराजेन्द्रः - भाग 3 काउसग्ग हपोत्ति उज्जुए त्ति) दाहिणहत्थेण मुहपोत्तिया घेत्तव्वा, डव्वहत्थे रयहरण कायव्वं / एएण विहिणा (वोसट्ठ चत्तदेहो ति) ता पूर्ववत् काउस्सग्गं करेजाहि त्ति गाथार्थ : / / 257|| गतं विधिद्वारम् / आव०५ अ०। आ० चू० (13) अधूना दोषद्वारावसरस्तत्रेदंगाथाद्वयम्घोडग लया य खभे, कुड्डे माले अ सबरि बहु निअडे / लंबुत्तर थण नुद्धी, संजइ खलिणे अ वायस कबिट्टे // 256 / / सीसुकंपिअमूई, अंगुलिममुहा उ वारुणी पेहा। एए काउस्सग्गे, हवंति दोसा इगुणवीसं // 260 / / (नाभीकरयलकुप्पर ओस्सारिअपारिअम्मि थुई) तत्रैते कायोत्सर्गे भवन्ति दोषा एकोनविंशतिरिति संटङ्कः / कायस्य शरीरस्य स्थानमौनध्यानक्रियाव्यातिरेकेणान्यत्रोच्छ्वसितादिभ्यः क्रियान्तराध्यासमाश्रित्य य उत्सर्गस्त्यागो 'नमो अरिहंताणमिति" वचनात् पूर्व स कायोत्सर्गः / स च द्वेधा चेष्टायामभिभवे च / चेष्टायां गमनागमनादावैर्यापथिक्यादि प्रतिक्रमणभावी / अभिभावे च सुरादिविधीयमानोपसर्गजयार्थम्। यदुक्तम् "सो उस्सग्गो दुविहो, चेट्टाए अभिभावे च नायव्वो / भिक्खायरियाइ पढमो, उवसग्गऽभिजुंजणे वीओ"त्ति। स च दोषरहितो विधीयमानो निर्जराहेतुर्भवति। दोषाश्चैते घोटकलतास्तम्भकुड्यमालशबरीबधूनिगडलम्बोत्तरस्तनोर्द्धिकासंयत। खलीनवायसकपित्थशीर्षोत्कम्पितमूकाङ्गु लिभ्रकुटीवारुणीप्रेक्षा इत्येकोनविंशतिः। इदानीं नामतोऽभिहितानेनतान् स्वयमेव विवृणोतिआसो व विसमपायं, आउंटावित्तु ठाइ उस्सग्गो। कंपइ काउस्सग्गे, लय व्व खरपवणसंगेणं // 261|| खंभे वा कुड्डे वा, आवहमिय कुणइ काउसग्गं तु। माले य उत्तमंग, अवठंभिय ठाइ उस्सग्गं / / 262 / / सबरी वसणविरहिया, करेहि सागारियं जह ठवेइ। ठइऊण गुज्झदेसं, करेहि इय कुणइ उस्सग्गं / / 263|| अवणामिउत्तमंगं, काउस्सगे जहा कुलबहु व्व। नियडियओ विव चरणे, वित्थारिय अहव मेलविउं // 264|| काऊण चोलपट्टे, अविहीए नाहिमंडलस्सुवरिं। हेट्ठाइ जाणुमित्तं, चिट्ठइ लंडुत्तुरुस्सग्गं // 265 / पच्छाइ ऊणयथणे, चोलगपट्टेण ठाइ उस्सग्गं / दंसाइरक्खणट्ठा, अहवाडणाभोगदोसेहिं // 266|| मेलित्तु पण्हिहयाओ, चलणे वित्थारिऊण बाहिरओ। काउस्सग्गो एसो, बहिरउद्धी मुणेयव्वो // 267 / / अंगुठे मेलविओ, वित्थारिय पण्हिया उ बाहिं तु / काउस्सगं एसो, भणिओ अभिंतरद्धि त्ति॥२६८|| कप्पं वा पट्टे वा, पाउणियं संजइ व्व उस्सग्गं / ठायइ खलिणं च जहा, सयहरणं अग्गओ काउं॥२६॥ भामेइ तहा दिट्टि, चलचित्तो वायसो व्व उस्सग्गे। उप्पझ्याण भएणं, कुणइ य पट्ट कविष्ठं च / / 270 / / सीसं पकंपमाणो, जक्खाइट्ठो व्व कुणइ उस्सग्गं / मूउ व्व हुहुअंतो, तहेव छिज्जतमाईसं // 271 / / अंगुलिभमुहाओ वि य, चालंतो कुणइ तह य उस्सगं / आलावगगणणट्ठा, संठवणत्थं च जोगाणं // 272 / / काउस्सग्गम्मि ठिओ, सुरा जहा बुडबुडेइ अव्वत्तं / अणुपेहंतो तह वानरो व्व चालेइ हुट्ठउडं / / 273|| आकुञ्चितस्यैकपादस्य घोटकस्येव स्थानं घोटकदोषः / कम्पते कायोत्सर्ग लतेव खरपवनसङ्गेनेति लतादोषः / स्तम्भे वा कुड्ये या अवष्टभ्यं स्थानं स्तम्भकुड्यदोषः। तथा माले उपरितनभागे उत्तमाङ्गमवष्टभ्य करोत्युत्सर्गमिति मालदोषः / शबरी पुलिन्दिका वसनविरहिता कराभ्यां सागारिकं गुह्यं यथा स्थगयति, एवं स्थगयित्वा गुह्यदेशं कराभ्यां करोत्युत्सर्गमिति शबरीदोषः / अवनामितोत्तमङ्गः कुलबधूरिव तिष्ठन् करोत्युत्सर्गमिति बधूदोषः / निगडनियन्त्रित इव चरणौ विरुतार्यायवा मीलयित्वा करोत्युत्सर्गभिति निगडदोषः / कृत्वा चोलपट्टमविधिना नाभिमण्डलस्योपरि अधस्ताच जानुमात्रं तिष्ठति कायोत्सर्गे इति लम्बरोत्तरदोषः / अवच्छाद्य स्थगयित्वा स्तनौ चोलपट्टेन देशादीनां रक्षणार्थम्, अथवा अनाभोगदोषेण, अज्ञानदोषेण वा करोत्युत्सर्गमिति स्तनदोषः / ऊर्द्धिकादोषो द्विधा बाह्योर्द्धिकादोषोऽभ्यन्तरोर्द्धिकादोषश्च / तत्र च द्वावपि पदौ क्रमेण मीलयित्वा पार्णी चरणावग्रभागे विस्तार्य बाह्यतो बहिर्मुखं तिष्ठत्युत्सर्गे एष बहिःशकटोर्द्धिकादोषो ज्ञातव्यः। तथा अङ्गुष्ठौ मीलयित्वा विस्तार्य पाणी तु बाह्यतस्तिष्ठत्युत्सर्गे एष भणितोभ्यन्तरशकटोर्द्धिकादोषः। कल्पं वा पटी पट्टवा चोलपट्ट संयतीव स्कन्धदेशयोरुपरि प्रावृत्यतिष्ठत्युत्सर्गे इति संयतीदोषः / खलीनमिव कविकमिव रजोहरणमग्रतः कृत्वा तिष्ठत्युत्सर्गे इतिखलीनदोषः। वाऽत्र समुच्यते। अन्ये खलीनार्तवाजिवधिःशिरःकम्पनं खलीनदोषमाहुः / तथा दृष्टिं भ्रमयति चलचित्तो वायस इवेतस्ततो नयनगोलकभ्रमणं दिनिरीक्षणं वा कुरुते उत्सर्ग इति वायसदोषः / षट्पदिकाभयेन कपित्थवद्वृत्ताकारत्वेन संवर्त्य जङ्घादिमध्ये पट्ट कृत्वा तिष्ठत्युत्सर्गे इति कपित्थदोषः / एवमेव मुष्टि बध्वा स्थानमित्यन्ये / भूताविष्टस्येव शीर्ष कम्पयतः कायोत्सर्गकरणं शीर्षोत्कम्पितदोषः / तथा छिद्यमानेषु केनचित् गृहस्थादिना कायोत्सर्गव्यवस्थितप्रत्यासन्न प्रदेशवर्तिषु हरितादिषु तन्निवारणार्थ मूक इव हुं हुमित्यव्यक्तं शब्दं कुर्व स्तिष्ठत्युत्सर्गे इति मूकदोषः / तथाऽऽलापकगणनार्थमङ्गुलीश्चालयन्, तथा योगो नाम स्थापनार्थं व्यापारान्तरनिरूपणार्थं भुवौ चालयन् / भूसंज्ञां कुर्व न, चकारादेवमेव वा भ्रनृत्तं कुर्वन्नुत्सर्ग तिष्ठतीति अङ्गुलिभूदोषः / तथा कायोत्सर्गस्थितो निष्पद्यमानसुरेव बुडबुडाशब्दमव्यक्तरावं करोतीति वारुणिदोषः। वारुणीमत्तस्येव घूर्णमानस्य स्थानं वारुणीदोष इत्यन्ये। अनुप्रक्षमाणो नमस्कारादिकं चिन्तयन्नुत्सर्गतो वानर इव चनयत्योष्ठपुटाविति प्रेक्षादोष इत्येकोनविंशतिः / अन्ये त्वेकविंशति मन्यते। तत्र स्तम्भकुड्यदोषेण स्तम्भदोषः, कुड्यदोषश्चेति द्वौ विवक्षितौ / तथाऽङ्गु लिभूदोषेणापि अङ्गुलिदोषो, भूदोषश्चेत्येव मेकविंशतिः। एके चान्यानपि कायोत्सर्गदोषानाहुः