________________ करण 368 - अभिधानराजेन्द्रः - भाग 3 करण पर्यायापेक्षया तथा भवनमभिप्रेतं द्रव्यकरणे तद्रव्यस्यैव तथा तथोत्पादो द्रव्यास्तिकमतापेक्षयेति विशेषः / उक्तं च "अपरप्पओगंज जं, अजीवरूपादि पज्जया वत्थं / तमजीवभावकरणं, तप्पज्जाअप्पणावेक्खं / को दय्वविस्ससाकरणाउ, विसेसो इमस्सणणु भणियं / इह पज्जवविक्खाए, दव्वट्ठियनयमयं तं च” इती गाथार्थः॥ ननुतर्हि द्रव्यविस्रसाकरणादस्य को भेद इत्याशङ्कयाह। (तप्पज्जायपप्पणावेक्खंति) तेषामजीवानां पर्याया रूपादयस्तत्पर्यायास्तेषा-मर्पणं प्राधान्येन विवक्षणं तत्पर्यायार्पणं तस्यापेक्षा यत्रतत्पर्यायार्पणापेक्षम्। इदमुक्तं भवति / पूर्वं द्रव्यप्राधान्यविवक्षया द्रव्यविस्रसाकरणमिह तु रूपरदिपर्यायप्रा-धान्यमपेक्ष्यैतदेव भावकरणामभिहितमिति इदं च "तप्पञ्जायप्पणावेक्ख" मित्येनेन दत्तमप्युत्तरमनवगच्छतः परस्य मतमाङ्याहको दव्ववीससाकरणाउ, विसेसा इमस्स नणु भणियं / इह पजायावेक्खा, दवट्ठियनयमयं तं च // गतार्था / अथाजीवकरणमाहइह जीवभावकरणं, सुयकरणं सुयाभिहाणं च / सुयकरणं दुवियप्प, लोइयलोउत्तरं चेव॥ वद्धाबद्धं च पुणे, सत्थासत्थोवए सभेया उ। एकेकं स द्दनिसी-हकरणभेयं मुणेयव्वं / / जीवस्य भावो जीवभावस्तस्य करणं जीवभावकरणं तच द्विविधं श्रुतज्ञानभावकरणं नोश्रुताभिधानं चनोश्रुताानभावकरण चेत्यर्थः। आह ननु यथा श्रुतज्ञानं जीवस्य भावस्तथा शेषज्ञानान्यापि विद्यन्ते ततो मत्यादिज्ञानभावकरणमपि कस्मान्नोक्तम्। सत्यं किंतु यथा परायत्तत्वाद् गुरूपदेशादिना श्रुतज्ञानं क्रियते नैवं शेषज्ञानानि तेषां स्वाचरणक्षयोपशमक्षयाभ्यां स्वत एव जायमानत्वादेवं सम्यक्त्वादयोऽपि जीवनभायानैकान्तेन परायत्तास्तेषां नारकादिष्वन्यथा भावदिति / श्रुतज्ञानकरणममिति द्विविधं लौकिकं, लोकोत्तरं च / पुनरप्येकैकंद्विधा बद्धमबद्धं च / तत्र गद्यपद्यरूपतया रचितं बद्धम्। इदं च शास्त्रोपदेशरूपं भवति यत्पुनरशास्त्रोपदेशरूपं कण्ठादेव स्तूयते तदबद्धम्।इंच बद्धं च एकैकं द्विधा भवति शब्दकरणं निशीथकरणं चेति। अथ शब्दकरणस्य निशीथकरणस्य च व्याख्यानमाहउत्तीउ सद्दकरणं, पगासपाठं च सरविसेसो वा। गूढत्तं तु निसीहं, रहस्ससुत्तत्थमहवा जं / / (उत्तीउ सद्दकरणंति) उक्तिविशेषः शब्दकरणमथवा प्रकाशपाठं शब्दकरणं यदि वा उदात्तादिस्वरविशेषः शब्दकरणमुच्यते इति / गूढो गुप्तोऽनवगम्यमानोऽर्थोऽस्य तद्गढार्थं पुनर्निशीथकरण मुच्यते। अथवा यद्रहस्यसूत्रार्थ तन्निशीथकरणमुच्यते यथा निशीथाध्ययन रहस्यमप्रकाश्यं सूत्रमर्थश्च यस्य तद्रहस्यसूत्रार्थ मिति समासः। किं पुनस्तल्लौकिकं लोकोत्तरं वा बद्धश्रुतमित्याहलोए अणिबद्धाई, अनिडियपचड्डियाइँ करणाई। पंचादेससयाई,मरुदेवाईणि उत्तरिए। लोके अनिबद्धान्युपदेशमात्ररूपाणि न पुनः शास्त्रनिवद्धानि मल्लानांकरणविशेषरूपाण्यनिड्डिकादिपंत्यड्डिकादीनि विज्ञेयानि / लोकेत्तरे त्वनिबद्धानि पञ्चशतान्यादेशानां बोद्धव्यानि (सरूदेवाईणित्ति) तरंदेव्यादेश आदौ येषां तानि मरुदेव्यादीनि पश्चादेशशतानि यथा अत्यन्तस्थावरा अनादिवनस्पति कायादुद्वृत्त्य मरुदेवी प्रथमजिनमाता सिद्धेति। यदुक्तं "उत्तीउसद्दकरणमित्यादि" तत्र प्रेयं परिहारं चाह। भावकरणादिगारे, किमिहं सद्दाइदव्वकरणेणं / भण्णइ तत्था वि भावो, विवक्खिओ तट्विसिट्ठो उ।। नन्विह भावकरणाधिकारे किमप्रस्तुनेन शब्दादिद्रव्यकरणोपन्यासेन आदिशब्दगतानेकभेदेसंग्राहकः भण्यते अत्रोत्तरं तत्रापि शब्दद्रव्यकरणे भाव एव भावश्रुतमेव विवक्षितं कथंभूतो भावस्तद्विशिष्टः धब्दविशिष्टः। अयमभिप्रायः प्रकाशपाठादिके शब्दकरणेऽपि न केवलं शब्द एव विवक्षितः किं तु यत्तस्य कारणरूपं कार्यरूपं च भावश्रुतं तदेव शब्दविशिष्टमिह विवक्षितमित्यदोष इति। उक्तं श्रुतकरणम्। अथ नोश्रुतकरणमाहनोसुयकरणं दुविहं, गुणकरणं जुजणाभिहाणं च / गुणकरणं तवसंजम-करणं मूलुत्तरगुणं वा / / नो शब्दस्य सर्वनिषेधवचनाच्छुतव्यतिरिक्तं यत्तपःसंयमादिरूपस्य जीवभावस्य करणं तन्नोश्रुतभावकरणम् तच्च द्विविधं गुणकरणं तथा (जुंजणाभिहाणं ति) युज्यन्त इति योगामनःप्रभृतयस्तेषां यत्करण यद्योजनाभिधानं करणमिति तत्र गुणकरणं तपःसंमयोः करणम्। अथवा मूलगुणकरणमुत्तरगुणकरणं च गुणकरणमुच्यत इति। अथ योगकरणव्याख्यानमाह - मणवयणकाकिरिया, पन्नरसविहा उ झुंजणाकरणं / सामाइयकरणमिणं, किं नामाईण होजाहिं / / सत्यादिभेदतश्चतुर्विधं मनः चतुर्विधं वचनमौदारिकमिश्रादि भेदात्सप्तविधः कायः इत्येवमेतत्रियाऽपिपञ्चदशविधा योजनाकरणत्वेनावगन्तव्या तदेवमवसित भावकरणम्। तदवसाने चोक्तं नामादिभेदतः षड्विधमति करणमिति, विशे० आ० म० द्वि०ा उत्त०। आवा प्रकारान्तरेण भावकरणप्रतिपादनायाह - भावे पओगवीसस, पओगसामूलउत्तरे चेव। उत्तरकमसु य जोवण-वण्णादी भोअणाईसु // 14|| (भावे पओगेत्यादि) भावकरणमपि द्विधा प्रयोगनिसाभेदातः। तत्र जीवाश्रितं प्रायोगिकं मूलकरणं पञ्चानां शरीराणां पर्याप्तिस्तानि हि पर्याप्तिनामकर्मोदयादौदयिके भावे वर्तमानो जीवः स्ववीर्यजनितेन प्रयोगेण निष्पादयति / उत्तरकरणं जु गाथापश्चार्द्धनाह / उत्तरकरण क्रमश्रुतयौवनवर्णादिचतूरूपम् तत्र क्रमकरणं शरीरनिष्पत्त्युत्तरकालं बालयुवस्थविरादिक्रमेणोत्तरोत्तरोऽस्थाविशेषः / श्रुतकरणं तु व्याकरणादिपरिज्ञानरूपोऽवस्थाविशेषोऽपरकलानां परिज्ञानरूपश्चेति / यौवनकरणं कालकृतो वयोऽवस्थाविशेषो रसायनाद्यापादितो वेति / तथावर्णगन्धरसस्पर्शकरणं विशिष्टेषु भोजनादिषु सत्सुयद्विशिष्टवाद्यापादनमित्येतच पुद्गलविपाकित्वाद्वर्णादीनामजीवाश्रितमपि द्रष्टव्यमिति ||14|| इदानीं विस्रसाकरणमभिधित्सयाऽऽह - वण्णादिया य वण्णादिएसु जे केइ वीससा मेला। ते हुति थिरा अथिरा, छायातवदुद्धमादीसु।।१५।।