________________ कयण्णू 353 - अभिधानराजेन्द्रः - भाग 3 कयण्णू धन्याऽस्मि कृतकृत्याऽस्मि, यद् दृष्टस्त्वं मयाऽनघ ! त्वं जानासि मां वत्स ! लघुर्मुक्तोऽसि यत्तदा // 226 / / अहं हि बुधराजस्य, सर्वकार्येषु संमता। धिषणाया वयस्याऽस्मि, नाम्ना माग्नुसारिता // 230 // अतो मे भागिनेयस्त्वं, सुन्दरं कुतवानसि। यद्देशदर्शनाकासी, नगरेऽत्र समागमः।।२३१।। येदेनं नगरं दृष्ट, भूरिवृतान्तसंयुतम्। तेन वत्सेक्षितं सर्व,भुवनं सचराचरम्।।२३।। मयोक्तमम्ब ! सद्येवं तन्मे संदर्शयाधुना। पुरमेतत्तथैवाम्बा, मम सर्वमदीदृषत्॥२३३॥ अथकत्र मया दृष्ट, पुरं तत्र महागिरिः। तच्छिखारेऽतीव रम्य, निविष्टमनरं पुरम्॥२३४|| मयोक्तमम्ब ! किं नाम, पुरमेतदवान्तरम्। किं नामायं गिरिः किं च, शिखरे दृश्यते पुरम्॥२३५॥ अम्बा जगाद वत्सेद, पुरं सात्विकमानसम्। विवेकोऽयं गिरिश्रृङ्गमप्रमत्तत्वमित्यदः // 236 / / इदं तु भुवानख्यातं, वत्स! जैन महापुरम्। तव विज्ञातसारस्य, कथ प्रष्टव्यतां गतम।।२३७॥ यावत्सा कथत्येवं, तात! मह्यं फुटाक्षरम्। तावजातोऽपरस्ततत्र, वृत्तान्तः श्रूयतास तु॥२३८|| गाढं प्रहारनिर्भिन्नो, नीयमानः सुविज्वलः। पुरुषैर्वेष्टितो व्यक्षि, मयैको राजादारकः // 236 / / मयोक्तं दारकः कोऽयं, किंवा गाढप्रहारितः। कुत्र या नीयते लग्रः, के चामी परिवारकाः॥२४०।। अम्बिका स्माह हे वत्स ! विद्यतेऽत्र महागिरौ। राजा चारित्रधाख्यो, यतिधर्मा च तत्सुतः।।२४१।। तस्यां संयमो नाम, पुरुषः प्रौढपौरुषः। एकाकी च क्वचिद् दृष्टो, महामोहदिशत्रुभिः / / 242|| बहुत्वादथ शत्रूणां, प्रहारैर्जर्जरीकृतः। अय निस्सारितो वत्स! रणभूमेः पदातिभिः / / 243 / / प्रक्षिप्य डोलिकायां च, नीयतेऽसौ स्वमन्दिरे। अस्य चात्र पुरे जैने, सर्वे तिष्ठन्ति बान्धवाः / / 244 / / ततोऽहं कौतुकाक्षिप्तस्तात! मात्रा समं क्षणात्। तेषामनुसमारूढो, विवेकगिरिमस्तके।।२४५|| अथ तत्र पुरेजैने,राजमण्डलमध्यगः। दृष्टिश्चित्तसमाधाने, मण्डपे स महानृपः / / 246 / / सत्यशौचतपस्त्याग-ब्रह्माकिंचनतादयः। अन्येऽपि मण्डलाधीशा, अम्बया दर्शिता मम // 247|| इतश्च तैनरस्तूपण समानितः स संयमः। दर्शितोऽस्य नरेन्द्रस्य, वृत्तान्तश्च निवेदितः // 248|| तद्धेतुककस्ततस्तात ! मोहचारित्रभूभुजोः। तदा महाहवो जज्ञे, विश्वस्यापि भयंकरः / / 246 / / क्षणाचारित्रभूपालः, सबलो बलशालिना। जिग्ये मोहनरेन्द्रेण, नंष्ट्वा स्वस्थानमाश्रयत्।२५०|| ततः परिणतं राज्य, महामोहमहीपतेः। चारित्र धर्मराजस्तु, पिरुद्धो व्यन्तरे स्थितः॥२५१।। मार्गानुसारिताऽवादीद्, दृष्ट वत्स ! कुतूहलम्। स्पष्ट दृष्ट मयाऽप्युक्तमम्बिकायाः प्रसादतः॥