________________ काउसग्ग 408 - अभिधानराजेन्द्रः - भाग 3 काउसब्ब तस्स तहिं निद्देसो, इअरो तत्थि क्क दो व न वा / / 5 / / एवमेव च योगानां मनोवाकायानां त्रयाणामपि यदा उत्कटः योगस्तस्य योगस्य तदा तस्मिन्काले निर्देशः (इतरेतत्थिक्कदो वनवा) इतरस्तत्रैको भवति द्वौ वा भवतः न वा भवत्येव / इयमत्र भावना केवलिनः याचि उत्कटायां कायोऽप्यस्ति अस्मदादीनां तुमनः कायो न वेति केवलिनः एव शैलेश्यवस्थायां काययोगनिरोधकाले स एव केवल इत्यनेन च शुभयोगोत्कटत्वं तथा निरोधश्च द्वयमपि ध्यानमित्यादि वेदितव्यमिति गाथार्थः // 56 // इत्थं य उत्कटो योगस्तस्यैवेतराऽसद्भावेऽपि प्राधान्यात् सामान्येन तमभिधायाधुना विशेषेण त्रिप्रकारमप्युपदर्शयन्नाह। काए वि अ अज्झप्पं, वायाइमणस्स चेव जह होइ। कायवयमणो जुत्तं, तिविहं अज्झप्पमाहंसु // 60 // कायेऽपिच अध्यात्मनि वर्त्तत अत्यध्यात्म ध्यानमित्यर्थः / एकाग्रतया एजनादिनिरोधाात् (वायाएत्ति) तथा वाचि अध्यात्म तथा एकाग्रतयैवायतभाषानिरोधत् (मणस्सचेवजह होइत्ति) मनसश्चैव यथा भवत्यध्यात्मम् / एवं कायेऽपि वाचि चेत्यर्थः / एवं भेदेनाभिधायाधुनैकदैवोपदर्शयन्नाह 'कायवाङ्मनोयुक्तं त्रिविधमध्यात्ममाख्यातवन्तस्तीर्थकरा गणधराश्च वक्ष्यन्ते च भंगियं सुयं गुणं ते वट्टइ तिविहे जोग" मिति गाथार्थः // 6 // पराभ्युपगतध्यानसाम्यप्रदर्शनेनानभ्युपगतयोरपि ध्यानतां प्रदर्शयन्नाह। जइ एगग्गं चित्तं, धारयओ वा निरंभओ वा वि। झाणं होइनणु तहो, इअरेसु वि दोसु एमेव // 61 / / हेआयुष्मन्ययेकाग्रं चित्तं क्वचिद्वस्तुनि धारयतो वा स्थिरतया देहव्यापिविषवड्डङ्क इति निरुम्भतो वा चित्तनिरुधानस्य वा तदपि योगनिरोध इव केवलिनः किमित्याह ध्यानं भवति मानसं यथा तथा इतरयोरपि द्वयोर्वाक्काययोरेवमेव एकाग्रधारणादिनैव प्रकारेण तल्लक्षणयोगध्यानं भवतीति गाथार्थः॥६१।। इत्थं त्रिविधे ध्याने सति यस्य यदोत्कटत्वं तस्य तदेतरसद्भावेऽपि प्राधान्याय्यदेश इति लोकोत्तरानुगतश्चायं न्यायो वर्तते तथाचाह। देसिअदंसिअमग्गमे, वचंतो नरवई लहइ सदं / रायत्ति एस वचइ, सेसे अणुगामिणो तस्स // 6 // देशयतीति देशकः अग्रयायी देशकेन दर्शितो मार्गः पन्था यस्य स तथोच्यते ब्रजन् गच्छन् नरपती राजा लभते शब्दं प्राप्नोति। शब्दं किं भूतमित्याह (रायत्ति एव वच्चइत्ति) राजा एष व्रजतीति न चासौ केवलः प्रभूतलोकानुगतत्वान्नच तदन्यव्यपदेशस्तेषामप्राधान्यात् तथा चाह (सेसा अणुगामिणो तस्सत्ति)शेषा अमात्यादयः अनुगामिनोऽनुयातारस्तस्य राज्ञः इत्यतः प्राधान्याद्राजेति व्यपदेश इति गाथार्थः।।६।। अयं लोकानुगतो न्यायः अयं पुनर्लोकोत्तरानुगतः। पढमिल्लुगस्स उदए, कोहस्सिअरे वि तिन्नि तत्थ त्थिा नय ते न संति तहिअ, नयपाहन्नं तहेअंपि॥६३|| प्रथम एव प्रथमेल्लुकः / प्रथमत्वं चास्य सम्यग्दर्शनाख्यप्रथमगुणघातित्वात्तस्य प्रथमेल्लुकस्य उदये कस्य क्रोधस्य अनश्ताहुबन्धिन / इत्यर्थः।(इयरे वि तिन्नितत्थ त्थि)शेषा अपि त्रयः अप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनोदयवन्तस्तत्र जीवद्रव्ये सति न चातीताद्यपेक्षया तत्सद्भावः प्रतिपाद्यते / यत आह (न य ते न संति तहिंअं) न च ते अप्रत्याख्यानावरणादयो न सन्ति तदा किंतु सत्येव नच प्राधान्य तेषामतो नव्यपदेशः। आद्यस्यैव व्यपदेशः (तहेयं पि)तथैतदप्यधिकृतं वेदितव्यमिति गाथार्थः // 63|| अधुना स्वरूपतः कायिकं मानसं च ध्यानमावेदयन्नाह। मा मे एअउ काओ त्ति, अचलओ काइअंहवइ झाणं / एमेव य माणसिअं, निरुद्धमणसो हवइ झाणं / / 6 / / मा मे मम (एअउ काउत्ति) एजतु कम्पतां कायो देह इति एवमचलत एकाग्रतया स्थितस्येति भावना। किंकायेन निर्वृत्तं कायिकं भवति ध्यानम् एवमेव मानसं निरुद्धं मनसो भवति ध्यानमिति गाथार्थः / / 64 / / इत्थं प्रतिपादिते सत्याह चोदकः / जह कायमणनिरोहे, झाणं वायाइजुज्जइ न एवं / तम्हा वई उ जाणं,न होइ को वा वि सेमुत्थ // 65|| ननु यथा कायमनसो निरोधे ध्यानं प्रतिपादितं भवता (वायाए जुज्जइ नएवंति) वाचि युज्यते (ण एवंति) नैवं कदाचिदप्रवृत्यैव निरोधाभावात् / तथाहि न कायमनसी यथा सदावृत्ते तथा वागिति। (तम्हायति तु झाणं नहोई) तस्माद्वागध्यानं न भवत्येव तुशब्दस्यैवकारार्थत्वाव्यवहितप्रयोगाच्च को वा विशेषोऽत्र येनेत्थमपि व्यवस्थिते सति वाक्प्राधान्य भवतीति गाथार्थः। इत्थं चोदकेनोक्ते सत्याहगुरुः। मा मे चलउ त्ति तणू, जह तं झाणं णिरेइणो होइ। अजया भासविवन्जिस्स, वाइअंझाणमेवं तु // 66 / / मा मे चलतु कम्पतामितिशब्दस्य व्यवहितः प्रयोगः। तं दर्शयिष्यामः तनुः शरीरमेवं चनलक्रियानिरोधेन यथा तद्ध्यानं (णिरियणो होत्ति) निरेजनस्य निष्कम्पस्य भवति (अजयाभासविविजिस्स वाइयं झाणमेवं तु) अयतो भाषाविवर्जिनो दुष्टवाक्परिहर्तुरित्यर्थः / वाचिकध्यानमेव यथा कायिकं तुशब्दोऽवधारणार्थ इति गाथार्थः। साम्प्रतं स्वरूपत एव वाचिकध्यानमुपदर्शयन्नाह। एवंविहा गिरा मे, वत्तव्वा एरिसा न वत्तव्वा। इअवेआलिअवक्कस्स, भासओ वाइअं झाणं // 67 / / एवं विधेति निरवद्या गीर्वागुच्यते मेति मया वक्तव्या। (एरिसित्ति) ईदृशी सावध न वक्तव्या (इयवेयाजियवक्कस्स भासंतो वाचिअं झाणं) एवमेकाग्रतया विचारितवाक्यस्य समो भाषमाणस्य वाचिकं ध्यानमिति गाथार्थः // 6 // एवं तावद्व्यवहारभेदेन त्रिविधमपिध्याननमावेदितमधुनैकदैव एकत्रैव त्रिविधमपि दर्श्यते। मणसा वावारंतो, कायं वायं च तप्परीणामो। मंगिअसुअंगुणतो, वट्टइ तिविहे वि झाम्मि // 65|| मनसाऽन्तःकरणे नोपयुक्तः सन्च्यापारयन्कायं देहं च वाचं च भारती च (तप्परिणामोत्ति) तत्परिणामो विवक्षित श्रुतपरिणामः / अथवा तत्परिणामो योगत्रयपरिणामः / स तथाविधः शस्तो योगत्रयपरिणामो यस्यासौ तत्परिणाम इति / तद्भङ्गि