SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ काउसग ४२०-अभिधानराजेन्द्रः - भाग 3 काउसग्ग प्रयतो नन्दिः सदा सर्वकालंक? संयमे चारित्रे, मम भवत्वित्यध्याहार्यम्। किंभूते संयमे ? देवनागसुवर्णकिन्नरगणैः सद्भूतभावेनार्चिते / तथा च संयमवन्तः अय॑न्त एव देवादिभिः। किंभूते जिनतमे? लोक्यतेऽनेनति लोकः ज्ञानमेव, स यत्र प्रतिष्ठितः तथा जगदिदं ज्ञेयतया / केचिन्मनुष्यलोकमेव जगन्मन्यन्ते इत्यत आह त्रैलोक्यमनुष्यासुरम्। आधाराधेयरूपमित्यर्थः। अयमित्थंभूतः श्रुतधर्मो वर्द्धतां वृद्धिमुपयातु, शाश्वतः द्रव्यार्थादशान्नित्यः / तथा चोक्तम् द्रव्यार्थादेशादित्येषा द्वादशाङ्गी न कदाचिन्नासीदित्यादि / अन्ये पठन्ति-धर्मो वर्द्धता शाश्वतमिति, अस्मिन्पक्षे क्रियाविशेषणमेतत् शाश्वतं वर्द्धताम् / अप्रच्युत्येति सर्वकालमिति भावना। विजयतः कर्मप्रवादिविजयेनति हृदयम् / तथाधर्मोत्तरं चारित्रधर्मोत्तरं वर्द्धतु / पुनर्वृध्याऽभिधानं मोक्षार्थिना प्रत्यहं ज्ञानवृद्धिः कार्योति प्रदर्शनार्थम् / तथाच तीर्थकरनामकर्महेतून्प्रतिपादयतोक्तम् "अपुव्वनाणगहणेत्ति सुयस्स भगवओ करेमि काउस्सग्गं वंदणवत्तितयाए" इत्यादि प्राग्वत् यावद्वोसिरामि / एयं सुत्तं पढित्ता पणवीसुस्सासमेव काउस्सग्गं करेंति / आह च "सुयनाणस्स चउत्थो ति" ततो नमोक्कारेण पारिता विसुद्धचरणदंसणसुयातियारमंगलनिमित्तं चरणदंसणसुयदेसगाण सिद्धाणं थुतिं कट्ठति भणियं च सिद्धाणं थुइए ति"। साचेयं स्तुतिःसिद्धाणं बुद्धाणं, पारगयाणं परंपरगयाणं / लोगग्गमुवगयाणं, णमो सया सय्वसिद्धाणं ||1|| जो देवाण वि देवो,जं देवा पंजली नमसंति। तं देवदेवमहियं, सिरसावंदे कहावीरं / / 2 / / एको विनमुक्कारो, जिणवरवसहस्स वद्धमाणस्स। संसारसागराओ, तारेइ नरं व नारिं वा / / 3 / / (सिद्धाणं बुद्धाणमित्यादि) अस्य व्याख्यासितं ध्यानमेतेषामिति सिद्धाः, निर्दग्धकर्मेन्धना इत्यर्थः / तमभ्यः सिद्धेभ्यः। तेच सामान्यतो विद्यासिद्धा अपि भवन्त्यत आह बुद्धेभ्यः, सूत्रावगताशेषाविपरीतत्वात् बुद्धा उच्यन्ते / तत्र कैश्चित्स्वतन्त्रतयैव तेऽपि स्वतीर्थोज्वालनायेहागच्छन्तीत्यभ्युपगम्यते / अत आह पारगतेभ्यः, पारं पर्यन्तं संसारस्य, प्रयोजनवातस्य वागताः पारगताः,तेभ्यः। तेऽपिचानादिसिद्धैकजगत्पतीच्छावशात्कैश्चित्तथाभ्युपगम्यन्ते। इत्यत आह-परम्परगतेभ्यः, परम्परया एकेनाभिव्यक्तार्थादागमात्प्रवृत्तोऽन्योऽन्येनाभिव्यक्तार्थादन्योन्येनाप्यत इत्येवंभूतया गताः परंपरगतास्तेभ्य आह-प्रथम नाभिव्यक्तार्थादागमात्प्रवृत्त इत्युच्यते, अनादित्वात्सिद्धानां प्रथम-- त्वानुपपत्तिरिति / अथवा कथंचित्कर्मक्षयोपशमाद् दर्शनं दर्शनाज्झानं ज्ञानाचारित्रमित्येवं भूतया परम्परया गताः, तेभ्यः / तेऽपि च कैश्चित्सर्वलोकापन्ना एवोच्यन्ते / इत्यत आहलोकाग्रमुपगतेभ्यः लोकाग्रमीषत्प्राग्भाराख्यं तमुपगताः, तेभ्यः / आहकथं पुनरिह सकलकर्मविप्रमुक्तानां लोकाग्रं यावद्गतिर्भवति ? भावे वा सर्वदैव कस्मान्न भवतीति ? अत्रोच्यते पूर्णप्रयोगवशाद्दण्डादिचक्रभ्रमणवत् समयमेवैकमविरुद्धेति / नमः सदा सर्वकालं सर्वसिद्धेभ्यस्तीर्थकरसिद्धादिभेदभिन्नेभ्यः / अथवा सर्व सिद्ध साध्यं येषां ते सर्वसिद्धास्तेभ्यः / / 1 / / इत्थं सामान्येन सर्वसिद्धनमस्कारं कृत्या