________________ कम्मपगडि 338 - अभिधानराजेन्द्रः - भाग 3 कम्मपयमिरांगह यणिज्जं मोहणिज्जं आउयं नामं गोयं अंतराइयं // - "जीवो णमित्यादि" प्रागिव व्याख्येयं नवरं चण्नं व्याख्यानान्तरेणाकलनमुपचयनं परिपोषणं बन्धन निर्माणमुदीरणं करणेनाकृभ्य दलिकस्योदये दानं वेदनमनुभव उदय इत्यर्थः / निर्जरा प्रदेशेभ्य शटनमिति / स्था० 8 ठा० कर्मभेदप्रतिबद्धवक्तव्यताके त्रयस्त्रिंशे उत्तराध्ययने, उत्त० 4 अ० / बन्धनादिकरणाष्टकप्रतिपादके स्वनामख्याते ग्रन्थे, तत्रादौ। प्रणम्य कर्मद्रुमचक्रनेमि, नमत्सुराधीशमरिष्टनेमिम्। कर्मप्रकृत्याः कियतां पदानां, सुखावबोधाय करोमि टीकाम् / / अयं गुणश्चूर्णिकृतः समग्रो, यदस्मदादिर्वदतीह किंचित् / उपाधिसंपर्कवशाद्विशेषो, लोकेऽपि दृष्टः स्फटिकोपलस्य / 2 / इह शिष्टाः क्वचिदिष्ट वस्तुनि प्रवृर्तमानाः सन्त इष्टदेवतानमस्कारपुरस्सरमेव प्रवर्तन्तेन चायमाचार्यो न शिष्ट इति शिष्टसमयपरिपालनाय तथा श्रेयांसि बहुविघ्नानि भवन्ति उक्तञ्च / "श्रेयांसि बहुविघ्नानि भवन्ति महतामपि / अश्रेयसि प्रवृत्तानां क्वापि शन्ति विनायका'' इति / इदं च प्रकरणं सम्यग्ज्ञानहेतुत्वात् श्रेयोभूतमतो मा भूदत्र विघ्न इति विनाविनायकोपशान्तये चेष्टदेवतानमस्कार तथा न प्रेक्षापूर्वकारिणः क्वचिदपि प्रयोजनादिविरहे प्रवर्त्तन्तेइति प्रेक्षावतां प्रवृत्त्यर्थं प्रयोजनादिकं च प्रतिपिपादयिषुरादाविदमाह क० प्र०। संप्रति प्रकरणप्राज्ञाननिबन्धनां विशिष्टफलसंप्राप्तिमाह करणोदयसंतविओ, तन्निजरकरणसंजमुजोया। कम्मट्ठगुदयनिट्ठा जणियमणिटुं सुहुमुवें ति / / 473 / / करणानामुक्तस्वरूपाणामुदयसत्तयोश्च सम्यक्परिज्ञानयुक्तस्तनिर्जराकरणं (संजमुजोयत्ति) तासांकरणोदयसत्तानां या निर्जरा तस्याः करणं निर्वर्तनं तदर्थ संयम प्रति उद्योग उद्यमो येषां तन्निर्जराजैकरणसंयमोद्योगाः ते इत्थंभूताः (सन्तमित्याह) कर्माष्टकोदयसत्तानिष्ठजनितं कर्माष्टकस्य अष्टानां कर्मणामुदयनिष्ठया उदयग्रहणं बन्धस्याप्युपलक्षणं ततोऽयमर्थः बन्धोदयसत्ताक्षयेण जनितमुत्पादितं यत् (मणिबँति) मनस इष्टमथवा (अणिट्ठति) न विद्यते निष्ठा पर्यवसानं यस्य तत् अनिष्ठम्। अनिष्ठमपर्यवसानं सुखमुभयत्रापि मोक्षसुखं तत् (उपयंति) प्राप्नुवन्ति तस्मादवश्यमिह प्रकारेण प्रेक्षावद्भिनिरन्तरमभ्यासः करणीयः कृत्वा च यथाशक्तिसंयमाध्यनि प्रवृर्तितव्यं प्रवृत्तेन च सता संक्लिष्टाध्यवसायरूपकुपथपरिहारे यत्न आस्थेय इति। संप्रत्याचार्य आत्मन औद्धत्यं परिहरन् अन्येषां बहुश्रुतानां प्रकरणार्थपरिभावनाविषये प्रार्थनां कुर्वन् प्रेक्षावतां प्रकरणविषये उपादेयबुद्धिपरिग्रहार्थं प्रकरणस्य परंपरया सर्वविन्मूलतां ख्यापयति। इय कम्मप्पगडीओ, जहासुहं नीयमप्पमइणावि। सोहियग्णाभोगकर्य कहं तु वरदिट्ठिवाय // 474 // अल्पमतिनाऽपि अल्पबुद्धिनाऽपि सता इत एवमुक्तेन प्रकारेण गुरुचरणकमलपर्युपासनां कुर्वता गुरुपादमूले यथा मया श्रुतं तथा कर्मप्रकृतेः कर्मप्रकृतिनामकात्प्राभृतात् दृष्टिवादे हि चतुर्दशपूर्वाणि तत्र च द्वितीयमाग्रायणीयाभिधानमनेक वस्तुसमन्वितं पूर्व पञ्चम वस्तुविंशतिप्राभृतिपरिमाणं तत्र कर्मप्रकृत्याख्यं चतुर्थ प्राभृतं चतुर्विशत्यनुयोगद्वारमयं तस्मात् इदं प्रकारणं नीतम् आकृष्टमित्यर्थः / अस्मिंश्च प्रकरणे यत् किमपि स्खलितं तदनाभागकृ तमनाभोगजनितम् / छद्मस्थस्यहि कृतप्रयत्नस्याप्यावरणसामर्थ्यात् नो | अनाभोगादिः संभवति तत आभोगः संभवति आभोगजनितं यत् किमपि स्खलितंतत् शोधयित्वा अपनयन्तु ये वरा उत्कलितबुद्ध्यतिशयसंपन्ना दृष्टिवादज्ञा द्वादशकाङ्गविदस्ते ममोपरि महतीमनुग्रहबुद्धिमास्थाय तत्रान्यत् पदमगमानुसारि प्रक्षिप्य कथयन्तु यथेदमत्र पदं समीचीनं नेदमिति। न पुनरुपेक्षारूपोऽप्रसादस्तैः कर्त्तव्यः / इमत भावना। अत्र "कम्मपयडीउ" इत्यादिना ग्रन्थेन प्रकरणस्य सर्वविन्मूलता ख्यापिता दृष्टच्या / दृष्टवादो हि भगवता साक्षादर्थतोऽभिहितः सूत्रेण वस्तुतस्तु सुधर्मस्वामिना दृष्टिवादान्तर्गतं च कर्मप्रकृतिप्राभृतं तस्माचेदं प्रकरणमुद्भुतमिति परम्परया सर्वविन्मूलम् / इह शास्त्रस्यादौ मध्ये अवसाने च मङ्गलमवश्यमभिधातव्यम् आदिमङ्गलाभिधाने हि शास्वमविघ्नेन परिसमाप्तिमियर्ति मध्यममङ्गलाभिधानतश्च प्रशिष्यादिपरंपरागमनेन स्यैर्यमाधत्ते / पर्यन्तमङ्गलाभिधानप्रभावतः पुनः शिष्यप्रशिष्यादिभिरवधार्यमाणं तेषां चेतसि सुप्रतिष्ठितं भवति। तत्रादिमङ्गलम् "सिद्धं सिद्धत्थस्स ससुय' मिथ्याद्युक्तम्।मध्यमङ्गलं तु"अकरणअणुन्नाइ अणुयोगधरे पणिवयामीति''। संप्रति पुनरवसानममङ्गलमाह जस्सवरसासणावयव फरिस पविक सियविमलमइकरणा। विमलेति कम्ममइले , सो मे सरणं महावीरो॥ यस्य भगवतो महावीरस्य वरमनुत्तरं यत् शासनं तदवयवसंस्पर्शात् प्रकर्षेण विकसिता उद्बोधं गता विमला अपगतमिथ्याज्ञानत्त्वरूपमला मतिकिरणा मतिरेव किरणास्ते कर्ममलिनः कर्मतो मलीमसान् असुमतो विमलयन्ति विमलीकृर्वन्ति स भगवान् महावीरो वर्द्धमानस्वामी मे मम संसारभयभीतस्य शरणं परित्राणहेतुर्नान्य इति। कर्मप्रपञ्च जगतोऽनुबन्ध क्लेशावह वृक्षकृपापरीतः। क्षयाय तस्योपदिदेश रत्नत्रयं सजीयाज्जिनवर्द्धमानः / / निरस्तकुमतध्वान्तं, सत्पदार्थप्रकाशकम्। नित्योदयं नमस्कुर्मो, जैनसिद्धान्तभास्करम्॥ पूर्वान्तर्गतकर्मप्रकृतिप्राभृतसमुद्धता येन। प्रकृतिरियमवधिमनः श्रुतकेवलगम्यभावार्थः / ततः क्व चैषा विषमार्थयुक्ता, क्व चाल्पशास्त्रार्थकृतश्रमोऽहम्। . तथापि सम्यग्गुरुसंप्रदायात्, किंचित् स्फुटार्था विवृता मयैषा // 4 // कर्मप्रकृतिनिधानं, बहथ येन भादृशां योग्यम्। चक्रे परोपकृतये, श्रीचूर्णिकृते नमस्तस्मै / / 5 / / एनामतिगम्भीरां, कर्मप्रकृतिं विवृण्वता कुशलम् / यदवापि मलयगिरिणा, सिद्धिं तेनाश्नुतां लोकः // 6 // अर्हन्तो मङ्गलं मे स्युः, सिद्धाश्च मम मङ्गलम्। मङ्गलं साधवः सम्यग्जैनो धर्मोऽस्तु मङ्गलम्॥७॥ इति श्रीमलयगिरिविरचिता कर्मप्रकृतिटीका समाप्ता क० प्र०। आग्रायणीयाभिधानद्वितीयपुर्वस्यपञ्चमवस्तुसत्कचतुर्थे प्राभृते. क० प्र०। कम्मपयडिसंगह पुं०(कर्मप्रकृतिसंग्रह) कर्मप्रकृतिलक्षणस्य ग्रन्थस्य बन्धविधिलक्षणस्यााधिकारस्य संग्रहो यत्र स तथा पञ्चसंग्रहग्रन्थस्य पञ्चमाधिकारे,पं०सं०संप्रति कर्मप्रकृतिसंग्रहोऽभिधातव्यः कर्मप्रकृतिश्च शास्त्रान्तरे महर्द्धि च ततो