________________ काउसम्म 417 - अभिधानराजेन्द्रः - भाग 3 काउसग्ग परित्याग इत्यर्थः,तं कायोत्सर्गमाह। कायस्योत्सर्ग इति षष्ट्या समासः कृतः / अर्हचैत्यानामिति प्रागुक्तम् / तत्किमर्हचैत्यानां कायोत्सर्ग करोति ? नेत्युच्यते षष्ठ्यानिदिष्टं तत्पदं पदद्वयमतिक्रम्य मण्डूकप्लुत्या वन्दनप्रत्ययमित्यादिभिरभिसंबध्यते। ततश्चार्हचैत्यानां वन्दनप्रत्ययं करोमि कायोत्सर्गमिति द्रष्टव्यम्। तत्र वन्दनमभिवादनम् प्रशस्तकायवाङ्मनःप्रवृत्तिरित्यर्थः / तत्प्रत्ययं तन्निमित्तं, तत्फलं मे कथं नु नाम कायोत्सर्गा देव स्यादित्यतोऽर्थमिति / एवं सर्वत्र भावना कार्या / तथा (पूयणवत्तियाए त्ति) पूजनप्रत्ययं पूजननिमित्तं, तत्र पूजनं गंधमाल्यादिभिरभ्यर्चनम्। तथा (सकारवत्तियाए त्ति) सत्कारप्रत्ययं सत्कारनिमित्तं, तत्र प्रवरवस्वाभरणादिभिरभ्यर्चनं सत्कारः। आह यदि पूजनसत्कारप्रत्ययं कायोत्सर्गः क्रियते, ततस्तावेव कस्मान्न क्रियते ? उच्यते द्रव्यस्तवत्वादप्रधानत्वात्। यदुक्तम्"दव्वत्थओ य भावत्थओ बहुगुणो त्ति बुद्धि सिया। अनिऊण जणवयणमिणं, छज्जीवहियं जिणा बिंति॥१।। छजीवकायसंजमदव्वत्थएँ सो विरुज्झती कसिणो। मो कसिणसंजमे विउ, पुप्फईयं न इच्छंति / / / / अकसिणपवत्तयाणं, विरयाविरयाण एस खलु तुत्तो। संसारपयणुकरणो, दय्वत्थपरूवदितो॥३॥" अतः श्रावकाः पूजनसत्कारावपि कुर्वन्त्येव। साधवस्तुप्रशस्ताध्यवसायनिमित्तमेवेत्थमभिदधति / तथा (सम्माणवत्तियाए त्ति) सम्मानप्रत्ययं संमाननिमित्तं, तत्र स्तुत्यादिभिर्गुणोन्नतिकरणं संमानः, तथा मानसप्रीतिविशेषः इत्यन्ये। अथ चन्दनपूनजसत्कार संमाना एव क्रि निमित्तमित्यत आह (बोहिलाभवत्तियाए) बोधिलाभनिमित्तं प्रेत्य जिनप्रणीतधर्मप्राप्तिर्बोधिलाभौ भण्यते / अथ बोधिलाभ एव किं निमित्तमित्यत आह (निरुवसम्गवत्तियाए) निरुपसर्गप्रत्ययं निरुपसगनिमितम्, निरुपसर्गो मोक्षः। अयंच कार्योत्सर्गः क्रियमाणोऽपि अद्धादि विकलस्य नाभिलषितार्थप्रसाधनायालमित्यत आह (सद्धाए मेहाए धिइए धारणाए अणुप्पेहाए वद्धमाणीए ठामि काउसग्गं ति) श्रद्धया हेतुभूतया तिष्ठामि कार्योत्सर्गे, न बलाभियोगादिना / श्रद्धा निजाऽभिलाषः / एवं मेधया पटुत्वेन, न जडतया / अन्ये तु व्याचक्षते मेधयेति मर्यादावर्तित्वेन, नासमञ्जसतयेति। एवं धृत्या मनःप्रणिधनलक्षणया, न पुना रागद्वेषाकुलतया। धारणया अर्हगुणाविस्मरणरूपया, न तु तच्छून्यतया / अनूप्रेक्षया अर्हगुणानामेव मुहुर्मुहुरविच्युतिरूपेणानुचिन्तनरूपया, न तु तद्वैकयेन ! वर्द्धमानयेति प्रत्येकमभिसंबण्यते / श्रद्धया वर्द्धमानया / एवं मेधयेत्यादि / एवं तिष्ठामि कायोत्सर्गम्। आह उक्तमेव 'प्रकरोमि कायोत्सर्ग' सांप्रतं 'तिष्ठमीति' किमर्थमिति ? उच्यते 'वतर्तमानसामीप्ये वर्तमानवद्वा' इति कृत्वा करोमि करिष्यामीति क्रियाभिमुख्यमुक्तम् / इदानी वासन्नरत्वात् क्रियाविशिष्टत्वात् क्रियाकालनिष्ठाकालयोः कर्थश्चिदभेदात्तिष्ठाम्येव / आहकिंसर्वथा? नेत्याह अन्नत्थुससिएणमित्यादि पूर्ववत् यावद्वोसिरामि त्ति। "एयं च सुत्तं पढित्ता पणवीसुस्सासपरिमाणं काउस्सग्गं करें ति दसणसुद्धीए तइयं उट्ठाइत्ति" तृतीयत्वं चास्यातिचारालोचनविषयप्रथमकायोत्सर्गापेक्षयेति। ततो"नमोक्कारेण पारित्ता सुयनाणपरिखुड्डिनिमित्तं अइयारविसोहणत्थं च सुयधम्मस्स भगवतो पराए भत्तीए तप्परूवगनमाक्कारपुव्वगं थुइं पढ़ति" आव०५अ०) 'काउस्सग्गस्स ठाणविही जधा ओहनिजुत्तीए" आ० चू०५ अ०॥ इदानीमेनामेव द्वारगाथां विशेषेण व्याख्यानयन्नाहउडनिसीयतुयट्टण, ठाणं तिविहं तु होइ नायव्वं / उड्डे उचाराई, गुरुमूलं पडिकमागम्म॥४१५|| तत्र स्थान त्रिविधं ज्ञातव्यम् ऊर्द्धस्थानं, निषादनस्थान, त्वग्वर्त्तनस्थानं च। तत्राद्यमूर्द्धस्थानं व्याख्यानयन्नाह (उड्ढे) उच्चरार्थे ऊर्द्ध स्थानं कायोत्सर्गः / स उच्चारादीन् कृत्वा, आदिग्रहणात्प्रस्रवणं कृत्वा, ततश्च गुरुमूल आगत्य प्रतिक्रामतः काम् ई-पथिकी प्रतिक्रामतो भवति। पक्खे ऊसासाई पुरओ अविणीयग्गओवाऊ। णिक्खमपवेसवज्जण, भावासन्नो गिलाणाए॥४१६|| कायोत्सर्ग कुर्वता आचार्यपक्षके पक्षप्रदेशे न स्थातव्यम्, यतः गुरुरुच्छासेनाभिहन्यते / नापि पुरतः स्थातव्यम्, यतः पुरतः अविनीतत्वमुपजायते गुरुमाछाद्य तिष्ठतः। नापि मार्गतः गुरोः पृष्ठतो, यतो गुरोर्वायुनिरोधेन ग्लानता भवति। वायुर्योऽपानेन निर्गच्छति। कथं पुनः स्थातव्यम् ? यत्र निष्क्रमप्रवेशस्थानं, तत् वर्जयित्वा कायोत्सर्ग करोमि (भावासन्नोत्ति) यः उच्चारादिना पीडितः स च निर्गमे रुद्ध संज्ञानिरोधं करोति, ततश्च ग्लानता भवति / अथ निर्गच्छति ततःकायोत्सर्गभङ्गः। मारे वेयण खमगुण्ह मुच्छपरिताव छेदणे कलहो। अव्वावाहे ठाणे, सागरपडज्जणे जयणा / / 417 / / तथा च मार्गे कायोत्सर्गकरणे एते दोषाः भिक्षामटित्वा कश्चिदायातः साधुः, स च भारे सति यदि प्रतिवालयति तता वेदना भवति / तथा क्षपकः कश्चिद्भक्तं गृहीत्वाऽऽयातः, तथाऽन्यः उष्णसंतप्त आयातः / अनयोर्द्वयोरपि प्रतिवालयतो यथासंख्यं मूच्छपिरितापौ भवतः / क्षपकस्य मूर्छा, उष्णतप्तस्य परितापः / अथैते कायोत्सर्ग छित्त्वा प्रविशन्ति ततः परस्परं कलहो भवति / तस्मात् अव्याबाधे स्थाने कायोत्सर्गः कर्त्तव्यः, एतद्दोषभयात्। (सागारपमज्जणे जयणेत्ति) यदा तु पुनः सागारिको भवति कायोत्सर्ग कुर्वतस्तदा अप्रमार्जनमेव करोति,यतनया वा प्रमार्जयति- रजोहरणेन बाह्यनिषद्यया प्रमृज्य कायोत्सर्गस्थानं, ततस्तां निषद्यां सागरिकपुरतः एकान्ते मुञ्चति, गते च तस्मिन् गृह्णाति। उक्तमूर्द्धस्थानम्। ओघा "निव्वाघाते ठायता चेव पुव्वं सामायिकं कारिता सुत्तं अणुपेहंति, जाव आयरिएण 'वोसिरामि' त्ति भणितं, ताहे इमे वि अतियारसुहमे भिया पडिलेहणादिवं चिंतें ति। अण्णे भण्णंति जाहे आयरिया सामाइयं एगडिता ताहे ते तहट्टिता चेव अणुप्पेहंति पढम सुत्तं चिंतेति / अत्राह एत्थ किंनि मित्तं काउस्सग्गो कीरति, जेण णेरइयस्स णिरवज्जता होति सुहं च एकग्गो चिंतेहिति? उक्तंचकाउस्सग्गम्मि ठिओ, नेरइकायो निरुद्धवयपसरो। जाणइ सुहमेगमणो, मुणिदेवसियाइ अइयारं।।८७|| परिजाणिऊण यजओ, सम्मगुरुजणं पयासणेणं तु। सो होइ अप्पगं सो, जम्हा य जिणेहिँ सो भणिता।।८८|| सो काउस्सग्गो काउस्सग्ग मोक्खपह देसियं जाणिऊण तो धीरा। दिवसाइयारजाणणट्ठयाइ ठायंति उस्सग्ग ||६आव०नि०। काउस्सग्गं मोक्खपहं इति देसितं जिणे हिं, जेण णि