________________ काउसग्ग 425 - अभिधानराजेन्द्रः - भाग 3 काउसग्ग हस्तशतस्याभ्यन्तरे उच्चारं प्रश्रवणं तन्मात्रकं वा परिष्ठापयति तदाऽपि विचार इति वचनात् ऐपिथिकीप्रतिक्रमणपुरस्सरः पञ्चविंशत्युच्छ्वासप्रमाणः कायोत्सर्गः प्रायश्चित्तम्। ___संप्रति सुत्त' इति पदं व्याचिख्यासुराहउद्देससमुद्देसे, सत्तावीसंतह अणुण्णए। अट्टेवय ऊसासा, पट्ठवणपडिक्कमणमादि। उद्देशो वाचनासुत्रप्रदानमित्यर्थः समुद्देशो व्यख्या, अर्थप्रदानमिति भावः। अनुज्ञा सूत्रार्थयोरन्यप्रदानं प्रत्यनुगमनम् एतेषु; तथेतिशब्दोऽनुक्तसमुच्चयार्थः / तेन श्रुतस्कन्धपरिवर्त्तने अङ्गपरिववर्तने च कृते तदुत्तरकालमविधिसमाचरणपरिहाराय प्रायश्चित्तं कायोत्सर्गः सप्तविंशत्युच्छ्रासप्रमाणः पर्यन्तैकपादहीनः समस्तश्चतुर्विंशतिस्तवस्तत्र चिन्तनीय इति भावः। (अट्ठेव य इत्यादि) प्रस्थापनं स्वाध्यायस्य, प्रतिक्रमणं कालस्य, तयोः करणे कायोत्सर्गः प्रायश्चित्तमष्टावेवोच्छ्रासाः, अष्टोच्छासप्रमाणः / आदिशब्दात् मात्रकमपि परिष्ठाप्य ऐपिथिकीप्रतिक्रमणोत्तरकालं कायोत्सर्गोऽष्टोच्छासप्रमाणः करणीय इति द्रष्टव्यम्। एतचास्यैव व्यवहारस्य चूर्णों दृष्ट्वा लिखितमिति। अत्रैवाऽऽक्षेपमभिधित्सुराह-- पुव्वं पट्ठवणा खलु, उद्देसाई य पच्छतो हुंति। पट्ठवणुद्देसादिसु, अणाणुपुथ्वी कया किं तु // ननु पूर्व प्रस्थापना खलु स्वाध्यायस्य क्रियते, पश्चादुद्देशादयो भवन्ति; ततः प्रस्थापनोद्देशादिषु प्रस्थापनाऽनन्तरमुद्देशादिषु व्यवस्थितेषु, किंतु इत्याक्षेपे। किमर्थं ननु अनानुपूर्वी अनन्तरगाथायां कृता , किमिति पश्चात्गाथायां पूर्व मुद्देशादय उक्तास्तदनन्तरं प्रस्थापनमिति भावः ? नैष दोषः; मतान्तरेणैवंरूपाया अप्यानुपूर्व्याः संभवात्। तथा चाहअज्झयणाणं तितयं, पुव्वुत्तं पट्टविजई जेहिं। तेसिं उद्देसादी, पुष्वमतो पच्छ पट्ठवणा।। यैराचार्यरध्ययनानाम्, उपलक्षणमतेत्। उद्देशकप्राभृतादीनां च त्रितयं / उद्देशसमुद्देशानुज्ञालक्षणं, पूर्वोक्तं पूर्वप्रवर्तितं, प्रस्थाप्यते उद्देशादिषु कृतेषु पश्चात्तेषां प्रस्थापना पैराचार्य रुपवर्ण्यते, तेषां मतेनायमेव क्रम इति वाक्यशेषः / अतः प्राग्भाषायां पूर्वमुद्देशादय उक्ताः पश्चात्प्रस्थापनेति। संप्रति 'सुत्ते या' इति वाशब्दसमुच्चितं दर्शयतिसवे सु खलियादीसु, झाएजा पुच मंगलं / दो सिलोगे विचिंतेजा, एगञ्जो वा वि तक्खणं / / इह यदि बहिर्गमने प्रयोजनानन्तरप्रारम्भे वा वस्वादेः स्खलनं भवति। आदिशब्दात् शेषापशकुनदुर्निमित्तपरिग्रहः / तेषु सर्वेषु स्खलितादिषु समुपजातेषु तत्प्रतिघट्यते त्रिविधमपि, मुख्यस्तु कायिकम्। तथाचाहकायचिट्ठ निरुभित्ता, मण वायं च सव्वसो। वट्टई काइए झाणे, सुहुमुस्सासवं मुणी।। कायचेष्टां कायव्यापारं, तथा वाचं च सर्वशः सर्वात्मना निरुध्य कायोत्सर्गः क्रियते / ततः