________________ कम्म ३३३-अभिधानराजेन्द्रः - भाग 3 कम्म सर्वं सुगमं नवरं निरुपहतं वातादिभिर्भराभूतैः कुशैर्मूलभूतैर्जात्या दर्भः कुशभेद इत्यन्ये (अत्थाहंसित्ति अस्ताधे अगाधे इत्यर्थः पुरुषः परिमाणमस्येति पौरूषिकं तन्निषेधाद पौरुषिकं मूल्लेपानां संबन्धाद् गुरुकतया गुरुकतैव कुतः भारिकतया मृल्लेपजनितभारवत्वेनेति भावः / गुरुकभारिकतयेतितुधर्मद्वयमप्य धोमज्जनकारता-प्रतिपादनायोक्तम् (उप्पिं) उपरि 'अइवइत्ता' अतिपत्यातिक्रम्य (तित्तंसिप्ति) स्तिमिते आर्द्रतां गते ततः कुथिते कोथमुपगते ततः परिसटिते पतित इति / इह गाथे "जह मिउले वालित्तं, गुरुयं तुंबं अहो वयइ एवं / आसवकयकम्मगुरू, जीवा वच्चंति अहरगइं // 1 // तं चेव तिव्वमुक्कं, जलोवरि ठाइ जाइ लहुभावं / जह तह कम्मविमुक्का, लोयग्गपयहिया हो ति" ज्ञा०६अ। आह गूरूलघुकमगुरुलघुकं वा द्रव्यं भवति नचैकान्तगुरुकं नचैकान्तलघुकमित्यागमेऽभिधीयते ततः कर्मणां गुरुतया जीवा अधो गच्छन्ति लघुतया तूर्द्धमिति कथं न विरुध्यते उच्यते इह हि यदागमे गुरुलघुकमगुरुलघुकं वा द्रव्यमुक्तं तन्निश्चयतः "विईया पयउ सव्वत्थ पडिसिद्धा'' गुरुकं लघुकं मिश्रं गुरुकलघुकमिश्रं गुरुलघुकमित्यर्थः / एवं व्यवहारतश्चतुर्दा द्रव्यम् / तत्र पुनरेतेषां मध्ये ये प्रथमद्वितीयपदे ते सर्वत्रापि निश्चयनयमताश्रितेषु सूत्रेषू प्रतिषिद्धा। तथाहि स निश्चयनयो ब्रवीति नास्त्येकान्तेन गुरुस्वभावं किमपि वस्तु पराभिप्रायेण गुरुत्वेनाभ्युपगतस्यापि लब्ध्यादे परप्रयोगादू दिगमनदर्शनात् / एवमेकान्तेन लघुस्वभावमपि नास्ति इति लब्धेरपि वाष्पादे: करताडनादिना अधोगमनादिदर्शनात् / तस्मादियं वस्तुनः परिभाषा यत्किमप्यत्र जगति बादरं वस्तु न सर्व गुरु लघु शेषं तु सर्वमप्यगुरुलघुकमिति। इदमेव व्यक्तीकुर्वन्नाह। जा तेयगं सरीरं, गुरुलहुदव्वाणि कायजोगा य। मणसा अगुरुलहु, अरूविदव्वा व सव्ये वि।। औदारिकशरीरादारभ्य तैजसशरीरं यावत् यानि द्रव्याणियश्च तेषामेव संबन्धात्काययोगः शरीरव्यापार एतत्सर्वं गुरुलघुकमिति निर्देशम्।यानि तु मनोभाषाप्रायोग्याण्युपलक्षणत्वादानयनकर्मणा प्रायोग्याणि तदपान्तरालवर्तीनि च द्रव्याणि यानि च सर्वाण्यपि धर्माधर्माकाशजीवास्तिकायलक्षणान्यरूपिद्रव्याणि तदेतत्सर्वमगुरुलघुकम्। अहवा बायरबोंदी, कलेवरा गुरुलहू भवे सव्वे / सुहुमाणंतपदेसा, अगुरुलहू जाव परमाणू॥ अथवेति प्रकारान्तरद्योतने बादरा बोन्दि शरीरं योषान्ते बादरबोन्दयो बादरनाम कर्मोदयवर्तिनो जीवा इत्यर्थः तेषां सम्बन्धीनि यानि कलेवराणि यानि वा पराण्यपि बादरपरिणतानि तत्राम्भोधरादीनि शक्रचा पगन्धर्वपुरप्रभूतीनि वा वस्तुनि तानि सर्वाण्यपिगुरुलघून्युच्यन्ते यानि तु सूक्ष्मनामक दियवर्तिनां जन्तूनां शरीराणि यानि च सूक्ष्मपरिणामपरिणतानि अनन्तप्रादेशिकादीनि परमाणुपुद्गलं यावत् द्रव्याणि तानि सर्वाण्यगूरुलघूनि। अथ व्यवहारनयमतमाह ववहारनयं पप्प उ, गुरुया लहु या य मीसगा चेव। लहुगपदीवमारुय, एवं जीवाण कम्माई।। व्यवहारनयं