________________ कविट्ठ 387- अभिधानराजेन्द्रः - भाग 3 कविल कविठ्ठपुं०(कपित्थ) कपिस्तिष्ठत्यत्र तत्फलप्रियत्वात् स्था कपुषो०वाचा (कवीठ) बहुबीजकवृक्षभेदे, आचा०१ श्रु०१ अ०५उ० जी० ज०) प्रज्ञा०। उत्त। अस्य फले, न० "अद्धकविठ्ठगसंठाणसंडिया" प्रज्ञा०२ पद / कपेरिव लम्बते कपित्थम्, अनु०। कायोत्सर्गदोषभेदे "छप्पइ आणभएणं कुणइ अपट्ठ कविट्ठ व आव०५ अ०। षट्पदिकानां भयेन कपित्थवृत्ताकारत्वेन संवर्त्य जङ्घादिमध्ये पदं कृत्वा तिष्ठत्सर्गे इति कपित्थदोषः, प्र०५ द्वा० कविल पुं०(कपिल) सांख्यशास्त्रप्रवर्तके मुनौ, वाच० कापिलानां देवतरि, औ०। सूत्रका कपिलानां शास्त्रं द्विविधं सेश्वरं निरीश्वरं च तत्र सेश्वरं सांख्यं भगवदवतारः कपिलः प्राणीतवां निरीश्वरं सांख्यं तु अग्यवतारः कपिल इति साख्यशस्त्रानुयायिनः, वाचा समयविदस्तु अपगतरोगस्य च मरीचेः कपिला नाम राजपुत्रो धर्मशुभूषया तदन्तिकमागत इति कथिते साधुधर्मे स आह / यद्ययं मार्गः किमिति भवतैतदङ्गीकृतम्। मरीचिराह "पापोहं लोइंदिएत्यदि" विभाषा पूर्ववत् कपिलोऽपि कर्मोदयात्साधुधानभिमुखः खल्वाह तथापि किं भवद्दर्शनेनास्त्येव धर्म इति मरीचिरपि प्रचुरकर्मा खल्वयं नतीर्थकरोक्तं प्रतिपद्यतेवरं मे सहायः संवृत्त इति संचिन्त्याह / कपिलाः (एत्थं पि ति) अपिशवस्यैवकारार्थत्वान्निरुपचरितः खल्वत्रैव साधुमार्गे (इहई पित्ति) स्वल्प स्त्वत्रापि विद्यत इतिगाथार्थः / स ह्येवमाकार्यः तत्सकाशतेव प्रजितः / / 5 / / (आ०म०) कपिलोऽपि ग्रन्थार्थपरिज्ञानशून्य एव तद्दर्शितक्रियारतो विजहार आसुरनामा च शिष्योऽनेन प्रवाजित इति तस्य स्वमाचारमात्रं दिदेश एवमन्यानपि शिष्यान्संगृह्य शिष्य प्रवचनानुरागतत्परो मृत्वा ब्रह्मलोक एवोत्पन्नः स युत्पत्तिसमनन्तर मेवावधिं प्रयुक्तवान् किमया हुतं वेष्ट वा दानं येनैषा दिव्या देवर्द्धिः प्राप्तेति स पूर्वाभवं विज्ञाय चिन्तयामास मम शिष्यो न किंचिद्वेत्ति तत्तस्योपदिशामितत्वमिति तस्मै आकाशस्थपञ्चवर्णमण्डल कस्स्थत्वं जगाद कविलो अंतट्टिओ कहए" कपिलः अन्तर्हितः कथितवान् किमव्यक्ताद् व्यक्तं प्रभवति ततः षष्टितन्त्रं जातं तथाचाहुस्तन्मतानुसारिणः प्रकृतेमहांस्ततोऽहंकारस्तस्माद्गणश्च षोडशकः / तस्मादपि षोडशकात् पञ्चभ्यः पञ्चभूतानीत्यादि" अलं विस्तरेण प्रकृतं प्रस्तुम इति गाथार्थः, आ०म०प्र० आ०चू०। (संखशद्रे सर्वमतमुपपादयिज्यामि) जीर्णे भोजनमात्रेयः, कपिलः प्राणिनां दया / वृहस्पतिरविश्वासः, पञ्चालः स्त्रीषु मार्दवम् / आ०म०द्वि० काश्यपब्राह्मणस्य यशानाम्न्यां ब्राह्मण्यां जाते पुत्रे, कपिलनिक्षेपमाहनिक्खेवो कविलम्मि, चउविह दुविहोय होइ दवम्मि। आगम नो आममतो, नोआगमतो य सो तिविहो।। निक्षपोन्यासः कपिले कपिलविषयश्चतुःप्रकारो नामस्थापना द्रव्यभावभोदात्तत्राद्ये प्रतीते द्विविधो द्विभेदो भवति द्रव्य इति द्रव्यविषये। द्वैविध्यमेवाह आगमतो नोआगमतस्तत्रागमतो ज्ञातानुपयुक्तो नो आगमतश्च स द्विविधस्त्रिभेद इति गाथार्थः॥ त्रैविध्यमेवाहजाणगसरीरभविए, तय्वरित्ते य सो पुणो तिविहो। एामवियवद्धाउय, अमिमुहो नाम गोए य॥ कपिलशदार्थज्ञशरीरं पश्चात् कृतपर्यायं ज्ञशरीरमुच्यते तदेव | द्रव्यकपिलाः (भवियत्ति) भव्यशरीर पुरस्कृतकपिल शदार्थज्ञानात्मकपर्यायं द्रव्यकपिलतदव्यतिरिक्तश्च सः / तद्यतिरिक्तः द्रव्यकपिलः पुनस्त्रिविधस्त्रिभेदस्वैविध्यमेवाह / एकभविको वद्धायुष्कोऽभिमुखनामगोत्रश्चेति गाथार्थः। भावकपिलताहकविलाउनामगोयं, वेयंतो भावतो भावे कविलो। तत्तो समिद्धियमिण, अज्झयणं काविलिज्जति / / कपिलायु मगोत्रं वेदयन् अनुभवन् भावतो भावमाश्रित्य भवेत्कपिलस्ततस्तस्मात् समुत्थितमिदं प्रस्तुतमध्ययमम् (काविलिऑति) कापिलीयमित्युच्यते इति गाथार्थः / कथं पुनरिदं कपिलात्समुत्थितमित्याहकोसंवि कासवजसा, कविलो सावित्थि इंददत्ते य। इन्भे य सालिमद्दे,धरासिट्टियसेणई राया ||8|| कविलो निञ्जिय परिवे-सिया य आहारमित्तसंतुट्ठो। वावरिओ य दुहिमा-सएहिं सो निम्गतो रत्तिं ||6|| दक्खित्तं पच्छेत्तो, बद्धोय हतो य पि उरन्नो। रायासे देइ वरं किं देमि केण ते अट्ठो 180|| श्रलोको भणतिजहा लाहो तह-लोहो, लाहालोहो पवइ। दो मासकणय कजं, काडीए विन ट्ठियं // 61|| कोडी विदेमि अओ-त्ति भणइ राया पहहमुहवन्नो। सोवि चइऊण कोडिं, जाउं समणो समियपावो ||2| छम्मासे छउमत्थे, अट्ठारस जोयणाइ रायगिहे। बलभद्दप्पमुहाणं, अक्कडदासाण पंच सया ||3|| आसामक्षरार्थः सुगम एव नवरं (निञ्जियपरिवेसियायत्ति) नैत्तिकपरिवैषिकतया प्रतिदिननियुक्त भक्तदात्र्या वा (वारिउत्ति) व्यापारितोनियुक्तः (दुहिं मासेहिं ति)द्वाभ्यां माषकाभ्यांतादर्थ्य चतुर्थि (दक्षिणति) प्राकृतत्वात् दक्षिणां (पहट्ठमुहवण्णति) प्रहृष्टः प्रहर्षवान् मुखवर्णो मुखछाया यस्य स तथा मुखस्य प्रहृष्टत्वादुपचारात्तद्वर्णोऽपि प्रहृष्टः उक्तः / यद्वा प्रहृष्ट मुखस्येव मुखवर्णो यस्य स तथा / मयूरव्यंसकादित्वात्समासो मानसत्वाच्च हर्षादीनां मुखस्यापि हृष्टत्वं रूढित इति भावनीयम्। इक्कडदासजातीनाम् अतिशेषे अतिशये (होही अट्ठो इमो त्ति) भविष्यत्यर्थः / प्रयोजनमयं पूर्वसंगतिकचौरशतपञ्चकप्रतिबोध लक्षण इति ज्ञात्वा च (अद्धाणगमणचिंतति) अध्वा गार्गस्तद्गमने चित्तमभिप्रायोऽध्वगमनचित्तं तत्करोतीव करोति तत्वतो हि के वलित्वेनामनकत्वान्न तस्याभिप्रायकरणसंभवः (धम्मट्ठयत्ति) आर्षत्वाद्धार्थतत्वावबोधतस्तेषां धर्मः स्यादित्येवमर्थ (गीयन्ति) चास्य गम्यमानत्वात् गीतं च स्वरगामानुगतगीतिकानिबद्धमिदमेवाध्ययनं करोतीति योगो वर्तमाननिर्देशस्तु सूत्रस्य त्रिकालगोचरतामाह / यदिवा गीतमिति स्वराद्यनुगमनेन शद्वितमिदमध्ययनमिति गम्यते भावार्थः कथानकादवसेयस्तत्र च संप्रदायः 23 उत्त०८ अगायथा कौशाम्ब्यां नगर्या जितशत्रू राजा राज्यं करोति तत्र काश्यपो ब्राह्मणः चतुर्दशविद्यास्थानपारगः पौराणां राज्ञश्चातीव सम्मतः तस्य राज्ञा महती वृत्तिर्दत्ता काश्यपव्राह्मणस्य यशा नाम्नी भार्या