________________ काउसग्ग 406 - अभिधानराजेन्द्रः - भाग 3 काउसब्ब कश्रुतदृष्टिवादान्तर्गतमन्यद्वा तथाविधः (गुणंतोत्ति) गुणयन् वर्तते त्रिविधेऽपि ध्याने मनोवाक्कायव्यापारलक्षण इति गाथार्थः।।६।। अवसातमानुषङ्गिकं साम्प्रतं भेदपरिणामं प्रतिपादयता उत्थितोत्थितादिभेदो यो नवधा कायोत्सर्ग उपन्यस्तः स यथायोगं व्याख्यायत इति। तत्र धम्म सुक्कं च दुवे, झायइ झाणाइ जो ठिओ संतो। एसो काउस्सग्गो, उसिउसिओ होइ नायव्यो / / 66 // धर्म शुक्लं च प्राक्प्रतिपादितस्वरूपमेते द्वे ध्यायते ध्याने यः कश्चिस्थितः सन् एष कायोत्सर्ग उत्थितो भवति ज्ञातव्यो यस्मादिह शरीरमुत्थितभावोऽपि धर्मशुक्लंध्यात्वा उत्थित एवेतिगाथार्थः / / 66 / / गतः खल्वेको भेदः। अधुना द्वितीयः प्रतिपाद्यते। धम्म सुकं च दुवे, न वि झायइ न वि अ अट्टरुदाई। एसो काउस्सग्गो, दवुसिओ होइ नायव्वो // 70|| धर्म शुक्लं च द्वे नापि ध्यायति नापि आर्त्तरौद्रे एष कायोत्सर्गो द्रव्योत्थितो भवतीति ज्ञातव्य इतिगाथार्थः।। कस्यां पुनरवस्थायां न शुभांध्यानं ध्यायति नाप्यशुभमित्यत्रोच्यते पयलायं तसु सुत्तो, नेव सुहं झाइ झाणमसुहं वा। अव्वावारिअचित्तो, जागरमाणो वि एमेव / / 71 / / प्रचलायमान ईषत्स्वपन्नित्यर्थः (सुत्तेति) सुष्टु सुप्तः स खलु नैवं शुभं ध्यायति ध्यानं धर्म शुक्ललक्षणं अशुभं वा आतरौद्रलषणं न व्यापारितं क्वचिद्ग्रस्तुनि चित्तं येन स अव्यापारितचित्तः यश्चिरं जाग्रदपि एवमेव शुभं ध्यायति नाप्यशुभमिति गाथार्थः / / 71 / / किं च अचिरोववनगाणं,मुच्छिअ अव्वत्तमत्तसुत्ताणं। ओहारिअमव्वत्तं, च होइ पाएण चित्तंति।७२।। न चिरोपपन्नका अचिरोपपन्नकास्तेषामचिरोपपन्नानामचिरजातानामित्यर्थः / मूर्छिताव्यक्तमत्तसुप्तात्मनां मूर्छितानामभिधातादिना अव्यक्तानामव्यक्तचेतसां मत्तानां मदिरादिना सुषुप्तानां निद्रया इहाव्यक्तानामिति यदुक्तं तत्राव्यक्तचेतसः अव्यक्तास्तत्पुनरव्यक्तं कीदृशमिष्याह (ओहाडियमव्वत्तं चहोइ पाएण चित्तं तु) स्थगितं विषादिना तिरस्कृतस्वभावमव्यक्तं च अव्यक्तमेव चशब्दोऽवधारणे भवति प्रायश्चित्तमिति प्रायोग्रहणादन्यथाऽपि संभवतीति गाथार्थः / स्यादेतत् एवं भूतस्यापि चेतसो ध्यानताऽस्तु को विरोध इत्यत्रोच्यते / तदेवं यस्मात्। गाढालं वणलग्गं, चित्तं वुत्तं निरेअणं झाणं / सेसं न होइ झाणं, मउअमवत्तं भमं तं च / / 73 / / गाढालम्बने लग्नं गाढालम्बनलनम्। गाढालम्बनमेकालम्बने स्थिरतया व्यवस्थितमित्यर्थः / चित्तमन्तःकरणमुक्तं भणितं निरेजनं निष्प्रकम्पं ध्यानं यतश्चैवमतः शेषमस्मादन्यत्तन्नभवतिध्यानं किंभूतम् (मउयमवत्तं भमं तं च ) मृदुभावनायामठोरमव्यक्तं पूर्वोक्तं भ्रमत्वानवस्थितं चेति गाथार्थः / आह, यदिचित्तं ध्यानं न भवति वस्तुतः अव्यक्तत्वात्कथमस्य पश्चादपि व्यक्तता इत्यत्राह। उम्हासेसो वि सिही, होउं लद्धिंधणो पुणो जलइ। इअ अव्वत्तं चित्तं, होउं बत्तं पुणो होइ / / 74 / / ऊष्मावशेषोऽपि मनागपि उष्ण इत्यर्थः शिखी अग्निः भूत्वा लब्धेन्धनः प्राप्तकाष्ठादिः सन्पुनवलति (इअत्ति) एवमव्यक्तं चित्तं मदिरादिना भूत्वा व्यक्तं पुनर्भवत्यग्निवदितः गाथार्थः। इत्थं प्रासंगिकं कियदप्युक्तम् अधुना प्रकान्तवस्तुशुद्धिः क्रियते / किं च प्रकान्तं कायिकादिविधध्यानं यत उक्तं "भंगियसुयं गुणेतो, वट्टइ तिविहे वि झाणम्मि'' इत्यादि एवं च व्यवस्थिते "अंतो मुत्तकालं, चित्तमेगग्गया भवति झाण' यदुक्तमरमाद्विनेयस्य विरोधाशङ्काव्यामोहः स्यादतस्तदपनोदायाशङ्कामाह पुण पुव्वं च जदुत्तं, चित्तस्सेगग्गया हवइ झाणं / आवश्नमणेगग्गं, चित्तं चिअतं न तं झाणं / / 7 / / पुनस्त्रिविधे ध्याने सति पूर्वं च यदुक्तं चित्तस्यैकाग्रता भवति ध्यानम्। "अंतोमुत्तकालं चित्तस्सेगग्गया भवति झाणं" इति वचनात् च शब्दादचेतनऊर्द्धवमुक्तम् "भंगियसुयं गुणेतो, वट्टइ तिविहे वि झाणम्मि' तदेतत्परस्परविरुद्ध कथं यतस्त्रिविधे ध्याने सति आपन्नमनेकविषय ध्यानमिति तथाहि मनसा किंचिद्ध्यायति वाचाऽभिधत्तेकायेन क्रियां करोतीत्यनेकाग्रता / अत्राचार्य इदमनादृत्य सामान्येनानेकाग्रचित्तं हृदि कृत्वाकाक्वाह "चित्तं चिय तं न तं झाणं" यदनेकाग्रं तच्चित्तमेव न तद्ध्यानमिति गाथार्थः / आह उक्तन्यायादनेकाग्रं त्रिविधं तस्मात्तर्हि ध्यानत्वानुपपत्ति -भिप्रायपरिज्ञानात् तथाहि / मणसहिएण उकाएण, कुणइ वायाइ भासई जं च / एअद्धि भावकरणं, मणरहिअंदव्वकरणं तु // 76|| मनःसहितेनैव कायेन करोति यदिति संबध्यते उपयुक्तो यत्करोतीत्यर्थः। वाचा भाषते यच्च मनःसहितया एतदेव भावकरणं वर्तते / भावकरणं च ध्यानं मनोरहितं तु द्रव्यकरणं भवति। ततश्चैतदुक्तं भवतीहानेकाग्रतैव नास्ति सर्वेषामेव मनः प्रभृतीनामेकविषयत्वात्। तथाहि स यदेव मनसा ध्यायति तदेवाभिधत्ते तत्रैव च कायक्रियेति गाथार्थः। इत्थं प्रतिपादिते सत्यपरस्त्वाह। जइ ते चित्तं झाणं, एवं झाणमवि चित्तमावन्नं / तेन किर चित्तझाणं, अह नेवं झाणमन्नं ते / / 77 / / यदि ते तव चित्तं ध्यानम् "अंतो मुत्तकालं, चित्तस्सेगग्गया हवइ झाणं" इति वचनात्।एवं ध्यानमपि चित्तमापन्नं ततश्च कायिकवाचिकध्यानासंभव इत्यभिप्रायस्तेन किल चित्तमेव ध्यानं नान्यदिति हृदयम्। अथ नैवमिष्यते माभूत्कायिकवाचिके ध्याने न भविष्यति इति इत्थं तर्हि ध्यानमन्यत्ते तव चित्तादिति गम्यते यस्मान्नावश्यं ध्यानं चित्तमिति गाथार्थः। अत्राचार्य आह अभ्युपगमादिदोषम् तथाहि नियमा चित्तं झाणं, चित्तं झाणं न या विभइअव्वं / जह खइरो होइ दुमो, अखइरो अखइरो वा 78|| "निअमा झाणं चित्तं चित्तं झाणं'' इति पाठान्तरं व्याख्यान्तरे नियमान्नियमेन उक्तलक्षणं चित्तं ध्यानमेव(झाणं विभइयव्यं) ध्यानं तु चित्तं न चाप्येवं विभक्तव्यं विकल्पनीयम् / अत्रैवार्थे दृष्टान्तमाह "जह खइरो होइ दुमो, दुमो अखइरो अखइरो वा' यथा खदिरो भवति दुम एव दुमस्तु खदिरः अखदिरो वा धवादि चेत्ययं गाथार्थः। अन्ये पुनरिदं गाथाद्वयमतिक्रान्ते गाथां चैवाक्षेपद्वारेणान्यथा व्याचक्षते यदुक्तं "चित्तं चियतं नतं झाणंति" इत्येतदसत्कथम् 'यदि