________________ काउसग्ग 412 - अभिधानराजेन्द्रः - भाग 3 काउसब्ब परिजाणिऊण य जओ, सम्मं गुरुजणपगासणेणं तु। सोहअइ अप्पगं सो, जम्हा य जिणेहिं सो भणिओ॥५८|| (काउस्सग्गं गाहा) इह च संबन्धगाथाद्वयमन्यकर्तृकं तथापि सोपयोगमिति कृत्या व्यख्यायते कायोत्सर्ग उक्तस्वरूपे स्थितः सन्निरेजकायो निष्प्रकम्पुदेह इति भावना निरुद्धवाक् प्रसरो मौनव्यवथितः वन् जानीते सुखमेकमना एकाग्रचित्तः सन्कोऽसौ मुनिः साधुः किं दैवसिकाद्यतिचारम् / आदिशब्दाद्वा क्रियाग्रह इति गाथार्थः / / 87 / / ततः किमित्याह (परिजाणिऊणत्ति) परिज्ञान अतिचारं यस्मात्कारणात् सम्यगशठभावेन गुरुजनप्रकाशनेनेति हृदयम् तुशब्दादिष्टप्रायश्चित्तकारणेन च शोधयत्सात्मानमसौ अतिचारमलिनं क्षालयतीत्यर्थः। तचातिचारपरिज्ञानमविकलकायोत्सर्गव्यवस्थितस्य भवत्यतः कायोत्सर्गस्थानं कार्यमिति / किं च यस्माजिनैर्भगवद्भिरयं कायोत्सर्गो भणितः उक्तः तस्मात् कायोत्सर्गस्थानं कार्यमिति गाथार्थः / / 88|| यतश्चैवमतः काउसगं मोक्खपहदेसिओ जाणिऊण तो धीरा। दिवसाइआरजाणट्ठमिइ ठायति उस्सग्गं ||8|| मोक्षस्य पन्थास्तीर्थकरैरेव भण्यते तत्प्रदर्शकत्वात्करणे कार्योपचारातेन मोक्षपथेन देशित उपदिष्टः मोक्षपथदेशितस्तं (जाणिऊणं ति) दिवसाद्यतिचारपरिज्ञानोपायतः विज्ञाय ततो धीराः साधवः दिवसातिचारज्ञानार्थमित्युपलक्षणं रात्र्यतिचारज्ञानार्थमपि (ठा यति उस्सगं) तिष्ठन्ति कायोत्सर्ग कुर्वन्ति कायोत्सर्गमित्यर्थः / यमश्च कायोत्सर्गस्थानं कार्यमेव सप्रयोजनत्वात्तथाविधवैयावृत्यवदिदिति गाथार्थः। साम्प्रतं यदुक्तं दिवसातिचारज्ञानार्थमिति तत्रौघतो विषयद्वारेण तमतिचारमुपदर्शयन्नाह। सयणासणन्नपाणे, चेइअजइसिज्जकाइउच्चारे। समिईभावणगुत्ती, वितहायरणे अईआरो || शयनीयवितथाचरणे सत्यतिचारः / एतदुक्तं भवति संस्तारकादेरविधिना ग्रहणादौ अतिचार इति (आसणत्ति) आसनवितथाचरणे सत्यतिचारः पीठकादेरविधिना ग्रहणादावतिचार इति भावना (अन्नपाणेत्ति) अन्नपानवितथाचरणे सत्यतिचारः अन्नपानस्याविधिनाऽग्रहणादावतिचार इत्यर्थः (चेतियत्ति) चैत्यवितथाचरणे सत्यतिचारः / चैत्यविषये च वितथाचरणमविधिना धन्दने अकरणे चेत्यादि (जइत्ति) यतिवितथाचरणे सत्यतिचारः यतिविषयं च वितथा चरणं यथार्ह विनयाधकरणमिति (सेजत्ति) शय्यावितथाचरणे सत्यतिचारः शय्या वसतिरुच्यते तद्विषयं वितथाचरणमविधिना प्रमार्जनादौ स्त्र्यादिसंसक्तायां वा वसतौ। इत्यादि कायिकावितथाचरणे सत्यतिचारः वितथाचरणं वाऽस्थण्डिले कायिकान्युत्सृजतः / स्थण्डिले याऽप्रत्युपेक्षिते वेत्याह (उच्चारेत्ति) उच्चारः वितथाचरणे सत्यतिचारः उचारः पुरीषो भण्यते वितथाचरणं चैतद्विषयं यथा कायिकं (समितित्ति) समितिर्वितथाचरणे सत्यतिचारः समितयः श्रेयः समितिप्रमुखाः पञ्च यथा प्रतिक्रमणे वितथाचरणं वा समविधिनासेवनमनासेवनं चेत्यादि (भावणेत्ति) भावना