पुनरासन्नोपकारित्वाद्वर्त्तमानतीर्थाधिपेतः श्री मन्महावीरवर्द्धमानस्वामिनः स्तुतिं कुर्वन्ति "जो देवाण विदेवोजंदेवा पंजली' इत्यादि। यो भगवान् वर्द्धमानः देवानामपि भवनवास्यादीनां देवः, पूज्यत्त्वात्। तथा चाह यं देवाः प्राञ्जलयो नमस्यन्ति विनयरचितकर पुटाः सन्तः प्रणमन्ति / (तं देवदेवमहिय) देवदेवाः शक्रादयः तैर्महितं पूजितं, शिरसोत्तमाङ्गेने त्यादरप्रदर्शनार्थमाह। वन्दे तं, कम् ? महावीरम्। ईर गतिप्रेरणयोरित्यस्य विपूर्वस्य विशेषेण ईरयति कर्म गमयति याति वा शिवमिति वा धीरः। महांश्चासौ वीरश्च महावीरस्तम् / / 2 / / इत्थं स्तुति कृत्वा पुनः फलप्रदर्शनमिदं पठन्ति (एको वि नमोकारो जिणवरवसहस्सेत्यादि) एकोऽपि नमस्कारो जिनवरवृषभस्य वर्द्धमानस्य संसारसागराद्तारयति नरंवा। नारिं वा इयमत्र भावना सति सम्यग्दर्शने परया भावनया क्रियमाण एकोऽपि नमस्कारस्तथाभताध्यवसायहेतुर्भवति यथाभूताच्छ्रेणिमवाप्य निस्तरति भवोदधिमित्यतः कारणे कार्योपचारादेवमुच्यते, अन्यथा चारित्रादिवैफल्यं स्यात्। आव०५ अ०| अनेन तत्कालापेक्षयैतावदुणसंपत्समन्वितैवोत्तमधर्मसाधिकेति विद्वांसः / केवलसाधकश्चायम् सति च केवले नियमान्मोक्ष इत्युक्तमानुषङ्गिकं,तस्मान्नमस्कारः कार्य इत्याह किमेष स्तुत्यर्थवादो यथा एकया पूर्णाहुत्या सर्वन् कामानवाप्नोति, उत विधिवाद एव यथाऽग्निहोत्र जुहुयात् स्वर्गकाम इति / किं वा अतः ? यथाऽऽद्यः पक्षःततो यथोक्तफलशून्यत्वात् फलान्तरभावे च तदन्यस्तुत्यविशेषादलमिहैव यत्नेन, च यक्षस्तुतिरप्यफलैवेति प्रतीतमेव / अथ चरमो विकल्प:ततः सम्यक्त्वाणुव्रतमहाव्रतादिचारित्रपालनवैयर्थ्यम्, तत एव मुक्तिसिद्धेः।नच फलासाधकमिष्यते, सम्यक्त्वादिमोक्षफलत्वेनेष्टवात् "सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" इति वचनादिति ? अत्रांच्यते विधिवाद एवायम् / न च सम्यक्वादिवैयर्थ्यम्, तत्त्वतस्तद्भाव एवास्य भावात, दीनारादिभ्यो भूतिन्याय एषः, तदबन्ध्यहेतुत्वेन तथा तद्भावोपपत्तेः / अबन्ध्यहेतुश्चाधिकृतफलमिद्धौ भावनमस्कार इति / अर्थवादपक्षेऽपिन सर्वा स्तुतिः समानफलेत्यतो विशिष्टफलहेतुत्वेनाव यत्नः कार्यः, तुल्ययत्नादेव विषयभेदेन फलभेदोपपत्तेर्वव्वूलकल्पपादपाऽऽदेः प्रतीतमेतत् / भगवन्नमस्कारश्च परमात्मविषयतयोपमाऽतीतो वर्तते। यथोक्तम् "कल्पद्रुमः पारे मन्त्रः, पुण्य चिन्तामणिश्च यः। गीयते स नमस्कारस्तथैवाहुरपण्डिताः।।१।। कल्पद्रुमो महाभागः, कल्पनागोवरं फलम्। ददाति न च मन्त्रोऽपि, सर्वदुःखविषापहः / / 2 / / न पुण्यभवपर्गाय, न च चिन्तामणिर्यतः। तत्कथ्यते नमस्कार, एभिस्तुल्योऽभिधीयते // 3 // इत्यादिलि०। दुन्नि अहुति चरित्ते, दंसणनाणे अ होइ इक्किको। सुअरि वत्तदेवयाए, थुइअंते पंचमंगलयं // 27|| एतास्तिस्रस्तुतयो नियमेनोच्यन्ते। केचित्तु अन्या अपि पठन्ति, नंच तत्र नियम इति। "कितिकम्मंतिपुणो सडासयं पडिलेहिय उवविसंति, मुहपोत्तियं पडिलेहंति, स सीसोवरिकायं पमजित्ता आयरियस्स वंदणं करें ति ति" गाथार्थः॥ आह-किं निमित्तमिदं वन्दनमिति? उच्यतेसुकयं आणत्तिं पिद, लोए काऊण सुकयकिइकम्मा। वडंति अ थुइईओ, गुरुथुइ गहणे कए तिन्नि // 28|| 'सुकयं आणत्तिं पि व लोए काऊण' त्ति जहा रण्णो मणूसा आणत्ति
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy