________________ कविल 390- अभिधानराजेन्द्रः - भाग 3 कविल मंदा निरयं गच्छंति, वाला पावियाहिं दीट्ठींहिं // 7 // श्राम्यन्ति मुक्त्यर्थं खिद्यन्त इति श्रमणाः साधवो मु इत्यमात्मनिर्देशार्थत्वाद्वयमित्येके केचन तीर्थान्तरीया वदमानाः स्वाभिप्रायमुद्दीपयन्तो “भासनोपसंभाषाज्ञानयत्नविमत्त्युपमन्त्रणेषु वदः"।१।११४७। इत्येन (पाणिनिवचनेन) आत्मनेपदम् / प्राणा उक्त्रूपास्तेषां बधो घातस्तमजानन्त इति संबन्धो मृगा इव मृगाः प्राग्वदज्ञा अजानन्त इति ज्ञपरिज्ञाया के प्राणिनः। केवा तेषां प्राणः कथंवा वध इत्यनवबुध्यमानाः प्रत्याख्यानपरिज्ञया च तद्धमप्रत्याचक्षाणोऽनेन च प्रथमव्रतमपि न विदन्त्यास्तां शेषाणीत्युक्तं भवत्यत एव मन्दा इव मन्दा मिथ्यात्वमहारोगग्रस्ततया निरयं पाठान्तरतो नरकं वा प्रतीतं गच्छन्ति यान्ति | बाला हेयोपादेय विवेकविकलत्वात् (पावियाहिति) प्रापयन्ति नरकमिति पापिकास्ताभिर्यद्वा पापा एवपापिकास्ताभिः परस्पर विरोधादिदोषात् स्वरूपेणैव कुत्सिताभिः मा हिंस्यात्सर्वा भूतानीत्याद्यभिधाय "श्वेतं छागमालभेत वायव्यां दिशि भूतिकाम" इत्यादिपरस्परविरुद्धार्थाभिधायिनीभिः पापहेतुभिर्वा पापिकाभिादृष्टिभिर्दर्शनाभिप्रायरूपाभिः "ब्राह्मणे ब्राह्मणमालभेत इन्द्राय क्षत्रं मरुद्भ्यो वैश्यं तपसे शूद्रम्" यथा यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत् / आकाशमिव पङ्केन, न स पापेन लिप्यते" इत्यादिकाभिर्दयादमवहिष्कृताभिस्तबहिष्कृतानां हि विविध वल्ककलवेषादिधारिणामपिन केनचित्पापात्परित्राणम्। तथा च वाचकः “चर्मवल्कलचीराणि, कूर्चमुण्डजटाशिखाः / न व्यपोहन्ति पापानि, सोधकौ तु दयादमा" विति सूत्रार्थः / अत एवाह / सूत्राकृत्नहु पाणवह अणुजाणे, मुचव्व कयाइ सव्वदुक्खाई। एवायरिहिं अक्खायं,जेहिं सो साधुधम्मो पण्णत्तो।। (नहु) नैव प्राणवधं प्राणघातं मृषाभाषाधुपलक्षणं चैतत् (अणुजाणेत्ति)अपिशब्दस्य लुप्तनिर्दिष्टत्वादनुजानन्नप्यास्तां कुर्वन् कारयन् वा मुच्येत त्यजेत / संभावने लिङ् ततो मुक्तिसंभावनापि नास्तीत्युक्तं भवति कदाचित् कस्मिंश्रिचदपि काले कैर्मुच्यते इत्याह / (सव्वदुक्खाणंति ) दुःखयन्तीति दुःखानि कर्माणि सर्वाणि च तानि दुःखानि च सर्वदुःखानि तैः सुब्वयत्ययाच्च तृतीयार्थे षष्ठी। यद्वा सर्वदुःखैर्नरकादिगतिभाविभिः शरीरमानसैः क्लेशैस्ततः प्राणतिपातनिवृत्ता एव चान्तरं तरन्ति न त्वितर इत्युक्तं भवति / किमेतत् त्वयैवोच्यते इत्याह (एवायरिएहिति) एवमुक्तप्रकारेणार्यः सकलहेयधर्मेभ्यो दूरं यातैस्तीर्थकरादिभिराचार्यव्याख्यातं कथितम्। ये कीदृशा इत्याह / वैराय राचार्यैर्वायं साधुधर्मो हिंसानिवृत्त्यादिः प्रज्ञप्तः प्ररूपितोऽयमित्यनेन चात्मनि वर्तमानं तेषां प्रज्ञाप्य चौराणां प्रत्यक्ष साधुधर्म निर्दिशतीति सुत्रार्थः। यद्येवं ततः किं कृत्यमित्याह-- पाणे यणाइवाएज्जा, सेसमीएत्ति वुचई। ताई त... से पावयं कम्म, निजाइ एदगं व थलाओ।। (पाणेयणाइवाएजत्ति) चशब्दो व्यवहितसंबन्धस्ततश्च प्राणानिन्द्रियपञ्चकादीन्नातिपातयेत् स्वयमिति गम्यते। च शब्दात्कारणानुमत्योरपि / निषेधो मृषावादादिनिवृत्त्युपलक्षणं चैतत् / किमिति प्राणान्नातिपात- | येदित्याह। यः