________________ कविल 388 - अभिधानराजेन्द्रः - भाग 3 कविल वर्त्तते तयोः कपिलनामा पुत्रोऽस्ति तस्मिन् कपिले बाले एव सति काश्यपो ब्राह्मणः कालं गतः तदधिकारो राज्ञाऽन्यस्मै ब्राह्मणाय दत्तः / सोऽश्वारूढछत्रेण ध्रियमाणेन नगरान्तर्वजति / एकदा तं तथा व्रजन्तं दृष्ट्वा यशा भृशं रूरोद कपिलेन पृष्ट मातः ! किं रोदषीति सा प्राह वत्स तव पिता ईदृश्या त्राद्ध्या पुरान्तर्भमन्नभूत मृते च तव पितरि त्वयि चाविदुषि सति अयं तव पैत्र्यं पदं प्राप्तस्ततो रोदिमि कपिल ऊचे अहं भणामियशा आह पुत्र ! अत्र तव न कोऽप्येतद्रीत्या पाठयिष्यति इतस्त्वां श्रावस्त्यां व्रज तत्र त्वत्पितृमित्र इन्द्रदत्तो ब्राह्मणस्त्वां पाठयिष्यति / कपिलः श्रावस्त्यांतत्समीपंगतः तेन पृष्ट कस्त्वं कुता आयातः। कपिलेन सर्वेस्वस्वरूपमूचे तेन मित्रपुत्रत्वात्सविशेष पाठ्यते परं स्वगृहे भोजनं तस्य कारयितुं न शक्यते ततोऽनेन शालिभद्रनामा तत्रत्यो व्यवहारी प्रार्थितः यथाऽस्य त्वया निरन्तरं भोज्यदेयं त्वत्प्रसादा-निश्चिन्तोऽसौ पठति तेनापि प्रतिपन्नम् / कपिलः शालिभद्रगेहे प्रत्यहं भुंक्ते इन्द्रदत्तगुरुसमीपेऽध्ये ति / शालिभद्रगृहे चैका दासी वर्तते दैवयोगात्तस्यामसौ रक्तोऽभूत् / अन्यदा सा गर्भिणी जाता कपिलं प्रत्याह / अहं तंव पत्नी जाता ममोदरे त्वद्गर्भो जातः अतस्त्वया मे भरणपोषणादि कार्यम्। कपिलस्तद्वचनश्रवणाद् भृशं खिन्नः परमामधृति प्रापन च तस्यां रात्रौ निद्रां प्राप / पुनस्तया भगित स्वामिन् ! खेदं मा कुर्याः मदुक्तमेकमुपायं शृणु धननामा श्रेष्ठी वर्तते तस्य यः प्रथमं प्रभाते गत्वा वर्धापयति तस्य सुवर्णं माषद्वयं ददाति ततस्त्वमद्य प्रभाते गत्वा प्रथम वर्धापय यथा सुवर्णमाषद्वयं प्राप्नुयाः। कपिलस्तस्या वचः श्रुत्वा मध्यरात्रावुत्थितस्तस्य धाम्नि अपरः कश्चिन्मा प्रथमं यायादिति मत्वौत्सुक्येन गच्छन् कपिलः पुरा रक्षकैर्गृहीजः चौरधिया क्वः प्रभाते पुरस्वामिनः पुरो नीतः। पुरः स्वामिना पृष्टं कस्त्वं किमर्थमर्द्धरात्रौ निर्गतस्तेन सकलं स्वरूपं प्रकटीकृतम्। सत्यवादित्वात्तस्य तुष्टो राजा प्राहा यत्त्वं मार्गयसि तदहं ददामि। स प्राह / विमृश्य मार्गयिष्यामि राजा प्राह / या हि अशोकवनिकायां विचारय स्वेष्टम् / कपिलस्तत्र गत इति चिन्तयितुमारब्धवान्चेदहं सुवर्णमाषद्वयं मार्गयामि तदा तस्या दास्याः शाटिका मात्रं जायते न तु आभरणानि। ततः सहस्रं मार्गयामि। तदापि तस्य आभरणानि न जायन्त ततोऽहं लक्षं मार्गयामि तदापि मम जात्यतुरङ्गमोत्तमगजेन्द्रप्रवररथादिसामग्री न जोयते ततः कोटिं मार्गयामीति चिन्तयन्नेव स्वयं संवेगमागतः।सुवर्णमाषद्वयार्थ निर्गतस्यापि मम कोट्यापि तुष्टिर्न जातेति धिगिमां तृष्णामिति विचार्य स्वमस्तके लोचं कृतवान् / शासनदेवतया तस्य रजोहरणादिलिङ्गमर्पित कपिलो द्रव्यभावाभ्यां यतिर्भूत्वा राज्ञः पुरः समागतः राज्ञा भणितं त्वया विचरितम् / आह स “जहा लाहो तहा लोहो, लाहालोहो पवड्डइ / दोमासकणयं कजं, कोडीए विन निट्ठिय" मिति। विचाहिं त्यक्ततृष्णः संयमी जातः। राज्ञोक्तं कोटिमपि तवाहं ददामि तेनाक्तं सर्वोऽपि परिग्रहो मया व्युत्सृष्टो न मे कोट्यापि कार्यमित्युक्त्वा स श्रमणस्ततो विहृतः षण्मासान् यावत् छद्मस्थ एवासीत् पश्चास्केवली जातः / इतश्च राजगृहनगरान्तरालमार्गे बलभद्रप्रमुखाश्चौराः सन्ति एतेषां प्रतिबोधो मत्तो