कायोत्सर्गस्थो मुनिः सूक्ष्मोच्छ्रासवान्।। उपलक्षणमेतत्-सूक्ष्मदृष्टि संचारादवाँश्च, न खलु कायोत्सर्ग सूक्ष्मोच्छ्वासादयो निरुध्यन्ते, तन्निरोधस्य कर्तुमशक्यत्वात् वर्तते कायिके ध्याने एतच्चैवमुच्यते, तस्य स्पष्टभुपलक्ष्यमाणत्वात्। यावता पुनर्वाचिकमानसे अपि ध्याने द्रष्टव्ये। तथाचाहन विरुज्झंति उस्सग्गे, झाणा वाइयमाणसा। तीरिए पुण दुस्सग्गे, तिण्हमन्नयरे सिया॥ नविरुध्येते उत्सर्गे कायोत्सर्गेध्याने वाचिकमानसे वाङ्गनोयोगयोरपि, विषयान्तरतो निरुध्यमानत्वात्। सूत्रेच द्वित्वेऽपि बहुवचनं प्राकृतत्वात्। उक्तं च "बहुवयणेण दुवयणमिति"। तीरं संजातमस्येति तीरितः परिपूर्ण सति सम्यग्विधिना पारितः, तस्मिन् तीरिते कायोत्सर्गे, पुनस्त्रयाणां ध्यानानाभन्यतात् अन्यतमत्स्यात् न पुनस्त्रितयमपि / भङ्गिकश्रुतं गुणनव्यतिरेकेण प्रायोऽन्यत्र व्यापान्तरे ध्यानत्रितयाऽसंभयात्। अथवा कायोत्सर्गे किमन्येऽपि गुणाः संभवन्ति, किं वानेति? उच्यतेसंभवन्तीति ब्रूमः। तथाचाहमणसो एग्गत्तं; जणयइ देहस्स हणइ जडुत्तं / काउस्सग्गगुणा खलु, सुहदुहमज्झत्थया चेव / / कायोत्सर्गस्य गुणाः कायोत्सर्गगुणः / कायोत्सर्गगुणाः खल्वमी। तद्यथा-कायोत्सर्गः सम्याग्वधिना विधीयमानो नाम मनसश्चित्तस्य एकाग्रत्वमेकालम्बनतां जनयति / तचैकाग्रत्वं परमं ध्यानमः "जं थिरमज्झवसाणं तं झाणमिति" वचनात् / देहस्य शरीरस्य, जडत्वं जाड्य हन्ति विनाशयति, प्रयत्नविशेषतः परमलाघवसंभवात्। तथाकायोत्सर्गस्थितानां वासीचन्दनकल्पत्यात् सुखदुःखमध्यस्थता सुखदुःखे च परैरुदीर्यमाणे रागद्वेषाकरणम् अन्यथा सम्यक्कायोत्सर्गस्यैवासंभवात् एक्त व्युत्सर्गार्ह प्रायश्चित्तं / व्य०१ उ० / ध०। जुञ्जइ अकालपढिआ-इएसु दुटु अपडिच्छिआईसु। समणुन्नसमुद्देसे, काउस्सग्गस्य करणं तु // 242|| युज्यते संगच्छते घटते अकालपठितादिषु कारणेषु सत्सु, अकाले पठितम्, आदिशब्दात्कालेन पठितमित्यादि / दुष्ठ च प्रतीच्छितादिषु दुष्टविधाना प्रतीच्छितम्, आदिशब्दात्कृतहीलनादिपरिग्रहः / (समणुन्नसमुद्देसि ति) समनुज्ञासमंद्देशयोः; समनुज्ञायां समुद्देशे च कायोत्सर्गस्य करणं युज्यत एवंति योगः अतिचारसंभवादिति गाथार्थः / / 242|| जं पुण उद्विसमाणे, अणइक्वंता वि कुणह उस्सगं / एस अकओ वि दोसो, परिधिप्पइ किं मुहा भंते ! // 243 / / यत्पुनरुद्दिश्यमानाः श्रुतमनतिक्रान्मा अपि निर्विषयत्वादपराधमप्राप्ता अपि (कुणह उस्सग्गं ति) कुरुत कायोत्सर्गम् ; एषः अकृतोऽपि दोषः कायोत्सर्गशोध्यः परिगृह्यते, किं मुधा भदन्त! तत्परिगृह्यते, न कर्त्तव्यः तर्युद्देशे कायोत्सर्ग इति गाथाऽभिप्रायः। अत्राहाचार्यःपावुग्घाई कीरइ, उस्सग्गो मंगलं ति उद्देसे। अणुवहियमंगलाणं, मा हुन कहंचि णे विग्धं // 244|| पावुग्घादिगाहा निगदसिद्धा / / 244 // 'सुमिणदंसणे राओ त्ति द्वारं व्याख्यानन्नाह