प्राणान्नातिपातयिता स समितः समितिमानित्युच्यतेऽभिधीयते कीदृशः सन्नित्याह त्रायी त्ववष्यं प्राणित्राता समितत्वेऽपि को गुण उच्यते / तत इति तस्मात्समितत्वात् (से) इत्यघं पापकर्माशुभं कर्म ज्ञानावरणादि निर्याति निर्गच्छति। पठन्ति च “निण्णा" इति अत्रच देशीपदत्वादधो गच्छन्ति किमिवोदकमिव कुतः स्थलादत्युन्नतप्रदेशादनेन च पूर्वबद्धस्य कर्मणो भाव उक्तो न लिप्यते त्रायीति च बद्ध्यमानस्येति न पौनक्त्वं पापकग्रहणं चास्यावष्यतया भावख्यापकं पुण्यस्य हि संहननादिदोषात् मुक्त्यनवाप्तेर्दैवाद्युत्पत्तौ संभावोऽपि स्यादेवान्यथाहि पुण्यस्यापि स्वर्ण निगडप्रायतया विनिर्गम एव विमुक्तिरिति सुत्रार्थः / यदुक्तं"प्राणान्नातिपातयेति" तदेव स्पष्टयितुमाह / जगनिस्सिएहिं भूएहिं, तसना मेंहि थावरेहिं च।। नोतेसिमारभे दंडं, मणसा वयसा कायसा चेव // 10 // जगल्लोकस्तस्मिन्निश्रितान्याश्रितानि जगन्निःश्रितानि तेषु भूतेषू जन्तुषु (तसनामेसुत्ति) त्रयनामकर्मोदयवस्तु धीन्द्रियादिषु स्थावरेषु तन्नामकर्मोदयवर्त्तिषु पृथिव्यादिषु चः समुचये (नो) नैव (तेसिंति) तेषु रक्षीणीयत्वेन प्रतीतेः पारभेत कुर्याद्दण्डनं दण्डं स चेहातिपातात्मकस्तं (मणसा वयसा कायसाचेवत्ति) आर्षत्वान्मनसा वचसा कायेन चशद्रः शेषभङ्गोपलक्षकस्ततश्च यथा मनसा वचसा कायेन च दण्डं नारभयेत नवारभमाणानप्यन्याननुमन्येत एवोऽधारणे भिन्नक्रमश्चात एव नो इत्यस्यसनन्तरं योजितः / पठ्यते च "जगनिस्सियाण भूयाण तसाणं थावराण य / नो तसिमारभे दंडं ति" गतार्थमेव / अपरे तु "जगनिस्सीएहित्यादि" तृतीयान्ततयैयाधीयते / तत्र च जगनिश्रित"भूतैस्त्रसैः स्थावरैश्च हन्यमानो पीति शेषो नैव तेष्वारभेत दण्डमुज्जयनीश्रावकपुत्रवदत्रच संप्रदायः। “उज्जेणीए सावगसुओ चोरेहि हरिउं मालवगे सूयगारस्स हत्थे विक्कीओ लावगे मारयसुण मारयामिति हत्थी पादत्तासणं सीसारक्खकरणं चेति" स एवं प्राणत्यागेपि सत्वानुपरोधी एवमन्यैरपि यतितव्यमिति सूत्रार्थः / उक्ता मूलगुणाः। संप्रत्युत्तरगुणा वाच्यास्तेष्वप्येषणा समितिप्रधानति तामाह। सुद्धसणा उणचाणं तत्थ ठाविज्ज भिक्खु अप्पाणं / जायाए घासमेसिज्जा, रसगिद्धाण भिक्खाए॥११|| शुद्धाःशुद्धिमत्यो दोषरहिता इत्यर्थः। ताश्च ता एषणाश्चोद्रमैषणाद्याः शुद्धषणा यदिवैष्णाः सप्त संसृष्टाद्यास्तथा "संसट्ठमसंसट्ठा, उद्धऽतहप्पेलवडा चेवा उग्गहिया पग्गहिया, उज्झियधम्माय सत्तमिया" एतासु च शुद्वैष्णाः पञ्च जिनकल्पिका पेक्षमेतदुक्तं भवति तदधिकारे "पंचसु गहो दोसु अभिग्गहो त्ति" एतांश्च ज्ञात्वाऽवबुध्य किमित्याह / ज्ञानस्य फलं विरतिरिति। तत्रैषणासु स्थापयेन्निवेशयेद् भिक्षत इत्येव धर्मा तत्साधुकारी वेति भिक्षुः सन्नात्मानं स्वं किमुक्तं भवत्यनेषणापरिहारेण एषणा शुद्धमेव गृह्णीयात्तदपि किमर्थमित्याह (जायएत्ति) यात्रायै संयमनिर्वहण निमित्तं (घासंति) ग्रासमेषयेद्वेषयेदुक्तंहि "जहसगडक्खोवंगो, कीरइ भरवहणकारणा णवरं। तह गुणभरवहणत्थं आहारो बंभयारीणं"ति / एषणाशुद्धमप्यादाय कथं भेक्तव्यमिति ग्रासैषणामाह रसेषु स्निग्धमधुरादिषु गृद्धो गृद्धिमान् रसगृद्धो न स्यान्न भवेत् / (भिक्खाएत्ति) भिक्षादौ भिक्षाको वा अनेन रागपरिहार उक्तो