वितथाचरणे सत्यतिचारः भावनाश्चानित्यत्वा- दिगोचरा द्वादश तथा चोकंभावयितव्यमनित्यत्वमसरणत्वं तथैकतान्यत्वे अशुचित्वं संसारः कर्माश्रयः संवरविधिश्च निर्जराणां लोकविस्तारोधर्मः स्वाख्याततत्त्वचिन्ताचबोधे सुदुर्लभत्वं च भावना द्वादश विशुद्धाः अथ वा पञ्चविंशतिर्भावना यथा प्रतिक्रमणे वितथाचरणं वाऽऽसामविधिनासेवनमित्यादि (गुत्तित्ति) गुप्तिर्वितथाचरणे सत्यतिचारः ताश्चेमा नोगुप्तिप्रमुखास्तिस्रो गुप्तयः यथा प्रतिक्रमणे वितथाचरणमपि गुप्तिविषयं यथा समितिष्वित गाथार्थः ||10|| इत्थं सामान्येन विषयद्वारेणातिचारमभिधायाधुना कायोत्सर्गगतस्य मुनेः क्रियामभिधित्सुराह। गोसमुहणंतगाई, आलोए देसिए अईआरे। सवे समापइत्ता, हिअए दोसे ठविजाहि ||1|| गोसः प्रत्यूषो भण्यते (मुहणंतगाईत्ति)मुखवस्त्रिका आदिशब्दाच्छेषोपकरणादिहस्ततश्चैतदुक्तं भवति गोसादारभ्य मुखवस्विकादौ विषये (आलोए देसिए अईआरेत्ति) अवलोकयेन्नि-रीक्षेत दैवसिकानतिचारानविधिना प्रत्युपेक्षितादीनिति ततः (सव्ये) सर्वानतिचारान्मुखवस्त्रिकाप्रत्युपेक्षणादारभ्ययावत्कायोत्सर्गमवस्थान्तरम् (समापइत्ता) समाप्य बुद्ध्यवलोकनेन समाप्तिं नीत्वा एतावानेव नातः परमतिचारोस्तीति हृदये चेतसि दोषान्प्रतिषेधकरणादिलक्षणानालोच्य स्थापयेदिति गाथार्थः। काउंहिअए दोसे, जहक्कम जाव ताव पारेइ। ताव सुहमाणुपाणू, धम्म सुक्कं च झाइज्जा ||2|| (काउंहिअयेत्ति)कृत्वा हृदये दोषान्यथाक्रममिति प्रतिषेधनानुलोम्येन आलोचनानुलोम्येन च प्रतिषेधनानुलोम्यं नाम ये यथा सेविता इति आलोचनानुलोम्यं तु पूर्वं यद्यत् आलोचितं तत्तत्पश्चाद्गुरुरिति (जाव ताव पारेइत्ति) यावत्तावत्पारयति गुरुनमस्कारेण (ताव सुहुमाणुत्ति) तावदितिकालावधारणार्थं सूक्ष्मप्राणापानः सूक्ष्मोच्छ्यासनिः “यास इत्यर्थः (धम्मसुक्कं च झाइजा) धर्मःध्यानप्रतिक्रमणाध्ययनोक्तस्वरूपः शुक्लं च ध्यायेदिति गाथार्थः // 62|| देसिअराइअपक्खे, चाउम्मासे तहेव वरिसे अ। इक्किक्के तिन्नि गमा, नायव्वा पंचसेएसु / / 13 / / दैयसिके प्रतिक्रमणे दिवसेन निवृत्तं दैवसिकं (राइयत्ति) रात्रिके (पक्खियत्ति) पाक्षिके चातुर्मासिके (तहेव वरिसेअत्ति) तथैव वार्षिक घ वर्षेण निर्वृत्तं वार्षिक सांवत्सरिकमिति भावना एकैकस्मिन्प्रतिक्रमणे देवसिकादौ त्रयोगमाः ज्ञातव्याः पञ्चस्वेतेषु दैवसिकादिषु कथं त्रयो गमाः सामयिकं कृत्वा कायोत्सर्गाकरणं सामयिकमेवंकृत्या प्रतिक्रमण सामायिकमेव कृत्वा पुनः कायोत्सर्गकरणमिह यस्मादिवसादितीर्थ दिवसं प्रधानं च तस्मादेवसिकमादाविति गाथार्थः // 63|| आइमकाउसम्गो, पडिक्कम ताउ काकाउ। सामइअंतो किं करेह बीअंतइअंच पुणो विउस्सग्गो // 6 // व्या०(आइमकाउसग्गेत्ति) प्रथमकायोत्सर्ग कृत्वा सामायिकमिति योगः // पडिक्कम ताव बीयं, काउं सामाइयं तिओगोतो। किं करेह तइयं सामइयं पुणो वि उस्सग्गो य (1956