________________ काउसग्ग 413 - अभिधानराजेन्द्रः - भाग 3 काउसब्ब चालना चेयमत्रोच्यतेसमभावम्मि ठिअप्पा, उस्सग्गं करिअ तो पडिक्कमई। एमेव य समभावे, ठिअस्स तइअंतु उस्सग्गे // 165 / / इह समभावव्यवस्थितस्य भावप्रतिक्रमणं भवति, नान्यथा, ततश्च समभावे रागद्वेषमध्यवर्तिनि स्थित आत्मा यस्यासौ स्थिताऽऽत्मा (उस्सगं करिय तो पडिक्कमइ) दिवसाचारपरिज्ञानाय कायोत्सर्ग कृत्वा गुरोरतिचारजालं निवेद्य तत्प्रदत्तप्रायश्चित्तसमभावपूर्वेकमेव ततः प्रतिक्रामतीति / एवमेव च (समभावे ठिअस्सतइयं तु उस्सग्गे) एवमेव समभावे स्थितस्य सतश्चारित्रशुद्धिरपि भवतीति कृत्वा तृतीयं सामायिकं कायोत्सर्गे प्रतिक्रान्तोत्तरकालभाविनि क्रियते इति गाथार्थः // 16 // प्रत्यवस्थानमिदमथवासज्झायझाणतओ सहेसु उवएसथुइपयाणेसु। संतगुणकित्तणेसु अ, न हुंति पुणरुत्तदोसा उ॥१६६॥ मित्तिमिउमद्दवत्त, छत्तिअदोसाण छायणे होइ। मित्ति अमेराइ ठिओ, दुत्तिदुगंछा मि अप्पाणं // 197|| कत्ति कडं मे पावं, डत्तिअडेवेमि तं च उवसमेणं / एसो मिच्छाओक्कड पयक्खरत्थे समासेणं / / 198|| सज्झायगाहा निगदसिद्धा (166) इदानी "जो मे देवसिओ अइआरो कओ' इत्यादिसूत्रमध्ये व्याख्यातत्वादनादृत्य "तस्स मिच्छामि दुकडं ति' सूत्रावयवं व्याविदयासुराहमित्तिमिउ गाहा (197) कत्तिकडं मे गाहा इतिगाथायुगलकं यथा सामायिकाध्ययने व्याख्यातं तथैव द्रष्टव्यमिति // 16 // ___ साम्प्रतं तस्योत्तरकरणमिति सूत्रावयव विवृण्वन्नाहखंडिअविराहिआणं, मूलगुणाणं सउत्तरगुणाणं / उत्तरकरणं कीरइ, जह सगडरहंगगेहाणं / / 16 / / खण्डितविराधितानां खण्डिताः सर्वथा भग्नाः विराधिता देशतो भग्नाः, मूलगुणानां प्राणतिपातादिनिवृत्तिरूपाणां, सहउत्तरगुणैः पिण्डविशुळ्यादिभिर्वर्तन्त इति सोत्तरगुणाः, तेषामुत्तरकरणं क्रियते, आलोचनादिना पुनः संस्करणतित्यर्थः / दृष्टान्तमाहयथा शकटथाङ्गगेहानां बहिनचक्रगृहाणामित्यर्थः / तथा च शकटादीनां खण्डितविराधितानामक्षवेलिकादिनोत्तरकरणं क्रियते इति गाथार्थः // 16 // अधुना प्रायश्चित्तकरणेनेति सूत्रावयवं व्याचिख्यासुगहपावं छिंदइ जम्हा, पायच्छित्तं ति भन्नई तेणं / पारण वा वि चित्तं, विसोहई तेण पच्छित्तं // 200 / / पापं कप्राकृच्यते, तत्पापं छिनत्ति यस्मात्करणात् मोतशैल्या "पायच्छित्तं ति' भण्यते तेन कारणेन / संस्कृते तु पापं छिनत्तीति पापच्छिदुच्यते / प्रायशो वा चित्तं जीवं शोधयति कर्ममलिनं विमलीकरोति तेन कारणेन प्रायश्चित्तमित्युच्यते। प्रायोबाहुल्येन चित्तं स्वेन रूपेण अस्मिन्सति भवतीति प्रायश्चित्तम्। प्रायोग्रहणं संवरादेरपि तथाविधचित्तसद्भावादिति गाथार्थः / / अधुना'"विसोहीकरणेन" इत्यादिसूत्रावयवं व्याचिख्यासयाऽऽहदव्वे भावे अ दूहा, सोही सल्लं च इक्कमिक्कं तु / सव्वं पावं कम्मं, भामिजइ जेण संसारे॥२०१।। द्रव्यतो भावतश्च द्विविधा शुद्धिः, शल्यं च (इक्कमिक्क तु) एकैकम्। शुद्धिरपि। द्रव्यभावभेदेन द्विधा शल्यमपीत्यर्थः। तत्र द्रव्यशुद्धिर्जलादिना वस्त्रादेः, भावशुद्धिः प्रायश्चित्तादिना आत्मनः / एवं द्रव्यशल्यं कण्टकशिलीमुखफलादिःमावशल्यं तु मायादिशल्यम् / सर्व ज्ञानावरणीयादि कर्म पापं वर्तते। किमिति? भ्राम्यते येन कारणेन तेन कर्मणा जीवः संसारे तिर्यडनरनारकामरभवानुभवलक्षणे, तथाच दग्धरज्जुकल्पेन भवीपग्राहिणा अल्पेनापिसता केवलिनोऽपिनमुक्तिमासादयन्तीतिदाराणं संसारभ्रमणनिमित्तं कर्मेति गाथार्थः // 201 // साम्प्रतमन्यत्रोच्छ्वासितेनेत्यवयवं विवृणोतिउस्सासन निरंभइ, अभिग्गहिओ वि किमुअ चेट्ठाओ। सज्जमरणं निरोहे, सुहुमुस्सासं तु जयणाए / / 202 / / ऊर्द्ध प्रयलो वा श्वासः उच्छ्वासः, तं (न निरंभइ त्ति) न निरुणद्धि (आभिग्गहिओ वि) अभिगृह्यत इत्यभिग्रहः, अभिग्रहेण निर्वृत्तः आभिग्रहिकः कायोत्सर्गः, तदव्यतिरेकात्ततोऽप्याभिग्रहिको भण्यते। असावप्यभिभवकायोत्सर्गकार्यपीत्यर्थः / (किमुअ चेट्ठाओ त्ति) किंपुनश्चेष्टाकायोत्सर्गकारी। सतुसुतरांन निरुणद्धीत्यर्थः / किमित्यते आह (सज्जमरणं निरोहे त्ति) सद्यो मरणं निरोधे उच्छ्वासस्य, ततश्च (सुहुमुस्सासं तु जयणाए त्ति) सूक्ष्मोच्छ्वासमेव यतनया मुञ्चति, नोल्वणं, मा भूत्सत्त्वघात इति गाथार्थः। / / 202 / / अधुना खासितेनेत्यादिसूत्रावयवार्थ प्रचिकटयिषयेदमाहकासखुअजंमिए मा, हु सत्थमनिलोऽनिलस्स तिव्वुण्हो। असमाही अनिरोहे,मा मसगाई अतो हत्थे // 203 / / इह कार्योत्सर्गे काशक्षुतजृम्भितानि नाऽयनतनया क्रियन्ते। किमिति (मा हु सत्थमनिलोऽनिलस्स तिव्वुण्हो त्ति) मा शस्त्रं भविष्यति काशितादिसमुद्भवोऽनिलो वायुरनिलस्य बाह्यस्य वायोः / किंभूतः तीतोष्णः, बाह्यानिलापेक्षया अत्युष्ण इत्यर्थः / न च न क्रियन्ते, निरुध्यन्त एव (असमाहि य निरोहे त्ति) असमाधिश्च, चशब्दान्मरणमपि संभाव्यते, कासितादिनिरोधे सति / तथा मा मशकादयश्च कासितादिसमुद्भवपवनश्लेष्मादिनिहता मरिष्यन्ति, जृम्भिते वा वदनप्रवेशं करियन्ति, ततो हस्तः अग्रतो दीयते इति, यतनेयमिति गाथाकाः // 203|| आह-निश्वसितेनेति सूत्रावयवो न व्याख्यात इति किमत्र करणम् ? उच्यते उच्छ्वसितेन तुल्ययोगक्षेमत्वादिति। इदानीमृद्रारितेनेत्यादिसूत्रावयवं व्याचिख्यासुराहवायनिसग्गुग्गारे, जयणा सदस्स नेव य निरोहे। उग्गारे वा हत्थे भमलीमुच्छासु अनिवेसे / / 204|| यातनिसर्ग उक्तस्वरूपः, उद्गारोऽपि / तत्रायं विधिः यतना शब्दस्य क्रियते न निसृष्ट मुच्यत इति।(णेवय णिरोहे त्ति) नैव च निरोधः क्रियते, असमाधिभावादेव। उद्गारे वा हस्तोऽन्तरं दीयत इति। (भमलीमुच्छासु अनिवेसे त्ति) भ्रमीमूर्छयोश्च निवेशे मा सहसा पतितस्यात्मविराधना भविष्यतीति गाथार्थः / / 204||