________________ काउसग्ग 404 - अभिधानराजेन्द्रः - भाग 3 काउसब्ब काइया स्त्री०(कायिकी) चीयत इति कायः शरीरं काये भवा कायेन निवृत्ता वा कायिकी।? भ०३श०१ उ०। प्रज्ञा० क्रियाभेदे, कायचेष्टायाम् ,स०) स्था०। ध० हस्तादिव्यापारणे, प्रति / कायव्यापारे, काइया किरिया दुविहा, पन्नत्ता तंजहा अणुवरयकायकिरिया चेव दुप्पउत्तकायकिरिया चेन॥ कायिकी द्विधा (अणुवरयकायकिरिया चेवत्ति) अनुपरतस्याविरतस्य सावद्यात् मिथ्यादृष्टे : सम्यग्दृष्टे वा कायक्रि योत्क्षेपादिलक्षणा कर्मबन्धनिबन्धनमनुपरतकायक्रिया तथा (दुप्पउत्तकायकिरिया चेवत्ति) दुष्प्रयुक्तस्य दुष्टप्रयोगवतो दुष्प्रणिहितस्येन्द्रियाण्याश्रित्येष्टानिष्टविषयप्राप्तौ मनाक् संवेदनिर्वेदगमनेन तथाऽनिन्द्रियमाश्रित्याऽशुभमनःसंकल्पद्वारेणापवर्गमार्ग प्रति दुर्व्यवस्थितस्य प्रमत्तसंयतस्येत्यर्थः / कायक्रिया दुष्प्रत्युक्तकायक्रियते। 4 / स्था०२ ठा०१ उ० प्रज्ञा०। आ०म०द्वि०। आ०चू० सा पुनस्त्रिधा अविरतकायिकी दुष्प्रणिहितकायिकी उपरतकायिकी / तत्र मिथ्यादृष्टरविरतसम्यग्दृष्टश्चाद्या अविरतस्य कायिकी उत्क्षेपादिलक्षणा क्रिया कर्भबन्धिनिबन्धना अविरतकायिकी एवमन्यत्रापि षष्ठीसमासो योज्यः / द्वितीया प्रमत्तसंयतस्य सा पुनर्द्विधा / इन्द्रियदुष्प्रणिहितकायिकी नोइन्द्रियदुष्प्रणिहितकायिकी च / तत्राद्येन्द्रियैः श्रोत्रादिभिर्दुष्प्रणिहितस्य इष्टानिष्टविषयप्राप्ती मनाक् अग्रे निर्वेदद्वारेणापवर्गमार्गप्रति दुर्व्यवस्थितस्य कायिकी। एवं नोइन्द्रियेण मनसा दुष्पणिहीतस्याशुभसंकल्पद्वारेण दुर्व्यवस्थितस्य कायिकी / तृतीया अप्रमत्तसंयस्य उपरतस्य प्रायः सावद्ययोगेभ्यो निवृत्तस्य कायिकी / गता कायिकी (आव०४ अ०) ध०मोचे मूत्रपुरीषयोः "आहारमोयमसिणाई मोएत्ति काइयं वोसिरिउंदवंण गेण्हति' नि०चू०१ उ०॥ वलीवादिकायपरिश्रम साध्यायाम्, मूलधनाविरोधेन प्रत्यहमविरोधेन प्रत्यहमधमणदयपणपादादिरूपायां वा वृद्धौ, च / वाचा काउ स्त्री०(काकु)कक उण "भिन्नकण्ठध्वनिर्धी रैः, काकुरित्यभिधीयते' इत्युक्तलक्षणे शोकभीत्यादिभिर्ध्वनेर्विकारे, विरुद्धार्थकल्पके, नत्रादौ शब्दे, च उदा० "गुरुपरतन्त्रतया वत, दूरतरदेशमुद्यतो गन्तुम्। अलिकुलकोकिलललितैनॆष्यति सखि ! सुरभिसमयेऽसौ" नेष्यति अपि तर्हि एष्यत्येवेति काक्वा व्यज्यते इत्युक्तम् वाच०। आचा०। काउँ अव्य०(कर्तुम्) कृ तुमुन् "आःकृगो भूतभविष्यतोश्च" 4i214 / इति कृधातारन्त्यस्य आ। विधातुमित्यर्थे, प्रा०। कृत्वा विधायेत्यर्थे, तु काउंबर पुं०[काकोडु(दुम्बर] काकमीषञ्जलमत्र काकस्य प्रियः उदु (डु) म्बरो वा / उडुम्बरभेदे, शब्दरत्ना०। स्वार्थे कन् अत इत्वम्, स्यार्थिकप्रत्ययस्य प्रकृतिलिङ्गव्यतिक्रमः। काकोडुम्बरिकाप्यत्र स्त्री० अमरः / वाच०प्रज्ञा० जी०। काउसग्ग पुं०(कायोत्सर्ग) कायः शरीरं तस्योत्सर्गः षष्टीसमासः (कायोत्सर्गशब्दस्य सूचिरूपेण पञ्चदशाधिकाराः यथा) (1) कायोत्सर्गशब्दार्थाः / (2) प्रायश्चित्तभेषजेनापराधव्रणचिकित्सा संपाद्य वैचित्र्येण दशधा प्रायश्चित्तभेषजं समभिहितम्। (3) द्रव्यभावयोर्भेदेन व्रणद्वैविध्यमनेकभेदाभिन्नेनोक्तम्। (4) कायोत्सर्गमधिकृत्यैकादश मूलद्वाराणि निर्युकृदुक्तानि। तृतीयविधानमार्गणामूलद्वारावयवस्य सद्व्यख्योक्ता। (6) चतुर्थ कालपरिमाणमूलद्वारमुक्तम्। पञ्चमं भेदपरिणाममूलद्वारं नवभेदेनान्वितं बहुविस्तरवृत्त्या सम्यग्निरूपितं दैवसिकरात्रिकावश्यकसूत्रालापकानि सद्वृत्त्योतानि, व्युत्सातिचाराः, मुनेः क्रिया, प्रतिलेखनाविधिश्चोक्तः / नियतानियतकायोत्सग्गीवुक्तौ। केषु केषु कार्येषु कियदुच्छ्वासमानव्युत्सर्गमत्र द्वारगाथा सद्व्याख्यया समभिहिता। (10) षष्ठासठनाममूलद्वारमत्र दान्तिकयोजनां मायावतो दोषांश्च प्रतिपाद्य वयोबलमधिकृत्य चतुर्भङ्गचुक्ता। (11) सप्तमं सठनामकं मूलद्वारमत्र [क्तहेतुभिः कारकाणां कूटमनुष्ठा नमुक्तम्। (12) अष्टमं विधेर्मूलद्वारमत्र कथं कयारीत्या कायोत्सर्गे स्थातव्यमिति विधिः। (13) नवमद्वारम् कायोत्सर्गस्य 'घोडगलयखंभाई' इत्याद्ये कोनविंश तिदोषव्याख्यागर्भितम्। (14) दशमं कस्येति मूलद्वार मत्रोक्तदोषरहितस्यायं युत्सर्गः यथोक्त फलको भवतीत्युक्त्वा त्रिधोपसर्गसहिष्णोरेवायं भावतीति प्रदर्शितम्। (15) एकादशं फलस्यात्रैहिकामुत्रिकलोकापेक्षया द्विधा फलं सुदर्शनादिनिदर्शनपूर्वकं, कर्मक्षयफलमतिचारे प्रायश्चितं च समभिहितम्। (1) कायोत्सर्गशब्दार्थाः। देहस्य कुताकारस्य स्थानमौनध्यानक्रियाध्यतिरेकक्रियान्तराध्यासमधिकृत्य परित्यागे, लका प्रतिका अतिचारशुध्यर्थं कायस्य व्युत्सजने, कायममत्ववर्जने, उत्त०२६ अ०। धर्मकायातिचारव्रणशोधके, आवश्यकश्रुतस्कन्धस्य अध्ययनविशेषेच, पा०। (2) प्रायश्चित्तभेषजेनापराधव्रणचिकित्सा संपाद्य वैचित्र्येण दशधा प्रायश्चित्तभेषजं समभिहितम्। तत्र कायोत्सर्गवक्तव्यत्ता कायोत्सर्गाध्ययनात्संगुह्यते / तत्रेद कायोत्सर्गमध्ययनमारभ्यते अस्य चायमभिसंबन्धः अनन्तराध्ययने वन्दनाद्यकरणादिना स्खलितस्य निन्दा प्रमिपादिता / इह तु स्खलितविशेषतोऽपराधव्रणविशेषसंभवादेतायता शुद्धस्य सतः प्रयश्चित्तभेषजेनापराधव्रणचिकित्सा प्रतिपाद्यते यथा प्रतिक्रमणाध्ययने मिथ्यात्वादिप्रातक्रमणद्वारेण कर्मनिदानप्रतिषेधः प्रतिपादितः / यथा चोक्तम् / "मिच्छत्तपडिक्कमणं, तहेव असंयमे पडिक्कमण / कसायाण पडिक्कमणं,जोयाणमप्पसत्थाण" मित्यादि। इह तु कायोत्सर्गकरणात् प्रागुपात्तकर्मक्षयः प्रतिपाद्यते वक्ष्यते च "जह करगओ णिक्तिइ, दारुइतो पुणो विवश्चंतो / इअ किंतति सुविहिआ, काउस्सग्गेण कम्माई। काउस्सग्गे जह मुट्ठिय स्स भजंति अंगुवंगाई। इअभिदंति सुविहिया, अट्ठविहं कम्म संघाय' मित्यादि। अथवा सामायिके चारित्रमुपवर्णितं चतुर्विंशतिस्तवे त्वर्हगुणस्तुतिः सा च ज्ञानदर्शनरूपा एवमिदं द्वितयमुक्तम् / अस्य च वितथासेवनमैहिकामुष्मिकापायपरिजिहीर्षुणा गुरोनिवेदनीयं तच वन्दनपूर्वमित्यतस्तन्निरूपितं निवेद्य भूयः शुभोऽवस्थानेषु प्रतिक्रमण