२५२।। केवलं कलहस्यास्य, मूलमम्ब ! परिस्फटम्। अहं विज्ञातुमिच्छामि,प्रोचेऽम्बा श्रृणु पुत्रक! ||253|| रागकेशरिराजसय, मन्त्री प्रोत्साहसाहसः / त्रैलोक्यमपि विषया-भिलाष इति विश्रुतः / / 254|| अनेन मन्त्रिणा पूर्व , विश्रवासाधनहेतवे। मानुषणि प्रयुक्तानि, पञ्चात्मीयानि सर्वतः // 255|| स्पर्शनं रसना घ्राणं, दृक् श्रोत्रमिति नामतः। जगजयप्रवीणानि, विश्वाद्वैतबलानि च / / 256 / / क्वापि तान्यभिभूतानि, संतोषेण पुरा किल। चारित्रधर्मराजस्य, मन्त्रपालेन लीलया / / 257|| तन्निमित्तः समस्तोऽयं, जातोऽमीषां परस्परम् / कलहो वत्स! साटोपमन्तरङ्गमहीभुजाम्।।२५८|| मयाऽवाच्यथपूर्ण मे, देशदर्शनकौतुकम्। साम्प्रतं तातपादानां समीपे गन्तुमुत्सुकः / / 256 / / मात्रोक्तं गम्यतां वत्स ! निरूप्य जनचेष्टितम्। अहमप्यागमिष्यामि, तत्रैव तव संनिधौ // 260 / / ततोऽहमागमं क्षिप्तं, निश्चित्येदं प्रयोजनम्। ततस्तातामुना मैत्री, घ्राणेन न तवोचिता // 261 // यावन्निनवेदयत्येवं, विचारो निजवीजिने। मार्गानुसारिता तावदागाद्धवलभूपतेः // 262|| समर्थितं तया सय, विचारकथितं वचः। त्यजामि घ्राणमित्येवं, बुधस्यापि, हृदि स्थितम्॥२६३|| इतो भुतङ्गतायुक्तो, घ्राणलालनलालसः ।म सुगन्धिगन्धानां,सदान्वेषणतत्परः॥२६४ तत्रैव नगरे श्राम्यन, लीलावत्या निजस्वसुः। देवराजस्य भार्याया, ययौ गेहे कदाचन // 265 / / सपत्नीपुत्रघातार्थ,तस्मिन्नेव क्षणे तया। आत्तो डोम्बकरागन्धः, संयोगो मरणात्मकः // 266 / / तां गन्धपुटिकांद्वारे, मुक्त्वा लीलावतीगृहे। प्रविवेश स च प्राप्तो, मन्दं सा तेन वीक्षिता॥२६७।। ततो भुजंगता दोषच्छोटयित्वा पुटीमसौ। तान् गन्धान सहसाऽजिघ्रत्याणैश्च मुमुचे क्षणात्।।२६८।। तं मन्दं घ्राणदोषेण, विपन्नं वीक्ष्य शुद्धधी / विरक्तः प्राग्रजद्धर्म-घोषाचार्यन्तिके बुधः / / 266 / / सक्रमेण समस्ताङ्गापाङ्गपूर्वविशारदः। अनेकलब्धिवार्यब्धि-संप्राप्तसुरवैभवः / / 270 / / विहरन्नत्र संप्राप्तः, स एषोऽहं नरेश्वर! व्रतहेतुः पुनर्जशे, तन्मे मन्दस्य चेष्टितम्॥२७१।। तच्छुत्वा विस्मयस्मेर-लोचनो धवलो नृपः। विमलाद्या जनाः सर्वे, कृताञ्जलय ऊचिरे।। 272 / / अहो भगवतो रुपमहो मधुरिमा गिराम्। अहो परोपकारित्वमहो बोधनचातुरी // 273|| अहो सदा स्वयं बोध-बन्धुरैकधुरीणता। यद्वा भगवतोऽमुष्य, चरित्रं सर्वमप्यहो।।२७४|| अह सविसेसं राया, संवेगगओ पयंपए कुमरं। तुंवच्छ ! गिण्ह रजं, वयं तु दिक्खं गहिस्सामो॥२७५।। भणइ कुमारो किं ताय, तुह अहं इह अणिट्ठओ तणओ। रजपयाणमिसेणं, जेणमिमं खियसि भवअवडे // 276|| तं सुणिय मणे तुट्ठो, धवलो विमलस्स महरयं बंधु / कमलं कयलिदलच्छं, नियरज्जभरम्मि संठवइ॥२७७।। विमलकुमारेण सम, अंतेउरपउरमंतिमाइजुओ। रिसिवुहसूरिसयासे, गिण्हइ दिक्खं धवलराओ॥२७८॥