________________ कविल 386- अभिधानराजेन्द्रः - भाग 3 कविल किमुक्तं भवति निरतिचारचारित्रो भवत्यमुक्तस्नेहो हि कलत्राधविष्वगाद्दोषपदमतिचाररूपमाप्नुयात् भिक्षुरिति साधुः पाठान्तरश्च दोषप्रदोषैस्तत्र दोषैरिहैव मनस्तापादिभिः प्रदोषैश्च परत्र नरकागत्यादिभिरिति सूत्रार्थः। पुनर्यदसौ कृतवांस्तदाहतो नाणदंसणसमग्गे, हियिनिस्सेसाय सव्वजीवाणं। तेसि विमोक्खमट्ठाए, भासई मुणिवरो विगयमोहो / / ततोऽनन्तरं भाषते मुनिवर इति संबन्धः। स च कीदृगु ज्ञायतेऽनेन विशेषात्मना वस्त्विति ज्ञानं दृश्यते सामान्यरूपेण वस्त्विति दर्शनंताभ्यां प्रस्तावात् केवलभ्यां समग्रः समन्वितो यदि वा प्राकृतत्वात्समग्रे परिपूर्णे ज्ञानदर्शने यस्यासौ सम्यग्ज्ञादर्शनः किमर्थमसौ भाषत इत्याह (हियनिस्सेसा इति) सूत्रत्वाद्धितः पथ्यो भावारोग्यहेतुत्वान्निःश्रेयसो मोक्षो हितश्चासौ निःश्रेयसश्च हितनिश्रेयसस्तस्मै / यद्वा प्राकृतत्वोदेव निःशेष समस्तं हितं सम्यग्ज्ञानादितस्यैव तत्वतो हितत्वात्। ततो निःशेष च तद्धितं च निःशेषहितं तस्मै / कथं नाम निःशेषहितावाप्तिः स्यादिति चशद्रो भिन्नक्रमस्तेषामित्यत्र योज्यते केषां सर्वजीवानामशेषप्राणिनां तेषां च पञ्चशमसंख्यचौराणां विमोक्षणमष्टविधकर्मणः पृथक्करणं तदेवार्थः प्रयोजनं विमोक्षणार्थः तस्मै तन्निमित्तं भाषत इति वर्तमाननिर्देशः प्राग्वद् यद्वा भवति सतामतीतः प्राप्तो यो नाम वर्तमानत्वमिति वचनात्तस्यापि तदा वर्तमानतैवेति तत्कालत्वस्य विवक्षितत्वान्न दोषः मुनिवरो मुनिप्रधानः / विगतो विमष्टो मोहो यस्य यस्माद्वा स तादृक् इह च विगतमोहबचनेन चारित्रमुक्तं ननु “हियनिस्सेसाय सव्वजीवाणां ती" त्युक्तः "तेसिं विमुक्खणट्ठा इति" अतिरिच्यतेनतानेवोद्दिश्यास्य भगवतः प्रवृत्तिरिति प्रधानत्वात्पुनस्त द्विमोक्षणार्थताभिधानम् / दृश्यते हि ब्राह्मणः आयात विशिटोऽप्यायात इति सामान्योक्तावपि पुनः प्रधानस्याभिधनमिति सूत्रार्थः / यदसौ भाषते तदाहसव्वं गंथं कलह च, विप्पजहे तहविहं भिक्खु / सवेसु कामजाएसु पासमाणो न लिप्पई ताई ||4| सर्वमशेष ग्रन्थं बाह्यमाभ्यन्तरं च। तत्र बाह्यं धनाद्याभ्यन्तरं मिथ्यात्वादि कलहहेतुत्वात् कलहः क्रोधस्तं चशदात् मानादीश्चाभ्यन्तरं ग्रन्थरूपत्वेऽपि चैषां पृथगुपादानः बहुदोषख्यापनार्थम् (विप्पजहेत्ति) विप्रजह्यात्परित्यजेत्तथाविधमिति कर्मबन्धहेतुं न तु धर्मोपकरणमपीत्यभिप्रायः। पाठन्तश्च तथाविधी भिक्षुर्यतिः तस्यैवंविधधर्हित्यादेवमभिधानमन्योक्त्या वाऽत एवैवमुच्यते ततश्च किं स्यादित्याह / सर्वेष्वशेषेषु कामजातेषु मजोज्ञशद्वादीनां प्रकारेषु समूहेषु वा (पासमाणोति) पश्यन् प्रेक्षमाणो विपाकं कटुकात्मकं तद्विषयं दोषमिति गम्यते न लिप्यते कर्मणा नोपदिह्यते कामदोषज्ञस्य तेषु प्रायः प्रवृत्तेरभावादिति भावः तायते त्रायते वा रक्षति दुर्गतिरात्मानमेकेन्द्रियादिप्राणिनो वाऽवश्यमिति तायीत्रायी वेति सूत्रार्थः / इत्थं ग्रन्थत्यागिनो गुणमभिधाय व्यतिरो दोषमाह। भोगामिसदोसविसन्ने हि-अणिस्सेयसवुद्धिवोचत्थे। वाले य मंदिए मूढे, वज्वइ मत्थि जाव खेलंमि॥ भूज्यन्त इति भोगा मनोज्ञाः शदादयस्ते च ते आमिष चात्यन्तगृद्धिहेतुतया भोगामिषं तदेव दूषयत्यात्मानं दुःखलक्षण विकारकरणेन भोगामिषदोषस्तस्मिन् / विशेषेण सन्नो निमग्नो भोगामिषदोषविषण्णः / यद्वा भोगामिषारोषा भोगामिषदोषास्ते च तदासक्तस्य विचित्रक्लेशा अपत्योत्पत्तौ च तत्पालनोपायपरतया व्याकुलत्वादयस्तैर्विषण्णो विषादं गतो भोगामिषदोषविषण्णः आह च "जयाय कुकुडवस्स, कुतत्तीहि विहहम्मइ। हत्थीव बंधणे बद्धो, पसत्था परितप्पति / पुतदारपरिकिन्नो, मोहसंतसणं संतओ। पंकासन्नो जहा नागो, पसत्थापरितप्पई" (हियनिस्सेयस-बुद्धिवोचत्ति) हित एकान्तपथ्यो निःश्रेयसो मोक्षोऽन्योः कर्मधारये हितनिःश्रेयसौ / यद्वाहितो यथाभिलषितविषयावाप्तयाऽभ्युदयो निश्रेयसः स एव तयोर्द्वन्द्वस्ततश्च तत्र तयोर्वा वुद्धिस्तत्प्राप्त्युपाय-विषया मतिस्तस्या विपर्यस्तो विपर्ययवान् स वा विपर्यस्ता हितनिःश्रेयसबुद्धिर्यस्य सः विपर्यस्तहितनिःश्रेयसबुद्धिर्वा विपर्यस्तशदस्यतु परनिपातः प्राग्वत्। यता विपर्यसग हिते निःशेषा बुद्धिर्यस्य स तथा बालश्चाज्ञः (मंदिएत्ति सुत्रत्वान्मन्दो धर्मकार्यकरणं प्रत्यनुद्यता मूढो मोहाकुलितमानसः स एवंविधः किमित्याह / बध्यते श्लिष्यतेऽर्थात् ज्ञानावरणादिकर्मणा मक्षिकेव (खेले) श्लेष्मणि रजसेति गम्यते / इदमुक्तं भवति यथाऽसौ तत्स्निग्धतागन्धादिभिराकृष्यमाणा तत्र मज्जति मग्रा च रेवादिना बध्यत एवं जन्तुरपि भोगामिर्ष मग्नः कर्मणेति सूत्रार्थः / ननु यद्येवममी भोगाः कर्मबन्धकारणं किं नैतान् सर्वेऽपि जन्तवस्त्यजन्तीत्याहदुप्परिचया इमे कामा, णो सुजहा अधीरपुरिसेहिं। अह संति सुव्वया साहू, जे तरंति अतरं वणिया वा / 6 / दुःखेन कृच्छ्रेण परित्यज्यन्तेपरिहियन्ते इति दुष्परित्यजा इमे प्रत्यक्षत उपलभ्यमानाः कामभोगा नो नैच (सुजहत्ति) सुत्रत्वात्सुखेनानायासेन हीयन्ते इति सुहानाः सुत्यजा विषसंपृक्तस्निग्धमधुरान्नवत् / कैरधीरपुरुषैरबुद्धिमद्भिरसत्वैर्वा नरैः पुरुषग्रहणं तु ये तावदल्पवेदोदयतया सुखेनैव त्यत्कारः संभवन्ति तैरप्यमी न सुखेन त्यजन्त इत्यास्तामतिदारुणस्वीपण्डकवेदोदयाकुलितैः स्त्रीनपुंसकैरिति। यच्चेह दुष्परित्यजा इत्युक्त्वा पुनर्न सुहाना इत्युक्तं तदत्यन्तदुस्यजताख्यापकं प्रपञ्चितज्ञ-विनयानुग्रहाकं चेत्यपुनरूक्तमेव 1 अधीरग्रहणेन तु धीरैः सुत्याज्याएवेत्युच्यते अतएवाह अथेत्युपन्यासे सन्ति विद्यन्ते शोभनानि सम्यग्ज्ञानाधिष्ठितत्वेन व्रतानि हिंसाविरमणादिनि येषांते सुव्रताः / शान्त्या चोपालतिाः सुव्रता शान्तिसुव्रता। इह च सन्तीति शेषः / साधयन्ति पौरुषेयीभिः क्रियाभिर्मुक्तिमिति साधवो ये किमित्याह ये तरन्तिपरंपरावप्त्यातिक्रामन्ति कमतरं तरीतुमशक्यं विषयगणं भवं वा क इव वणिज इव चशद्वस्यैवार्थत्वात्। यथाहि वणिजोऽतरं नीरधिया न पात्रादिनोपायेन तरन्त्येवमेतेऽपि धीराव्रतादिनोपायेनोक्तरूपमतरमधीरैरेवोक्तनीतितोऽस्य दुस्तरत्वात् / पठन्ति च (जे तरंति वणिया व समुदं ति) स्पष्ठ उक्तंच केनचित् “विषयगणः कापुरुषं करोति वशवत्तिनं नसत्पुरुषम्। बध्नाति मसकमेव हि, लूतान्तुर्नमातङ्ग' मिति सुत्रार्थः। किं सर्वेऽपि साधवोऽतरं तरन्त्युत नेत्याहसमणा मु एगे वयमाण, पाणवहमिया अयाणंता।