SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ काउसग्ग 416- अभिधानराजेन्द्रः - भाग 3 काउसग्ग मग्गो देसगाणं दंसणसुद्धिणिमित्तं णामुक्त्तिणा कीरति / किंनिमित्तं ? चरितं विसोधितं / इदीणिं दंसणविसोधी कातव्वत्ति। एतेणाभिसंबंधेण चउवीसत्थओ सोपुव्वभणितो, तस्स विसोहणनिमित्तं काउस्सगं करेंतो पराए भत्तीए भणति "सव्वलोए अरिहंतचेइयाणं वंदणवत्तियाए'' इत्यादि / अस्य व्याख्या न केवलं चउवीसाण,जे विसव्वे एए सिद्धादी अरिहंता, चेइयाणि य, तेसिं चेव प्रकृतिलक्षणानि / चिती संज्ञाने, संज्ञानमुत्पद्यते काष्ठकर्मादिषु प्रतिकृतिं दृष्ट्वा जधा अरहंतपडिमाए सा इति। अण्णे भणंति अरहंता तित्थगरा, तेसिं चेइयाणि अरिहंतचेइयाणि, अर्हत्प्रतिमा इत्यर्थः / तसिं वंदनादिप्रत्ययं ठामिकाउस्सग्गमितियोगः / तत्र वन्द्यत्वात्तेषां वन्दनार्थ कायोत्सर्ग करेमि / श्रद्धाभिर्वर्द्धमानः सगुणसमुत्कीर्तनपूर्वकं कायोत्सर्गेणैव पूजनं करोमीत्यर्थः / जधाकोइ गंधचुण्णवासभल्लादीहिं समभ्यर्चनं करोतीति एवं सक्कारवत्तियाए सम्माणवत्तियाए वि भावेतव्वं / णवरं सक्कारो जधा वत्थाभरणादीहिं सक्कारेणं सम्माणो सम्माणणं। केइ भणंति वंदणादयो एगद्रिया आदरार्थं उचरिजंति त्ति / अथ वंदणादीणि किमत्थामित्थाह "बोधिलाभवत्तियाए" बोधे लाभो सम्मदंसणादीहिं अविप्पयोगा सधर्मावाप्तिरित्याह प्रेत्य सधर्मावाप्तिबोधिलाभ इत्येतदर्थं बोधिलाभः / किमर्थमित्याह "निरुवसग्गवत्तियाए" निरुवसग्गो मोक्खो, तदर्थ "एत्थ य सिद्धाए मेहाए धितीए धारणाए अणुप्पेहाए वद्धमाणीए ठामि करेमि काउसग्गमिति" / तच्छब्दाद्भक्त्यतिशयसाभिलाषता इत्यन्ये / संमत्ते तीव्रभिनिवेश इत्यन्ते। तीए वड्डमाणीए / एवं मेहाए। मेहा पडुच उ न घंघलइतो। तद्गुणपरिज्ञानमित्यन्ये / अन्ये पुनः मेधाए त्ति आसातणाविरहितो तत्थेव मग्गो द्वितो इति। वित्तीमणो सुप्पणिहाणेण दुरागादीहिं आकुलो, धारणा य वोपदेसाविस्मरणं / अन्ये तुधारणाएति अर्हगुणाविस्मरणरूपया, न तु तच्छून्यतया इति / अनुप्रेक्षा तद्गुणानामनुचिंतनं, वद्धमाणी वर्द्धमाना। केइ पुण अणुप्पेहाए वड्डमाणीए ण पदति / अन्ने पुणवत्तंति द्धानिमित्तं श्रद्धार्थं श्रद्धानिमित्तं च ठामि काउसस्सगं / एवं मेहादिसु वि भावितव्वं / ठामि काउस्सगं इत्यादि पूर्ववत् / पणुवीसं उस्सासकाउस्सग्गा णमोकारेणं पारेति, ततो णाणातियारविसुद्धिनिमित्तं सुत्तणाणेणं मोक्खसाहणाणि साहिजंति त्ति काउंतस्स भगवतो पराए भत्तीए। एतप्परूवगणमोक्कारपुव्वगंथुतिकित्तणं करेति। (आ०चु०५ अ०) तद्यथापुक्खरवरदीवड्वे, धातइसंडे अजंबुदीवे / मरहेरवविदेहे, धम्माइगरे नमसामि ||1|| तमतिमिरपडलविद्धं सणस्स सुरगणनरिदमहिअस्स। सीमाधरस्स वंदे, पप्फोडिअमोहजालस्स // 2 // जाईजगमरणसोगपणासणस्स, कल्लाणपुक्खलविसालसुहावहस्स। को देवदाणवनरिंगणचिअस्स, धम्मस्स सारमुवलब्म करे पमायं // 3 // अस्य व्यख्या पुष्कराणि पद्मानितैर्वरः प्रधानः पष्करवरः, पुष्करवरश्चास्रौ द्वीपश्चेति समासः तस्यार्द्ध मानुषोत्तराचलार्वाग्भागवर्ति, तस्मिन् / तथा धातकी, खण्डानि यस्मिन् स धातकीखण्डो द्वीपः तस्मिंश्च / तथा जम्ब्वोपलक्षितस्तत्प्रधानो वा द्वीपो जम्बूद्वीपः तस्मिश्च / एतेष्वर्द्धतृतीयेषुद्वीपेषु महाक्षेत्रप्राधान्याङ्गीकरणतः पश्चानुपूयॊपन्यासः / तेषु यानि भरतैरक्तविदेहानि / प्राकृतशै ल्या त्वेकवचननिर्देशः / द्वन्द्वैकवद्भावात् भरतैरवतविदेहमित्यापि भवति तत्र धर्मादिकरान्नमस्यामि / "दुर्गतिप्रसृतान् जीवान् यस्माद्वारयते ततः / धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृतः"||१| स च द्विभेदः श्रुतधर्मश्चारित्र धर्मश्च / श्रुतधर्मेणेहाधिकारः तस्य भरतादिष्वादौ करणशीलरस्तीर्थकरा एव अतस्तेषां स्तुतिरुक्ता / साम्प्रतं श्रुतधर्मस्यौच्य ते (तमतिमिरपडलविद्धंसणस्स सुरगण इत्यादि) तमः अज्ञानं तदेव तिमिरं, तमस्तिमिरम्अथवा तमो बद्धस्पृष्टनिधत्तं ज्ञानावरणीयं निकाचितं तिमिरं, तस्य पटलं वृन्दं तमस्तिमिरपटलं, तद्विध्वंसयति नाशयतीति तमस्तिमिरपटलविध्वंसनस्तस्य, तथा चाज्ञाननिरासेनैवास्य प्रवृत्तिः। तथा सुरगणनरेन्द्रमहितस्य, तथा चाग ममहिमानं कुर्वन्त्येव सुरादयः। तथा सीमां मर्यादां धारयतीति सीमाधरः सीम्नि वा धारयतीति। तस्येति द्वितीयार्थे कर्मणि षष्ठी। तं वन्दे। तस्य वा यन्माहात्म्यं तद्वन्दे। अथवा तस्य वन्द इति वन्दनं करोमि / तथा ह्यागमवन्त एव मर्यादां धारयन्ति / किं भूतस्य ? प्रकर्षण स्फोटितं मोहजालं मिथ्यात्वादि येन स तथोच्यते तस्या / तथा चास्मिन्सति विवेकिनो मोहजालं विलयमुपयात्येव / इत्थं श्रुतधर्ममभिवन्द्याधुना तस्यैव गुणोपदर्शनद्वारेण प्रभादगोचरतां प्रतिपादयन्नाह (जाईजरामरणेत्यादि) जातिरुत्पत्तिः जरा वयोहानिः, मरणं प्राणत्यागः, शोकः मनसोदुःखविशेषः / जातिश्च जरा च मरणं च शोकश्चेति द्वन्द्व / जातिजरामरणशोकान्प्रणाशयत्यपनयति जातिजरामरणशोकप्रणाशनः तस्य / तथा च श्रुतधर्मोक्तानुष्ठानाद्! जात्यादयः प्रणश्यन्त्येव। अनेन चास्यानर्थप्रतिघातित्वमाह। कल्यमारोग्यमणतीति कल्याणं, कल्यं शब्दयतीत्यर्थः / पुष्कलं संपूर्णम् / न च तदल्पं, किंतु विशालं विस्तीर्णम्, सुखं प्रतीतम्। कल्याणपुष्कलं विशालं सुखभावहति प्रापयति कल्याणपुष्कलविशालसुखावहः, तस्या तथा च श्रुतधर्मोक्कानुष्ठानादुक्तलक्षणमपवर्गसुखमाप्यतएव। अनेन चास्य विशिष्टार्थप्रसाधकत्माह कः प्राणी देवदानवनरेन्द्रगणार्चितस्य श्रुतधर्मस्य सारं सामर्थ्यमुपलभ्य दृष्ट्वा विज्ञाय कुर्यात् प्रमादम्। सचेतनेन चारित्रधर्मप्रमादः कर्तुं न युक्त इति हृदयम् आह सुरगणनवनरेन्द्रमहितस्येत्युक्तं, पुनर्देवदानरेन्द्रगणार्चितस्येति किमर्थमिति ? अत्रोच्यते तन्निगमत्वाददोषः / तस्यैवंगुणस्य श्रुतधर्मस्य सारमुपलभ्य कः सकर्णः प्रमादी भवेचारित्रधर्म इति। यतश्चैवमतःसिद्धे भो ! पयतो 'णमो जिणमए' नंदी सयासंजमे, देवनागसुवन्नकिन्नरगणस्सब्भूअभावचिए। लोगो जत्थ पइट्टिओ जगमिणं तेलुकमचासुरं, धम्मो वट्टउसासओ विजयओ धम्मुत्तरं ववउ ||4|| सुअस्स भगवओ करेमि काउस्सग्गं / / सिद्धे प्रतिष्ठिते प्रत्याख्याते भो इत्येतदतिशयिनामामन्त्रणं, पश्यन्तु भवन्तः, प्रयतोऽहं यथाशक्त्यैतावन्तं कालं प्रकर्षेण यतः / इत्थं परसाक्षिकं प्रयतो भूत्वा पुनर्नमस्करोति 'नमो जिनमते' अर्थाद्विभक्तिपरिणातः नमो जिनमताय / यतश्चैवं भूतोऽहं
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy