________________ काउसग्ग 416 - अभिधानराजेन्द्रः - भाग 3 काउसग्ग स्तु संसारे ततश्चैवम् / यतोऽभ्यासपाटवात्तत्राप्यालोचनादौ संभाव्यते सूक्ष्मोऽसौ प्रमादः ततश्च दोष इति, तेन कारणेन तज्जयाय कायोत्सर्ग इति गाथार्थः। चोएइ हंदि एवं, उस्सग्गम्मि वि स होइ अणवत्था। भण्णइ तज्जयकरणे, का अणवत्था जिए तम्मि||८०| चोदयति शिक्षकः हन्दि यद्येवं कायोत्सर्गेऽपि सः सूक्ष्मः प्रमादो भवति ततश्च तत्रापि दोषः / तद्यथा अपरकरणं तत्राप्येषु एव वृत्तान्त इत्यनवस्था / एतदाशङ्कयाह भण्यते, प्रतिवचनम्तज्जयकरणे अधिकृतसूक्ष्मप्रमादजयकरणे प्रस्तुते, काऽनवस्था? जितेतस्मिन् सूक्ष्मप्रसादे इति गाथार्थः। तत्थ वि अ जो तओ वि हु, जीअइ तेणेव य सयाकरणं / सव्वो वि साहुजोगो, तं खलु तप्पचणीओ त्ति / / 1 / / तत्रापि च इतरकायोत्सर्गे, यः पूर्वोक्तयुक्त्या पतितः सूक्ष्मः प्रमादतः, तकोऽप्यसावपि, जीयते तिरसक्रियते, यदितरेण तदुत्तरकालभाविना कायोत्सर्गेण, तत्रापि यः, असावपीतरेण स्यादेतत्, एवं सदा कायोत्सर्गकरणापत्तिरित्याशक्याहस च सदाकरणं, कायोत्सर्गस्येति गम्यते। कुत इत्याह सर्वोऽपि साधुयोगस्त्रतोक्तः श्रमणव्यापारः यस्मात् / खलुशब्दो विशेषणार्थ भावप्रधान इत्यर्थः। तत्प्रत्यनीक इति सूक्ष्मप्रमादप्रत्यनीकः / अत एव भगवदुक्तानुपूर्व्या विहितानुष्ठानवन्तो विनिर्जित्य प्रमादं वीतरागा भवन्ति / इत्थं जेयतया एव तस्य भगवद्भितितत्त्वा इति बहुवक्तव्यमित्यलं प्रसङ्गे नेति गाथार्थः। सूचागाहाएस चरित्तुस्सगो, सणसुद्धीऍ तइअओ होइ। सुअनाणस्स चउत्थो, सिद्धाणं युई य किइकम्मं // 2 // एष चारित्रकायोत्सर्गस्तदा दर्षनशुद्धिनिमित्तं तृतीयो भवति / प्रारम्भकायोत्सर्गापेक्षेय तस्य तृतीयत्वम्। श्रुतज्ञानस्य चतुर्थः / एवमेव सिद्धानां स्तुतिश्च, तदनुकृतिकर्म वन्दनमिति सूचागाथासमासार्थः। अवयवार्थमाहसामाइअपुव्वंगं, करिंति तं चरित्तसोहणनिमित्तं। पियधम्मऽवजमीरू, पण्णासुस्सासगपमाणं ||3|| सामायिकपूर्वकं प्रतिक्रमणोत्तरकालभाविनं कायोत्सर्ग कुर्वन्ति चारित्रशोधननिमित्तम्। किंविशिष्टाः सन्त इत्याह प्रियधर्माऽवद्यभीरवः पञ्चाशदुच्छासप्रमाणमिति गाथार्थः / ऊसारिऊण विहिणा, सुद्धचरित्ता त्थयं पकढित्ता। कळति तओ चेइअवंदणदंडं तउस्सग्गं / / 84|| उत्सार्य विधिना 'णमो अरहंताणमिति' अभिधानलक्षणेन, शुद्धचारित्राः सन्तः, स्तवं लोकस्योद्योतकररूपं प्रकृष्य, पठित्वेत्यर्थः / कर्षन्ति, पठन्तीत्यर्थः। ततस्तदनन्तरं चैत्यवन्दनं दण्डकं कर्षन्ति, ततः कायोत्सर्ग कुर्वन्तीतिगाथार्थः। किमर्थमित्याहदसणसुद्धिनिमित्तं, करिति पणवीसगप्पमाणेणं / ऊसारिऊण विहिणा, कळंति सुअत्थयं ताहे||८|| दर्शनशुद्धिनिमित्तं कुर्वन्ति पञ्चविंशत्युच्छासप्रमाणेन उत्सार्य विधिना पूर्वोक्तेन, कर्षन्ति श्रुतस्तवंततः 'पुष्करवरेत्थादि' लक्षणमिति गाथार्थः / सुअनाणस्सुस्सग्गं, करिति पणवीसगं पमाणेणं। सुत्तइयारविसोहण निमित्तमह पारि विहिणा।।८६|| श्रुतज्ञानस्य कायोत्सर्ग कुर्वन्ति पञ्चविंशत्युच्छ्वासमेव प्रमाणेन सूत्रातिचारशोधनननिमित्तम्, अथानन्तरं पारयित्वा विधिना पूर्वोक्तेनेति गाथार्थः। चरणं सारो दंसण नाणा अंगं तु तस्स निच्छयओ। सारम्मि अजइअव्वं, सुद्धीपच्छाऽणुपुव्वीए।।७।। किमित्याहसुद्धसयलाइआरा, सिद्धाण थयं पठति तो पच्छा। पुव्वभणिएण विहिणा, किइकम्मं दिति गुरुणाओ॥८८|| शुद्ध सकलातिचाराः सिद्धानां संबन्धिनं स्तवं पठन्ति 'सिद्धाणमित्यादि लक्षणम्, ततः पश्चात् पूर्वभणितेन विथिना, कृतिकर्म वन्दनं ददति गुरोरप्याचार्यायैवेति गाथार्थः / / 88 // पं० व०३ द्वार। एस चरित्तुस्सग्गो, दंसणसुद्धीए तइअगो होइ।। सुअत्थोनाणस्स चउथो, सिद्धाए थुई अ किइ कम्मं / / 225 / / एस चरित्तुस्सगो त्ति) चरित्तातियारविसुद्धिनिमित्तो ति भणिय होइ। अयं च पंचासुस्सासपरिमाणो, ततो णमोक्कारेण पारेत्ता विसुद्धचरित्ता विसुद्धचरितं देमिसया णंदंसणविसुद्धिनिमित्तं एस नामुक्त्तिणं करें ति चारित्तविसोहियं / इयाणिं दंसणविसोहिज्ज इत्ति कट् टु तं पुण नामकित्तणनेवं करेंति 'लोगस्सुओयगरेत्यादि' अयं चतुर्विंशतिस्तवश्चतुर्विशतिस्तेवन्यक्षेण व्याख्यात इति नेह पुनर्व्याख्यायते॥२२५।। चतुर्विंशतिस्तवं चाभिधाय दर्शनविशुद्धिनिमित्तमेव कायोत्सर्ग चिकीर्षन्तःपुनरिदं सूत्रपठन्ति सूत्रम् सटवलोए अरिहंतचेइआणं वंदणवत्तियाए पूयणवत्तियाए सकारवत्तियाए सम्माणवत्तियाए बोहिलाभवत्तियाए निरुवसग्गवत्तियाए सद्धाए मेहाए धिइए धारणाए अणुप्पेहाए वद्धमाणीए ठामि काउसगं। अस्य व्याख्या-सर्वलाकेऽर्ह च्चैत्यानां करोमि कायोत्सर्गमिति / तत्र लोक्यते दृश्यते केवलज्ञानभास्वतेति लोकः चतुर्दशरज्यात्मकः परिगृह्यते इति उक्तं च "धर्मादीनां वृत्ति व्याणां भवति यत्र तत् क्षेत्रम् / तैव्यैः सहलोकस्तद्विपरीतं ह्यलोकाख्यम्।१।" यः सर्वं खल्वधस्तिर्यग्द्धर्व भेदभिन्नः, सर्वश्चासौ लोकश्च सर्वलोकस्तस्मिन्सर्वलोके, त्रैलोक्य इत्यर्थः / तथाहि अधेलोके चमरादिभवनेषु, तिर्यग्लोके द्वीपाचत्रज्योतिकविमानादिषु, सन्त्येवार्हचैत्यानि / ऊध्र्वलोके सौधर्मविमानादिषु सन्त्ये-वार्हचैत्यानि। तत्र अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामर्हतीत्यर्हन्तस्तीर्थकराः, तेषां चैत्यानि प्रतिमालक्षणान्यर्हचैरयानि। इयमत्र भावना चित्तमन्तःकरणं, तस्य भावे कमर्णि वा "वर्णदृढादि"७।११६६। लक्षणेति व्यणि कृते चैत्यं भवति / तत्रार्हतां प्रतिमाः प्रशस्तसमाधिचितोत्पादकत्वादहचैत्यानि भण्यन्ते। तेषां किं करोमीत्युत्तमपुरुषैकवचननिर्देशनात्माभ्युपगमं दर्शयति किमित्याह कायः शरीरंतस्योत्सर्गं कृत्वा, कायस्य स्थानं मौनध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासधिकृत्य