SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ काउसग्ग 414 - अभिधानराजेन्द्रः - भाग 3 काउसग्ग साम्प्रतं सूक्ष्मैरङ्गसंचारैरित्यादिसूत्रावयवव्यावि ख्यासयाऽऽहवीरिअसजोगयाए, संचारा सुहुमवायरे देहे। बाहिं रोमंचाई, अंतो खेलनिलाईआ // 205 / / वीर्यसयोगतया कारणेन संचाराः सूक्ष्मबादरदेहे अवश्य भाविनः, वीर्य वीर्यान्तरायक्षयोपशमक्षवजं खल्वात्मपरिणामो भण्यते / योगास्तु मनोवाक्कायाः, तत्र वीर्यसयोगतयैव अतिचाराः सूक्ष्मबादरा भवन्ति, न केवलं वीर्यादिति। देह एव च सति भवन्तिनादेहस्य, तत्र (बाहिं रोमंचाई) बहिः रोमाञ्चादयः, आदिशब्दादुत्कम्पग्रहः / (अंतो खेलनिलादीआ) अमध्ये सूक्ष्माः श्लेष्माऽनिलादयो विचरन्तीति गाथार्थः / / 205|| अणुना सूक्ष्मैदृष्टिसंचारैरिति सूत्रावयवं व्याख्यानयतिआलोअचलं चक्खु, माणुय्व तं दुक्करं थिरं काउं। रूपेहि तयं खिप्पड़, सभावओ वा सयं चलइ॥२०६|| आलोकनमवलोकः, ततस्तस्मिन्नवलोके चलं चञ्चलं, दर्शनलालसमित्यर्थः / किं चक्षुर्नयनं, यतश्चैवमतो मनोवत् अन्तःकरणमिव, तचक्षुर्दुष्करं स्थिरं कर्तुं न शक्यते इत्यर्थः / यतो रूपैस्तदाक्षिप्यते, स्वभावतो वा स्वभावेन वा नैसर्गिकेन, स्वयं चलत्यात्मनैव चलतीति गाथाऽर्थः // 206|| यस्मादेवंतस्मात्न कुणइ निमेसजत्तं, तत्थुवओगेण माण झाइजा। एगनिसिं तु पवन्नो, झाइ सहू अणिमिसच्छो वि॥२०७।। न कराीति निमेषयत्नं कायोत्सर्गकारी। किमिति (तत्थुवओगेण माण झाएज्जा) तत्र निमेषयत्ने य उपयोगस्तेन समा मानध्यानं ध्यायेत अभिप्रेतमिति (एगनिसिं तु पवन्नो झाइ सहू अणिमिसत्थो वि) | एकरात्रिकी तु प्रतिमा प्रतिपन्नो महासत्त्वः ध्यायति समर्थः, अनिमिषाक्षोऽपि अनिमिषे अक्षिणीयस्य सःअनिमिषाक्षः, निश्चलनयन इति गाथाऽर्थः / / 207 // अधूना एवमादिभिराकारैरित्यादि सूत्रावयवं व्याचिख्यासुराह-- अगणी 1 उच्छिंदेज व 2 वोहिअखोभाइ३ दीहडक्के वार आगारेहि अभग्गो, उस्सग्ग एवमाईहिं॥२०८|| यदा ज्योतिः स्पृशति तदा प्रावरणाय कल्पग्रहणं कुर्वतोऽपि न कायोत्सर्गभङ्गः / आह-नमस्कारमेवाभिधाय किमिति तद्ग्रहणं न करोति येन तद्भङ्गोन भवति। उच्यते-नात्र नमस्कारेण पारणमेवाविशिष्ट कायोत्सर्गमानं क्रियते, किंतु यो यत्परिमाणे यत्र कायोत्सर्ग उक्तस्तत ऊर्द्धमिति समाप्तेऽपि तस्मिन्नमस्कारमपठतो भङ्ग अत्यर्थ: / अपरिसमाप्तेऽपि च पठतो भङ्ग एव / स चात्र न भवतीत्येवं सर्वत्र भावनीयम् / (उच्छिं देज व त्ति) मार्जारी मूषिकादिर्वा पुरतो , यायात्तत्राप्यग्रतः सरतो न कायोत्सर्गभङ्गः। (बाहियखोभाइ ति) बोधिकाः स्तेनकास्तेभ्यः क्षोभः संभ्रमः आदिशब्दाद्राजादिक्षोभः परिग्रह्यते। तत्रास्थानेऽप्युचारयतो वान कायोत्सर्गभङ्गः। (दीहडक्के व त्ति) सर्पदष्टे वाऽऽत्मनि परे वा साधौ सहसाऽऽकाण्ड एवोधारयतः। तथैव / आक्रियन्त इत्याकाराः, तैराकारैः, अभग्नः स्यात्कायोत्सर्गः, एवमादिभिरिति