________________ काउसग्ग 411 - अभिधानराजेन्द्रः - भाग 3 काउसब्ब नार्थ निर्घातननिमित्तं व्यापत्तिनिमित्तमित्यर्थं किं तिष्ठामि कायोत्सर्ग कायस्योत्सर्गः कायोत्सर्गः कायपरित्याग इत्यर्थः / एतदुक्तं भवति अनेकार्थत्वाद्धातूनां तिष्ठामीति करोमि कायोत्सर्गव्यापारवतः कायस्य परित्याग इति भावना / किं सर्वथा नेत्याह (अन्नत्थुससिएणंति) अन्यत्रोच्छ्वसितेन उच्छ्वासितं मुक्त्वा योऽन्यो व्यापारस्तेन व्यापारवत् इत्यर्थः। एवं सर्वत्र भावनीयम् / तत्रोर्वप्रबलं श्वसितमुच्छयसितं तेन (णीससिएणंति) अधः श्वसितं तेन निःश्वसितेन (खासिएणंति) कासितमिति प्रतीतम् (छीएणंति) क्षुतेन एतदपि प्रतीतमेव (जभाइएणं ति) जृम्भितेन विवृतवदनस्य प्रबलपवननिर्गमो जृम्भितमुच्यते (उड्डुएणंति) उध्मातं प्रतीतं (वायनिसग्गेणं) अपानेन वातनिर्गमो वातनिसम्र्गा भण्यते तेन (भमलीएत्ति) भ्रमल्या इयमाकस्मिकी शरीरभ्रमिलक्षणा प्रतीतैव (पित्तमुच्छाएत्ति) पित्तमूर्च्छया पित्तप्राबल्यात्मना मूर्छा भवति (सुहुमेहिं अंगसंचालेहिं) सूक्ष्मैरङ्ग संचारलक्षणैर्गात्रविचलनप्रकारै रोनोद्मादिभिः (सुहुमेहि खेलसंचालेहि) सूक्ष्मैः खेलसंचारैः यस्मात्संयोगिवीर्यः स द्रव्यतया तेन 'खेलं भवति (सुहुमेहिं दिविसंचालेहि) सूक्ष्मदृष्टिसंचारनिर्निमेषादिभिः (एवमाइएहिं आगारेहिं अभग्गो अविराहिओ हुञ्ज मे काउस्सग्गो) - एवमादिभिरित्यादिशब्दं वक्ष्यामः। आक्रियन्त इत्याकाराः अगृह्यते इति भावना सर्वथा कायोत्सर्गापवादे प्रकारा इत्यर्थः तैराकारैर्विद्यमानैरपि न भनोऽभग्नः सर्वथाऽविनाशितः ।न विरोधितोऽविराधितोऽविराधितो देशभग्नोऽभिधियते मे मया कायोत्यर्गः क्रियते यावदित्याह (जाव अरिहंताणं भगवंताणं नमोकारेणं न पारेमि) यावदर्हतां भगवतां नमस्कारेण न पारयामि यावदिति कालावधारणमशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामर्हतीत्यर्हन्तस्तेषामर्हतां भग ऐश्वर्यादिलक्षणः स विद्यते येषां ते भगवन्तस्तेषां भगवन्ता संबन्धिनो नमस्कारेण (नमो अरिहंताणंति) अनेन पारयामि पारं गच्छामितावत्किमित्याह (तावकायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि) तावच्छब्देन कालनिदर्शमाह। कायो देहः स्थानेनोर्द्धवस्थानेन तथा मौनेन वाग्निरोधलक्षणेन तथा ध्यानेन शुभेन (अप्पाणंति) प्राकृतशैल्या आत्मीयमन्येन पठन्त्येवैनमालापकं व्युत्सृजामि परित्यजामि इयमत्र भावना कार्यस्थाने मौनध्यानक्रियाव्यतिरेकेण क्रियाऽत्रान्तराध्या सद्वारेण व्युत्सृजामि नमस्कारपाठयावत्प्रलम्बभुजो निरुद्धवाक्प्रसरः प्रशस्तध्यानानुगस्तिछामि तथा च कायोत्सर्गपरिसमाप्तौ नमस्कारमपठतस्तद्भङ्ग एव द्रष्टव्य इत्येषु तावत्समासार्थः / अवयवार्थं तु भाष्यकारो वक्ष्यति। आव०५ अ० कायोत्सर्ग का गतिरिति जधन्यतोऽपितावदष्टोच्छ्वासमानमिह च प्रमादमदिरामदापहृतचेतसा यथावस्थितं भगवद्वचनमनालोच्य तथाविधजनासेवनमेव प्रमाणयतः पूर्वापरविरुद्धमित्थमभिदधति उत्सूत्रमेतत् साध्वादिलोकेनाऽनाचरितत्वात् एतच्चायुक्तम्। अधिकृतकायोत्सर्गसूत्रस्येवार्थान्तराभावात् उक्तार्थतायां चोक्तविरोधात् / अथ भवत्वयमर्थः कायोत्सर्गकरणे न पुनरयं स इति किमर्थमुच्चारणमिति वाच्यं वन्दनार्थमिति चेन्नानर्थत्वात् / अत एवोच्चारणेनातिप्रसङ्गः / कायोत्सर्गयुक्तमेव वन्दनमिति चेत्कर्तव्यस्तर्हि स इति भुजप्रलम्बमात्रः क्रि यते एवेति चेन्न तस्य नियतप्रमाणत्वात् चेष्टाभिभवभेदेन द्विप्रकारत्वादुक्तं च "सो उस्सग्गो दुविहो, चेट्टाए अम्भिवे य णायव्यो। | भिक्खारियाइपढमो, उवसग्गभीओ जणो वीओ" अयमपि च्युदोरेवान्यतरः स्यात् अन्यथा कायोत्सर्गस्य चाणीयसोऽप्यक्तमानत्वात्। उक्तं च "उद्देस सत्तवीसं, अणुस्सवणियाय अढे व। ये उस्सासा पढयण, पडिक्कमणाइ अन्नायं" न गृहीत इति चेतनादिशब्दावरुद्धत्वादुपन्यस्तगाथासूत्रस्योपलक्षणत्वादन्यत्रापि चागमे एवं विधसूत्रोपगत वानुक्तार्थसिद्धेः / उक्तं च 'गोसमुहणंतगादी, आलोइयदेसिए य अइयारे / सव्वे समाणइत्ता, हियए दोसे उवेयाहि" अत्र मुखवस्विका मात्रोक्ते आदिशब्दे पापकरणादिपरिग्रहोऽवसीयते सुप्रसिद्धत्वात्प्रतिदिवसोपयोगाच / अथेदं नोक्तमिति अनियततत्वात् / समानजातीयोपादानादिह तद्ग्रहणमस्त्येव समानजातीयां च मुखवस्त्रिकायाः शेषोपकरणमिति चेत् तत्रापि तन्मानकायोत्सर्गलक्षणसमानजातीयत्वमस्त्येवेति मुच्यतामभिनिवेशः। न चेदं साध्वादिलोकेनानाचरितमेव क्वचित्तदाचारणेपलब्धौ आगमविदाचरणश्रवणाचन चैवंभूतमनाचरितमपि प्रमाणं तल्लक्षणायोगादुक्तंच"असढेण समाइण्णं, जंकत्थइकेणई असावजं / ण णिवारियमण्णेहिं,जं बहुमयमेयमायरियं" न चैतदसावा सूत्रार्थस्य प्रतिपादितत्वात् / तस्य चाधिकतरगुणान्तरभावात्तथाकरणविरोधात् / न चान्यैरनिवारितं तदासेवनपरैरागमविद्भिर्निवारितत्वादत एव न बहुमतमपीति भावनीयम् अलं प्रसङ्गेन / यथोदित कायोत्सर्ग इति इहोच्छ्वाससमानार्थम् / न पुनर्हेयनियमः / यथा परिणामेनैतत् स्थापने च गणास्तत्वानि यानि स्थानवार्थालंबनानि वा अत्मीयदोषप्रतिपक्षो वा एतद्विद्याजन्मबीजं तत्पारमेश्वरमत इत्थमेवोपयोगसिद्ध शुद्धभावोपातं कविन्ध्यं सुवर्णघटायुदाहरणात्। एतद्यतो विद्याजन्मकारणानुरूपत्वेन युक्त्यागमसिद्धम् एतल्लक्षणानुपातिचा वक़गृहकृमिर्यद्वन्मानुष्यं प्राप्य सुन्दरं। तत्प्राप्तावपितस्येच्छा, न पुनः संप्रपर्तते / / 1 / / विद्याजन्माप्तितस्तद्वद्विषयेषुमहात्मनः / तत्त्वज्ञानसमेतस्य, न मनोऽपि प्रवर्त्तते / / 2 / / विषयग्रस्तस्य मंत्रेभ्यो, निर्विषाङ्गोद्भयो यथा / विद्याजन्मन्यलमोह-विषत्यागस्तथैव हि // 3 // शैवे मार्गे स एवाऽसौ, याति नित्यमखेदितः / ननु मोहविषग्रस्त, इतरस्मिन्निवेतरत् / / 4 / / क्रियाज्ञानात्मके योगे, सातत्येन प्रवर्तनाम् / वीतस्पृहस्य सर्वत्र, यानम्प्राहु शिवाध्वनि // 5 // इतिवचनात् अवसितमानुषंगिकम्। प्रकृतं प्रस्तुमः स हि कायोत्सर्गान्ते यथैक एव ततो नमो अरहंताणंति नमस्कारेणोत्सार्य स्तुतिम्ठत्यन्यथा प्रतिज्ञाभङ्गः। जाव अरहताणं इत्यादिनास्यैव प्रतिज्ञातत्वात् नमस्कारत्वेनास्यैव रूढत्वादन्यथैतदर्थाभिधानेऽपि दोषसंभवात् तदन्यमन्त्रादौ तथा दर्शनादिति। अथ बहवस्तत एक एव स्तुतिपठत्यन्ये तुकायोत्सर्गेणैव तिष्ठन्ति यावत् स्तुतिपरिसमाप्तिः अत्र चैवं वृद्धा वदन्ति, यत्र किलायतेन देववन्दनञ्चिकीर्षितं तत्र यस्य भगवतः सन्निहितं स्थापनारूपंतम्पुरस्कृत्य प्रथमं कायोत्सर्गस्तुतिश्च तथा शोभनभावजनकवैमतस्यैवोपकारित्वात्ततः सर्वेऽपि नमस्कारोचारणेन पारयन्तीति व्याख्यातो वन्दनाकायोत्सर्गः ल०॥ तत्रेच्छामि स्थातुं कायोत्सर्गमित्याद्यसूत्रावयमधिकृत्याह परः कायोत्सर्गस्थानंच कार्यप्रयोजनरहितत्त्वात्तथाविधपर्यटनवदित्यत्रोच्यते प्रयोजनरहितत्वमसिद्धम् / / यतः -- काउस्सग्गम्मि ठिओ, निरेअकाओ निरुद्धवयपसरो। जाणइ सुहमेगमणो, मुणि देवसिआइअइआरं / / 7 / /