प्राप्याङ्गीकृत्य त्रिविधानि द्रव्याणि भवन्ति तद्यथा गुरुकाणि लघुकानि मिश्रकाणि च गुरुलघुनीत्यर्थः / तत्र यानि तिर्यगूर्ट्स वा प्रक्षिप्तान्यपि स्वभावादेवाधो निप्रतन्ति तानि गुरुकाणि यथा लेष्टुप्रभृतीनि / यानि तूर्द्धगतिस्वभावानि तानि लघुकानि यथा प्रदीपकादीनि। यानि तु नाधोगतिस्वभावानि नवा ऊर्धगतिस्वभावानि किं तर्हि तिर्यग्गतिधर्मकाणि तानि गुरुलघूनि यथा मारुतो वायुस्तत्प्रभृतीनि एवं जीवानां कर्माण्यपि त्रिविधा भवन्तिगुरूणि लघूनि गुरुलघुनि वा। तत्र यैरमी जीवा अधोगतिं नीयन्ते तानि गुरुकाणि यैस्तु तएवोर्द्धगतिं प्राप्यन्तेतानि लघुकानि यैः पुनस्तिर्यग्योनिकेषु वा मनुष्येषु वा गतिं कार्यन्ते तानि गुरुलघुकानीति तदेवं व्यवहारनयाभिप्रायेण समर्थितः कर्मणां गुरुत्वल?लघुत्वगुरूलघुत्वपरिणामः / अथ परः प्राह। ननु जीवास्तावत् स्ववशा एव ज्ञानवरणादिकं कर्मोपचिन्वन्ति ततो गतिरपि तेषां स्ववशतया किं न प्रवर्तते यदेवं कर्मोदयवलादुर्द्धमधस्तिर्यग्वा नीयन्ते। उच्यते। कम्मं चिणंति सवसा, तस्सुदयम्मि उ परवसा हों ति। रुक्खं दुरुहइ सवसो, विगलइस परवसो तत्तो।। जीवाः स्वयशाः स्वतन्त्रा एव मिथ्यात्वाविरत्यादिभिः कर्मचिन्वन्ति बध्नन्तीत्यर्थः परं तस्य कर्मण उदये ते जीवाः परवशा भवन्ति / अथ कियचत्पुरुषो वृक्षमारोहन् स्ववशः स्वाभिप्रायानुकूल्येनारोहति स च कुतश्चिदुष्प्रमादात्ततो विगलन् परवशः स्वकाममन्तरेणैव विगलति। आह यद्येवं ततः किं संसारिणो जीवाः सर्वथैव कर्मपरवशा एव उच्यते नायमेकान्तो यत आह। कम्मवसा खलु जीवा, वसाई कहिं वि कम्माइं। कत्थइ धणिओ बलवं, धारणओ कत्थई बलवं // कर्मवशाः खलु प्रायेण अमी संसारिणो जीवाः परं कुत्रचित्प्रबलधृतिबलादिसद्भावे कर्माण्यपि जीववशानि। अमुमेवार्थ दृष्टान्तेन दृढयति यथा कुत्रचिजनपदादौ धनिको व्यवहारको बलवान् कुत्रचित्पुनः प्रत्यन्तग्रामादौ धारिणिकः ऋणधारकोऽपि बलवान् / इयमत्र भावना। यदि जनपदमध्यवर्ती अविद्यमानविभवो वा धारणिकस्तदा धनिको बलीयान। अथ धारणिकः प्रत्यन्तग्रामे वा पल्ल्यां वागत्वा स्थितः नवा तस्य तथाविधं किमपि द्रव्यमस्ति ततो धारणिको बलवान् भवति एष दृष्टान्तः। अथार्थोपनयमाह। धणियसरिसं तु कम्म, धारणिगसमा उ कम्मिणा होति। संतासंतधणा जह, धारणिगधिइवलं तणु / एवं विधधनिकसदृशं कर्म धारणिकसमानाः कर्मिणः सकर्मका जीवा भवन्ति सुखदुःखोपभोगादि ऋणधारकत्वात्तेषामिति भावः यथा च सन्तो विद्यमानविभवा असन्तोऽविद्यमानविभवा धारणिका भवन्ति तत्र च विद्यमानविभवे धारणिके धनिक स्य यदि कार्य भवति तदा राजकुलव लेन तं घारणिकं धृत्वा स्वलभ्यं द्रव्यं बलादपि गृह्णति स च धारणिक स्तस्मिन् द्रव्ये दत्ते सति अनृणीभवति / अथ सोऽविद्यमानविभवस्ततो धनिकेन स्ववशीक्रियते स्ववशीकृतश्च तत्पारतन्त्र्येण वर्तमानो दुख्सहं दासत्वादि महादुःखोपनिघातमनुभवति। एवमत्रापि धृतिबलं (तणुत्ति) शरीरं च बलं बद्धाभिमानवतां कल्पमवसंयम् / इदमुक्तं भवति यस्य जीवस्थ वज्रकुड्यसमानं