________________ 334 - अमिधानराजेन्द्रः - भाग 3 विशिष्ट मनःप्राणिधानबलं वजऋषभनाराचसंहननलक्ष्णं चशारहरं बलं भवति स धनिकसदृशं कर्म क्षपयित्वा सुखनैवानृणीभवति / यस्य तु धृतिबलं शारीरबल वा न भवति स तेन कर्मणा वशीक्रियते वशीकृतश्च तत्परतन्त्रया वर्तमानो विविधशारीरमानसदुःखोपनिपातमनुभवति / आह धृतिसंहननवलोपेतो यत्कर्म क्षपयति तत्किमुदीर्यानुदीर्य वा क्षपयतीत्युच्यते। महणासहणो कालं, जह धणिओ एवमेव कम्मं तु। उदियानुदिचखवणा, होज सिया आउवजेसु॥ धनिको द्विधा सहिष्णुरसहिष्णुश्च / यः सहिष्णुः स विवक्षितं कालं प्रतीक्षते इतरस्तु न प्रतिक्षते एवमेव कर्मापि किं चित्स्वकालमूर्ती किंचित्पुनस्ताडन्तरे णापि स्वविपाकं दर्शयतीत्वेवमुदीर्णस्यानुदीर्णस्य वा कर्मणः क्षपणा धृतिसंहननबलोपेतस्य भवेत् (सियत्ति) स्यात्कदाचित्कसप्येवं भवति न सर्वस्य / यस्तु संहननबलविहीनः स चरममनुदीपर्ण कर्म देशतः क्षययेत् न सर्वतः (आउवजेसु त्ति) आयुःकर्मवर्जानां शेषकर्मणामनुदीर्णानामपि क्षपणं भवति आयुषः पुनरुदीर्णस्यैव क्षपणतिजि भावः / तदेवं धनिकधारणिकदृष्टान्तेन जीवकर्मणोरुभयोरपि तुल्यमेव यथायोग बलीयस्त्वं द्रष्टव्यम्। उक्तं च "दृनाशो ब्रह्मदत्ते भरतनृपजयः सर्वनाशश्च कृष्णे, नीचेोत्राद्यतारश्चरमजिनपतेर्मल्लिनाथेऽवलत्वम् / निर्वाणं नारदेऽपि प्रशमपरिणतः स्याचिलातीसुतेऽपि, इत्थं कर्मात्मवार्ये स्फुटमिह जयति स्पर्धया तुल्यरूपे' उक्तं सप्रपञ्च भावाधिकरणम्। वृ०१ उ०। सह कलेवर रेवद चिन्तय, स्ववशता हि पुनस्तव दुर्लभा। बहुतरं च सहिष्यसि कर्म हे, परवशो न च तत्र गुणोऽस्ति ते आचा०१ श्रु०२अ० 1 उ०। कम्माणि गुणं घणचिक्कणाई.गहिआई बइरसाराई। णाणट्टियं पिपुरिसं,पंथओ उप्पहं तिण्णोआचा०६ अ०३उ०। उप्तो यः स्वत एव मोहसलिलो जन्मालवालोऽशुभो। रागद्वेषकषायसन्ततिमहानिर्विघ्नावीजस्त्वया। रोगैरङ्कुरितो विपत्कुसुमित् कर्मद्रुमः सांप्रतं,। सोदानो यदि सम्यगेष फलतो दुःखैरधोगामिभिः। पुनरपि सहनीयो दुःखपाकस्तथाऽयं / न खलु भवति नाशः कर्मण्णां संचितानाम्। इति सह गणयित्वा यद्यदा याति सम्यक्, सदिति वद विवेकोऽन्यत्र भूयाः कुतस्त्यः / आचा०१ श्रु०२ अ०। शुभाशुभानि कर्माणि, स्वयं कुर्वन्ति देहिनः। स्वयमेवोपभुज्यन्ते, दुःखानि च सुखानि च / उत्त०१ अ०। यदिह क्रियते कर्म, तत्परत्रोपभुज्यते। मूलसिक्तेषु वृक्षेषु, फलं शाखासु जायते सूत्र०२ श्रु०१ अ) दग्धे वीजे यथाऽत्यन्तं प्रादुर्भवति नाङ्कुरः। कर्मवीजे तथा दग्धे, न रोहति भवाङ्कुरः स्या०। क्लेशाः पापानि कर्माणि, बहुभेदानि नो मते। योगादेध क्षयस्तेषां, नवभोगादयनवस्थितेः॥३१॥ ततो निरुपमं स्थान मनन्तमुपतिष्ठते। भावप्रपञ्चरहितं, परमानन्दमेदुरम्॥३२॥ क्लेशा इति नोऽस्माकं मते पापान्यशुभविपाकानि बहुभेदानि विचित्राणि कर्माणि ज्ञानावरणीयानि क्लेशा उच्यन्तेऽतः कर्मक्षय एव क्लेशहानिरिति भावः। तत्तु "नाभुक्तं क्षीयते कर्म, कल्पकोटिशतैरपि। अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभ'' मिति वचनाद्भोगादेव कर्माणां क्षये तरस्याप्यपुरुषार्थत्वमनिवारितमेवे त्यत आह योगादेव ज्ञानक्रियासमुच्चयलक्षणात् क्षयस्तेषां नानाभवार्जितानां प्रचितानां न भोगादनवस्थितेर्भोगजनितकर्मान्तरस्यापि भोगनाश्यन्वादनवस्थानात् / ननु त्वरिताभिष्वङ्ग भोगस्य न कान्तरजनकत्वं प्रचितानामपि च तेषां क्षयो योगजादृष्टाधीनं कथव्यूहबलादुत्यत्स्यत इति चेन्न प्रायश्चित्तादिनापि कर्मनाशोपपत्तेः कर्तणां भोगेतरनाश्यत्वस्यापि व्यवस्थितौ योगेनापि तन्नाशसंभवे कायव्यहादिकल्पने प्रमाणाभावात्। कर्मणां ज्ञानयोगनाश्यतया "ज्ञानानिः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुनेति"भवदागमेनापि सिद्धत्वात् / नरादिशरीरसत्वे शूकरादिशरीरानुपपत्तेः कायव्यूहानुपपत्तेर्मनोन्तरप्रवेशादिकल्पने गौरवाच। ये त्वाहः पातञ्जलाः "अग्नेः स्फलिङ्गानामिव कायव्यहदशायामे कस्मादेव चित्ताप्रयोजकान्नानाचित्तानां परिणामोऽस्मितामात्रादिति" तदुक्तं "निर्माणचित्तान्यस्मितामात्रात्प्रवृत्तिभेदे प्रयोजकचित्तमे कमने के षामिति" तेषामप्यनन्तकालप्रचितानां कर्मणां नानाशरीरोपभोगनाश्यत्वकल्पनमोह एव तावददृष्टानां युगपद्धत्तिलाभानुपपत्तेरिति निरुपक्रमकर्मण एव भोगैकनाश्यत्वमाश्रयणीयमिति सर्वमवदातम् 31 (तत इति) सुगमम् ३शद्वा०२६द्वा०। (३७)कर्मक्षयविचारः तस्य सम्यग्ज्ञानस्य सत्यार्थत्वेन बलीयस्त्वान्निवृत्ते च मिथ्याज्ञाने तन्मूलत्वाद्रागादयो न भवन्ति कारणाभावे कार्स स्थानुत्पादाद्रागाद्यभावे च तत्कार्या प्रवृत्तियावर्त्तते तदभावे च धम्माधर्मयोत्पात्तिरारब्धकार्ययोरखेपभोगात्प्रक्षय इति संचितयोश्च तयोः प्रक्षयस्तत्त्वज्ञानादेव तदुक्तं : "यथैन्धनसमिद्धोऽग्निर्भस्मसात्कुरुते क्षणात्। ज्ञानाग्निस्सर्व्वकर्माणि, भस्मसात्कुरुते तथा" अथोपभोगादपि प्रक्षये "ना भुक्तं क्षीयते कर्मकल्पकोटिशतैरपी" त्यागमोऽस्ति तथा च विरुद्धार्थत्वादुभयोरेकत्रार्थे कथं प्रामाण्यमुपभोगाच प्रक्षयेऽनुभानोपन्यासमपि कुर्वन्ति / पूर्वकर्माण्युपभोगादेव क्षीयन्ते कर्मत्वाद्यद्यत्कर्म तत्तदुपभोगादेव क्षीयते यथाऽऽरब्धशरीरं कर्म तथा चैतत्कर्म तस्मादुपभोगादेव क्षीयत इति। न चोपभोगात्प्रक्षये कान्तरस्यावश्यंभावात्संसारानुच्छेदः / समाधिबलादुत्पन्नतत्वज्ञानस्यावगतकमसामर्थ्योत्पादितयुगपदशेषशरीर द्वारावाप्ताशेषभोगस्य कन्तिरोत्पत्तिनिमित्तमिथ्याज्ञानजनितानुसन्धान विकलस्य कानुपपत्तिस्तदुपभोग विना कर्मण्णां प्रक्षयानुपपत्तेनितोऽपि तदर्थितया प्रवृत्तेर्व द्योपदेशादातुरस्यैवौषध्याद्याचरणे ज्ञानमप्वयेवमशेषशरीरोत्पतिद्वारेणोपभोगात्कर्मणां विनाशव्यापारादग्निरिवोपचर्यत इति व्याख्येयम्। ननु साक्षान्नचैतद्वाच्यं तत्वज्ञानिनां कर्मविनाशस्तत्वज्ञानादितरेषां तूपभोगादिति ज्ञानेन कर्मविनाशे प्रसिद्धोदाहरणाभावात् नच मिथ्याज्ञानजनितसंस्कारस्य सहकारिणोऽभावाद्विद्यमानान्यपि कर्माणि न जन्मान्तरशरीराण्यारभन्त इत्यभ्युपगमः श्रेयोऽनुत्पादितकार्यस्य कर्मलक्षणस्य कार्यवस्तुनः प्रक्षयान्नित्यत्वप्रयक्तेः। अथानागतयोर्द्धर्माधर्मयोरुत्पत्तिप्रतिषेधे तत्वज्ञानिनो नित्यनैमित्तिकानुष्ठानं कथं प्रत्यवयायपरिहारार्थ तदुक्तं "नित्यनेमित्तिकैरेव, कुर्वाणो दुरितयम्।ज्ञानंच विमलीकुवनभ्यासेनतुपाचयेत्।अभ्यासत्प-क्षविज्ञानः, कैवल्यं लभते नरः" केवलं काम्ये निषिद्धे च प्रवृत्ति प्रतिषेधस्तदुक्तं "नित्यनैमित्तिके कुर्यात्वरिप्रत्यवायजिहासया / मोक्षार्थी न