भविश्यतीति ज्ञात्वा स कपिलः केवली गतः तैर्दृष्टः प्रोक्तश्चः / भोः श्रमणः ! नृत्यं कुरु केवली प्राह / वादकः कोऽपि नास्ति ततस्ते ' पञ्चशतचौरास्तालानि कुट्टयन्ति कपिलकेवली गायति / उत्त० अ० | तद्गीतवृत्तमाह। अधुवे असासयंमि, संसारम्मि दुक्खपउराए। किं नाम होज तं कम्मयं ,जेणाहं दुग्गई न गच्छेज्जा / / सो हि भगवान्। कपिलनामा स्वयं बुद्धचोरसंघातसंबोधनायेमं ध्रुवकं संगीतवान् / ध्रुवकलक्षणं चेदम् "ज गिज्जइ पुव्वंचिय, पुणो पुणो सव्वकम्मबंधेसु। धुवयंति तमिह तिविहं, कप्पाय चउप्पयं दुपयंति" तत्र ध्रुवो य एकास्पदप्रतिबद्धो न तथा ध्रुवस्तस्मिन् संसार इति संबन्धः / भ्रमति ह्यस्मिन्ननेकेषूचावचस्थानेषु जन्तव इति तेषां क्वचिदनुपूर्वत्वाभावादुक्तं च वाचकैः "रंगभूमिर्न साकाचित्, शुद्धा जगति विद्यते। विचित्रैः कर्मनेपथ्यै, यंत्र सत्वैर्न नादित" मिति / सास्वतं नित्यमविद्यमानं सास्वतमस्मिन्नित्यशास्वतस्तस्मिन् / संसार एवासास्वतं हि समलमिह राज्यादि तथा आह हारिलवाचकः “चलं राज्यैश्वर्य धनकनकसारं परिजनो, नृपत्वं चाचल्ये चलममरसौख्यं च विपुलम् / चलं रूपारोग्यं चलमिह वरं जीवितमिगं, जनो दृष्टो ये वै जनयति सुखं सोऽपि हि चलः।” यद्वा ध्रुवो नित्यो न तथा ध्रुवस्तस्मिन्नेवं च कियत् कालावस्थायित्वमप्यासक्येत। अत आह शश्वद्गवनाच्छाश्वतो न तथा शाश्वतस्तस्मिन् शश्वद्भवने हि ह्यादिक्ष्णावस्थितिरपि संभवेत्तन्निषेधेतु तस्या अपि निषेधात्पर्यायार्थतया तडित्संपात वत्क्षणमात्रावस्थायिनीत्युक्तं भवति एकार्थ वा पदद्वयमुपदेशत्यादतिशयख्यापकत्वाच्च न पौनरुक्त्यम्। क्व पुवरीदृशि संसरन्त्येतस्मिन् स्वकर्मवशवर्तिनो जन्तव इति संसारस्तस्मिन् (दुःखपउराएत्ति) प्रचुराण्येव प्रचुरकाणि प्रभूतानि दुःखानि शरीरमानयानि यस्मिन् स तथा। तस्मिन् प्राकृत्याच सूत्रे एवं निर्देशो यद्वा दुःखनां प्रचुर आयो लाभो यस्मिन् स तथा तस्मिन् / किमिति प्रश्ने नामेति संभावनायां वाक्यालंकारका भवेत् स्यात्तत्क्रियत इति कर्म तदेव कर्माकमनुष्ठानं यत्। कीदृगित्याह येन कर्मणा हेतौ तृतीया अहमित्यात्मानं निर्दिशति दुर्गतिं नरकादिकं न गच्छेयं न यायाम! पठन्ति च (जेणाहं दोगती उ मोचेज त्ति) सुगममत्र भगवतः छिन्नसशयत्वे मुक्तिगामितया दुर्गत्यसत्वेऽपि च प्रतिबोध्य पूर्वसंगति कापेक्षमित्थमभिधानम्।नागार्जुनीयास्तुप्रथमपदमेवं पठन्ति (अधुवंमि मोहम्गहणाए)तत्र मुह्यतेऽनेन जानन्नपि जन्तुरिति मोहो दर्शनमोहनीयादि तेन गहनो गुपिलो मोहगहनः स एव मोहगहनकस्तस्मिन्निति सूत्रार्थः / एवं च भगवतोद्गीते तेऽप्येनमेव धुवकं प्रत्युद्गायन्ति तालं च कुट्टयन्ति तैश्य प्रत्युद्गीते भगवानाह। विजहित्तु पुव्वसंजोगं,न सिणेहं कहिंवि कुविजा। असिणेहसिणेहरेहिं, दोसपदोसेहिं मुचए भिक्खू / / विहाय विशेषेण तदननुस्मरणाद्यात्मके न हित्वा कमित्याह पुरा परिचिता मातृपित्रादयः पूर्वाशद्रेनोच्यन्ते ततस्तैरुपलक्षणत्वादन्यैश्च स्वजनधनादिभिः संयोगः संबन्धः पूर्वसंयोगस्तं ततः किमित्याह न स्नेहममिष्वङ्ग क्वचिद्वाह्ये वस्तुनि अभ्यन्तरे वा (कुविज्जत्ति) कुर्वीत तथा च कोगुण इत्याह। (असिणेहत्ति) प्राकृतत्वाद्विसर्जनीयलोपे स्नेहे विद्यमानप्रतिबन्धः (सिणेहकरोहिंति) सुब्व्यत्ययादपेर्गम्यमानत्वाच स्नेहक रणशीलेष्वपि पुत्रकलत्रादिष्वास्तामन्येष्वपीत्यपिशदार्थो दोषपदैरपराधस्थानैर्मुच्यतेतत्पद्यते