गाथासर्थः // 20 // अधूनौघतः कायोत्सर्गविधिं प्रतिपादयन्नाहते पुण ससूरिउ चिअ, पासवणुचारकालभूमीओ। पेहित्ता अत्थमिए, तं तुस्सग्गं सए ठाणे / / 206 / / ते पुनः कायोत्सर्गकर्तारः साधवः ससूर्य एव दिवसे प्रस्रवणोचारणकालभूमीः प्रत्युपेक्ष्य द्वादश प्रस्रवणभूमयः आलयपरिभोगाअन्तः षट्, षट् बहिः / एवमुच्चारभूमयोऽपि द्वादश / प्रमाण चाऽऽसा तिर्यग्जघन्येन हस्तमात्रं, अधश्चतर्वायङ्गु लान्यचेतनम्, उत्कृष्टत्स्तु स्थण्डिलं द्वादशयोजनमानम् / नच तेनाधिकारः / तिस्रस्तु कालभूमयः कालमण्डलाख्याः, यावचैनमन्यं च श्रमणयोगं कुर्वन्ति कालवेलायां तावत्प्रायशोऽस्तमुपयात्येव सविता, ततश्च (अत्थमिएतं तुस्सगं सए ठाणे त्ति) उक्तम्। अन्यथा यस्य यदैव व्यापारपरिसमाप्तिर्भवति स तदैव सामायिकं कृत्वा तिष्ठतीति गाथार्थः / / 206 // अयं च विधिः केनचित्कारणान्तरे गुरोर्व्याघाते सतिजइपुण निव्वाघाओ, आवस्सं तो करेति सव्वे वि। सड्ढाइकहणवाघाययाइ पच्छा गुरू ठंति // 210 / / यदि पुनर्निर्व्याघात एव सर्वेषामावश्यकं प्रतिक्रमणं, ततः कुर्वन्ति सर्वेऽपि सहैव गुरुणा (सढाइकहणवाधाययाइ पच्छा गुरू ठति) इति निगदसिद्धमिति गाथार्थः // 210 // यदाच पश्चाद् गुरवस्तिष्ठन्ति तदासेसा उजहासत्तिं, आपुच्छित्ता ण ठंति सहाणे। सुत्तत्थसरणहेऊ, आयरिऍ ठिअम्मि देवसिअं॥२१११! शेषास्तु साधवः, यथाशक्ति शक्त्यनुरूपं, यो हि यावन्तं कालं स्थातु समर्थः "आपुच्छित्ता तु गुरुं ठंति सट्ठाणे सामयिकं काऊण / किं निमित्तम् ? सुत्तत्थसरणहेउ) सूत्रार्थस्मरणहेतुम्। (आयरिऍ ठियम्मि देवसिय त्ति) आयरिएपुरसोठिए तस्स सामाझ्यावसाणे देवसियं अइयारं चिंतंति ' / अन्ने भणंति "जाहे आरिओ सामाइयं कड्डइ, ताहे ते वि तहट्ठिया चेव सामाइयसुत्तमणुपेहंति, गुरुणा सह पच्छा देवसियं ति" गाथार्थः // 211 // शेषास्तुयथाशक्तीत्युक्तं, यस्य कायोत्सर्गेण स्थातुं शक्तिरेव नास्ति स किं कुर्यादिति तद्गतं विधिमभिधित्सुराहजो हुअउ असमत्थो, वालो वुड्डो गिलाण परितंतो। सो विगहाइविरहिओ, झाइजा जा गुरू ठति / / 212 / / यः कश्चित्साधु वेदसमर्थः कायोत्सर्गेण स्थातुम्। स किंभूत इल्याहबालो वुद्धः ग्लानः परितान्तोऽतिपरिश्रान्तो गुरुवयावृत्यकारणादिना। असावपि विकथादिरहितः सन्ध्यायेत्सूत्रार्थम्। (जा गुरू ठंति) यावत गुरुवस्तिष्ठन्ति कायोत्सर्गमिति गाथार्थः // 213 // आचार्ये स्थिते दैवसिकमित्युक्तं तद्गतं विधिमभिधित्सुराहजा देवसियं दुगुणं, चिंतेइ गुरू अहिंडिओ चेटुं / बहुवावारा इअरे, एगगुणं ता वि चिंतंति // 213|| निगदसिद्धा / नवरं चेष्टा व्यापाररूपाऽवगन्तय्या // 213 / / पव्वइआण व चेटुं, नाऊण गुरुं बहुं बहुविहीअं। कालेण तदुचिएणं, पारेइ य थोवचेट्ठो वि॥२१४।। नमोकार चउवीसग किइकम्मालोअणं पडिक्कमणं /
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy