SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ काउसग्ग 405 - अभिधानराजेन्द्रः - भाग 3 काउसब्ब मासेवनीयमित्यनन्तराध्ययने तन्निरूपित इह तुतथाप्यशुद्धस्यापराधव्रणचिकित्साप्रायश्चित्तभेषजं प्रतिपाद्यते। तत्र प्रायश्चित्तभैषजमेव तावद्विचित्रं प्रतिपादयन्नाह। आलोअण 1 पडिामणे 2 मीस 3 विवेग 4 तहा विउस्सग्गे 5 / / तव 6 छेअ६ मूल 8 अणवठ्ठयाया पारंचिए चेव / / 1 / / आलोयणत्ति) आलोचनाप्रयोजनतो हस्तशताबहिर्गमनादौ गुरोर्विकटना 1 (पडिक्कमणेत्ति) प्रतिक्रमणं प्रतिक्रमणे सहसा समित्यादौ मिथ्यादुष्कृतकरणमित्यर्थः 2 (मीसत्ति) मिश्रशब्दादिषु रागादिकरणे विकटना मिथ्यादुष्कृतावित्यर्थः 3 (वियेगकत्ति) विवेकः अनेषणीयस्य भक्तादेः कथंचिद्गृहीतस्य परित्याग इत्यर्थः 4 तथा (विउस्सगेत्ति) तथा व्युत्सर्गः कुस्वप्रादौ कायोत्सर्ग इति भावना 5 (तवेत्ति) कर्मतापनात्तपः पृथिव्यादिसंघटनादौ निर्विकृतिकादि 6 (छेयत्ति) तपसा दुईमस्य श्रमणपर्यायछे दनमिति हृदयम् 7 (मूलेत्ति) प्राणातिपातादौ पुनव्रतारोपणमित्यर्थः 8 (अणवठ्ठतायेत्ति) हस्ततालादिप्रमाददोषदुष्टतरपरिणामत्वाइतेषु नवस्थाप्यतेइत्यनवस्थाप्यस्तगावोऽनवस्थाप्यता च 6 (पारंचिए चेवत्ति) पुरुषविशेषस्य स्वलिङ्गराजपल्याद्यासेवनायां पारंचिकं भवति पारं प्रायश्चित्तान्तमञ्चति गच्छति इति पारंचिकं न तत ऊर्ध्वं प्रायश्चित्तमस्तीति गाथार्थः ।।१।एवं प्रायश्चित्तभेषजमुक्तम्। (3) सांप्रतं व्रणः प्रतिपाद्यते स च द्विभेदः द्रव्यव्रणो भावव्रणश्च। द्रव्यवणः शरीरक्षतलक्षणः। असावपि द्विविध एव तथा चाह। दुविहो कायम्मि वणो, तदुब्भवागंतुगो अनायव्वो। आगंतुगस्स कीरइ, सल्लुद्धकरणं न इअरस्स / / 2 / / द्विविधो द्विप्रकारः (कायम्मि वणोत्ति) चीयत इति कायः शरीरमित्यर्थः तस्मिन् व्रणः क्षतलक्षणः / द्वैविध्यं दर्शयति / तस्मिन्नुद्भवोऽस्येति गण्डादिरागन्तुकश्च ज्ञातव्यः / आगन्तुकः कण्टकादिप्रभवः तत्रागन्तुकश्च क्रियते शल्योद्धरणं नेतरस्य तदुद्भवो वास्येति गाथार्थः // 2 // यद्यस्य यथोद्धियते उत्तरपरिकर्माच क्रियते द्रव्यव्रणे एव तदभिधित्सुराह। तणुओ तिक्खतुंडो, असोणिओ केवलं तयालगो। उद्धरिओ अवणिज्जइ, सल्लोन मलिज्जइवणओ ||3|| लग्गुद्धिअम्मि वीए, मइलिज्ज परं अदूरगेसल्ले। उद्धरणमलणपूरण दूरयरगए तईअम्मि ||4|| (तणुओ) तनुरेव तनुकः कृश इत्यर्थः / न तीक्ष्णतुण्डमतीक्ष्णमुखमिति भावः / न यस्मिन् शोणितं विद्यते इत्यशोणितं केवलं नवरं त्वलग्नं बाह्यत्वविलग्नमुद्धत्य (अवणिजइ सल्लोत्ति) परित्यज्यते शल्यं प्राकृतशैल्याऽत्र पुल्लिङ्गनिर्देशः (णमलिज्जइ वणो) न च मृज्यते व्रणः अल्पत्वाच्छल्यस्येति गाथार्थः / / 3 / / प्रथमशल्यजेऽयं तिवधिः / द्वितीयादिशल्यजे पुनरयं (लग्गुद्धितम्मिगाहा) लग्नमुद्भुतं तस्मिन् द्वितीये वास्मिन् अदूरगते शल्ये इति योगः मनाग दृढलग्न इति भावना / अत्र (मलिज्जति परंति) मृज्यते यदि परं व्रण इति उद्धरणं शल्यस्य मर्दनं द्रणस्य पूरणं कर्णमलादिना तस्यैवैतानि क्रियन्ते दूरतरगते तृतीये शल्ये इति गातार्थः / / 4 / / मा वेअणा उ तो उद्धरिउ गालंति सोणिचउत्थे। रुज्जइ लहुंति चिट्ठा, वारिज्जइपंचमे वणिणो / / 5 / / मा वेदना भविष्यतीति तत उद्धृत्य शल्यं गालयति शोणितं चतुर्थे शल्ये इति तथा रुध्यतां शीघ्रमिति चंष्टा परिस्ययन्दनादिलक्षणा बार्यते निषिध्यते पञ्चमे शल्ये उद्धृते व्रणोस्यास्तीति व्रणी तस्य व्रणिनः रोद्रतरत्वाच्छल्यस्येति गाथार्थ / / 5 / / रोहेइ वणं छटे, हिअमिअभोई अभुंजमाणो वा। तित्तिअमित्तं छिज्जइ, सत्तमए पूइमसाई॥६॥ रोहयति व्रणं षष्ठे शल्ये उद्धृते सति हितमिततभोजी हितं पथ्यं मितं स्तोकं अभुजानो वा तथा यावच्छल्येन दूषित (तत्तियमित्तंति) तावन्मात्र छिद्यते सप्तमे शल्ये उद्धृते किं पूतिमांसादीति गाथार्थः // 6 // तह विय अट्ठायमाणे,गोणसभत्तिखिआइरप्फिए वा पि। कीरइ तदंगछेओ, स अट्ठिओ सेसरक्खट्ठा // 7 // तथापि च (अट्ठायमाणेत्ति) अतिष्ठति सति विसर्पतीत्यर्थः / गोनसभक्तिक्षितादौ रस्फिके वापि क्रियते तदङ्गच्छेदः सहास्था शेषरक्षार्थमिति गाथार्थः / एवं तावदव्यव्रणचिकित्सा च प्रतिपादिता॥७॥ अधूना भावव्रणः प्रतिपाद्यते। मुलुत्तरगुणरूवस्स, ताइणो परमचरणपुरिसस्स। अवराहसल्लपभवो, भाववणो होइ नायव्यो / / 8 / / इयमन्यकर्तृका सोपयोगा चेति व्याख्यायते मूलगुणाः प्राणातिपातादिविरमणलक्षणा उत्तरगुणाः पिण्डविशुद्ध्यादयः एत एव रूपं यस्य स मूलगुणोत्तरगुणरूपः तस्य तायिनः परमस्यास्य चरणपुरुषस्येति समासान्तस्यापराधी गोचरादिगोचराः त एव शल्यानि तेभ्यः प्रभवः संभवो यस्य सतथाविधभावव्रणो भावतीति ज्ञातव्य इतिगाथार्थः / / 8 / / साम्प्रतमस्यानेकभेदभिन्नस्य व्रणस्य विचित्रप्रायश्चित्तभेषजेन चिकित्सा प्रतिपाद्यते भिक्खारिआइ सुज्झइ, अइआरो कोई विअडणाए उ। बिइओ अ असमिओ मित्ति, कीस सहसा अगुत्तो वा / / 6 / / भिक्षाचर्यादिः शुद्ध्यत्यतिचारः कश्चिद्विकटनयैवालोचनयैवेत्यर्थः / आदिशब्दाद्विहारभूम्यादिगमनजो गृह्यते अत्राऽतिचार एव व्रण एवं सर्वत्र योज्यम् / (वितिओत्ति) द्वीतीयो व्रणोऽप्रत्युपेक्षितखेलविवे-कादौ हा असमितोऽस्तीति किमिति सहसा अगुप्तो वा मिथ्यादुष्कृतमिति चिकित्सेत्ययं गाथार्थः // 6 // सद्दाइइएसु राग, दोसं व मणे गओ तइअवणो। नाउं अणेसणिज्जं, भत्ताइविगिचणचउत्थे / / 10 / / शब्दादिष्विष्टानिष्टेषु राग द्वेषं च मनसा गतः अत्र (तइयवणोत्ति) तृतीयो व्रणः मिश्रभेषजचिकित्सा ओलोचनाप्रतिक्रमणशोध्य इत्यर्थः ज्ञात्वा अनेष्णीयभक्त्यादि विकिंचना चतुर्थ इति गाथार्थः / / उस्सग्गेण वि सुज्झइ, अइआरो कोइ कोइ उ तवेणं / तेणं वि असुज्जमाणं, छेअविसेसो विसोहिं ति // 11 // कायोत्सर्गेणापि शुद्ध्यति अतिचासः कश्चित्कु स्वप्नादि कश्चित्तु तपसा पृथिव्यादिसंघट्टनादिज्न्यो निर्विकृतितकादिना षण्मासं
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy