SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ कम्म 331 - अमिधानराजेन्द्रः - भाग 3 कम्म भवति हन्तुश्च यदि प्राणित्येवंज्ञानमुत्पद्यते तथानं हन्मीत्येवं च यदि बुद्धिः प्रादुःस्यादेषु च सत्सु यदि कायचेष्टा प्रवर्तते तस्यामपि यद्यसौ प्राणी व्यापाद्यते ततो हिंसा / ततश्च कर्मोपचयो भवतीत्येषामन्यतराभावेऽपि न हिंसानच कर्मचयः। अत्र च पञ्चानां पदानां द्वात्रिंशद्भङ्गा भवन्ति। तत्र प्रथमभड़े हिंसा कोऽपरेष्वेकत्रिंशत्स्वहिंसकः। तथा चोक्तं।। "प्राणी प्राणिज्ञानं, घातकचित्तं च तद्रता चेष्टा / प्राणैश्च विप्रयोगः, पञ्चभिरापद्यते हिसा'' किमेकान्तेनैव परिज्ञोपचितादिना कर्मोपचयो न भवत्येव काचिदव्यक्तिमात्रेति दर्शयितुं श्लोकपश्चार्द्धमाह / (पुट्ठोति) तेन केवलमनोव्यापाररूपपरिज्ञोपचितेन केवलकायक्रियोच्छेदेन वाऽविज्ञोपचितेनेपिथेन स्वप्नान्तिकेन च चतुर्विधेनापि कर्मणा स्पृष्ट ईषत्सुप्तः संस्तत्कर्माऽसौ स्पर्शमात्रेणैव परमनुभवति न तस्याधिको विपाकोऽस्ति कुड्यापतितसिकतामुष्टिवत्स्पर्शानन्तरमेव परिशटतीत्यर्थ: / अत एव तस्य चयाभावोऽभिधीयतेन पुनरत्त्यन्ताभाव इति। एवं च कृत्वा तदव्यक्तमपरिस्फुट खुरवधारणे अव्यक्तमेव स्पष्टविपाकानुभवाभावात्। तदेवतव्यक्तं सहावदेन गर्केण वर्तते तत्परिज्ञोपचितादिकर्मेति // 25 // ननु च यद्यनन्तरोक्तं चतुर्विधं कर्म नोपचयं याति कथं तर्हि कर्मोपचयो भवतीत्येतदाशङ्कयाह संति मे तउ आयाण, जेहिं कीरइ पावगं / अमिकम्मा य पेसाय, मणसा अणुजाणिया॥२६|| (सन्ति मे इत्यादि) सन्ति विद्यन्ते अमूनि त्रीणि आदीयते स्वीक्रियते अमीभिः कर्मत्यादानानि। एतदेव दर्शयति।यैरादानैः क्रियते विधीयते निष्पाद्यते पापकं कल्मषं तानि चामूनितद्यथा अभिक्रम्येत्याभिमुख्येन बध्यं प्राणिनं क्रान्त्वा तद्धाताभिमुखं चित्तं विधाय यत्र स्वत एव प्राणिनं व्यापादयति तदेकं कर्मादानम्। तथाऽपरं च प्राणिघाताय प्रेष्यं समादिश्य यत्प्राणिव्यापादनं तद् द्वितीयं कर्मादानमिति / तथाऽपरं व्यापादयन्तं मनसाऽनुजानीत इत्येतत्तृतीयं कर्मादानम्। परिज्ञोपचितादस्या भेदः तत्र केवलं मनसा चिन्तनमिहत्वपरेण व्यापाद्यने प्राणिन्यनुमोदनमिति // 26 // तदेवं यत्र स्वयंकृतकारितानुमतयः प्राणिघाते क्रियमाणे विद्यन्ते क्लिष्टाध्यवसायस्य प्राणतिपातश्च तत्रैव कर्मोपचयो नान्यत्रेति दर्शयितुमाह। एते उ तउ आयाणा, जेहिं कीरइ पावगं / एवं भावविसोहीए, निव्वाणममिगच्छइ॥२७॥ (एएउ इत्यादि) तुरवधारणे एतान्येव पूर्वोक्तानि त्रीणि व्यस्तानि समस्तानि वा आदानानि यैर्दुष्टाध्यवसायव्यपेक्षैः पापकं कर्मोपचियत इति / एवं च स्थिते यत्र कृतकारितानुमतयः प्राणिव्यपरोपणं प्रति न विद्यन्ते तथाभावशुद्ध्या अरक्तद्विष्टबुद्ध्या प्रवृर्त्तमानस्य सत्यपि प्राणातिपाते केवलेन मनसा कायेन वा मनोभिसन्धिरहितेनोभयेन वा विशुद्धबुद्धेर्न कर्मोपचयस्तदभावाच निर्वाणं सर्वद्वन्द्वोपरतिभावमभिगच्छत्यभिमुखेन प्राप्नोतीति / भावशुद्ध्या प्रवर्त्तमानस्य कर्मबन्धो न भवतीत्यत्रार्थे दृष्टान्तमाह। पुत्तं पिया समारब्म, आहारेज्ज असंजए। मुंजमाणो य मेहावी, कम्मणा नो विलिप्पइ / / 28|| पुत्रमपत्त्यं पिताजनकः समारभ्य व्यापाद्याहारार्थ कस्यांचित्तथाविधा- | यामापदि तदुद्धरणार्थमरक्तद्विष्टोऽसंयतो गृहस्थस्तत्पिशितं भुजानोऽपि चशब्दस्याशब्दार्थत्वादिति / तथा मेधाव्यपि संयतोऽपीत्यर्थः तदेवं गृहस्थो भिक्षुर्वा शुद्धाशयः पिशिताश्यपि कर्मणा पापेन नोपलिप्यते नाश्लिष्यत इति यथा चात्र पितुः पुत्रं व्यापादयतस्तत्रारक्तद्विष्टमनसः कर्मबन्धो न भवति तथाऽन्यस्याप्यरक्तद्विष्टान्तःकरणस्य प्राणिवधे सत्यपि न कर्मबन्धो भवतीति। सांप्रतमेतद्दूषणायाह मणसाये परस्संति, चित्तं तेसि ण विजइ। अणवजमतहं तेसिं, ण ते संवुडचारिणो ||26|| ये हि कुतश्चिन्निमित्तान्मनसाऽन्तःकरणेन प्रदुष्यन्ति प्रद्वेषमुपयान्ति तेषां वधपरिणतानां शुद्ध चित्तं न विद्यते तदेवं यत्तैरभिहितं यथा केवलमनःप्रद्वेषे ऽप्यनवयं कर्मोपचयाभाव इति ततस्तेषामतथ्यमसदर्थाभिधायित्वं यतो न ते सुवृत्तचारिणो मनसोऽशुद्धत्वात् / तथाहि कर्मोपचये कर्तव्ये मन एव प्रधानं कारणं यतस्तैरपि मनोरहितकेवलकायव्यापारे कर्मोपचयाभावोऽभिहितः ततश्च यद्यस्मिन् सति भवत्यसति तु न भवति तत्तस्य प्रधानं कारणमिति / ननु तस्यापि कायचेष्टारहितस्याऽकारणत्वमुक्तम् सत्यमुक्तम् / अयुक्तं तूक्तं यतो भवातैवैवं भावशुद्धया निर्माणमभिगच्छतीति भणता मनस एवैकस्य प्राधान्यमभ्यधायि तथाऽन्यदप्यभिहितम् "चित्तमेव हि संसारे रागादिक्लेशवासितम्। तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते'' तथा न्यैरप्यभिहितम् "मतिविभवमनस्त्वे यत्समत्वेऽपि पुसा, परिणमसि शुभांशैः कल्मषांशस्त्वमेव / निरयनगरवद्मप्रस्थिताः कष्ट मेव, झुपचितशुभशक्त्या सूर्यसंभेदिनोऽन्ये" 1 तदेवं भवदभ्युपगमेनैव क्लिष्टमनोव्यापारः कर्मबन्धायेत्युक्तं भवति। तथैर्यापथेऽपि यद्यनुपयुक्तो घातितवान् ततोऽनुपयुक्ततैव क्लिष्टचित्ततेति कर्मबन्धो भवत्येव / अथोपयुक्तो याति ततोऽप्रमत्तत्वादबन्धक एव तथा चोक्तम् "उचालियं पि पाए, इरियासमियस्स संकमट्ठाए / वावजेज कुलिंगी, मरेज तं जोगमासज्ज॥१॥णय तस्स तन्निमित्तो, बंधो सुहमो विदेसिओ समये। अणवज्जो उपयोगे, ण सव्वभावेण सो जम्हा''।।२।। स्वप्रान्तिके ऽप्यशुद्धचित्तसद्भावादीषद्वन्धो भवत्येव स च भवतोऽभ्युपगत एवाव्यक्तं तत्सावद्यमित्यनेनेति तदेवं मनसोऽपि क्लिष्टस्यैकस्यैव व्यापारबन्धसद्भावात यदुक्तं भवता प्राणी प्राणिज्ञानमित्यादि तत्सर्वं प्लवत इति / यदप्युक्तं पुत्रं पिता साभारभ्येत्यादि तदप्यनालोचिताभिधानं यते मारयामीत्येवं यावन्न चित्तपरिणामोऽभूतावन्न कश्चिद्व्यापादयति एवं भूतचित्तपरिणतेश्च कथमसंक्लिष्टता चित्तसंक्लेशे चावश्यंभावी कर्मबन्ध इत्युभयोरपि संवादोऽत्रेति / यदपि च तैः क्वचिदुच्यते यथा परव्यापादितपिशितभक्षणे परहस्ताकृष्टाङ्गारदाहाभाववन्न दोष इति तन्न पिशितभक्षणेऽनुमतिरप्रतिहता ऽस्माच कर्मबन्ध इति / तथा चान्यैरप्यभिहितम् / “अनुमन्ता विशसिसता, संहार्ता क्रयविक्रयी। संस्कती चोपभोक्ता च, घातकश्चाष्टघातकाः" यच कृतकारितानुमतिरूपमादानत्रयं तैरभिहितं तचैनेन्द्रमतलवास्या दनमेव तैरकारीति। तदेवं कर्मचतुष्टयं नोपचयं यातीत्येवं तदभिदधानाः कर्मचिन्तातो नष्टा इति सुप्रतिष्ठमिदमिति // 26 // अधुनैतेषां क्रियावादिनामनर्थपरंपरां दर्शयितुमाह इचेयाहिय दिट्ठीहिं,सातागारवणिस्सिया। सरणं ति मन्नमाणा, सेवंती पावगंजणा // 30 //
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy