________________ कम्म 330 - अभिधानराजेन्द्रः - भाग 3 कम्म नि चत्वारि / पचविंशतिसप्तविंशत्युदययोः पुनरिमानि चत्वारि सत्तास्थानानि तद्यथा द्विनवतिस्विनवतिरे केनिनवतिरष्टाशीतिश्च / सर्वाङ्कस्थानानि / सर्वसंख्यया पुनरे के नित्रिंश-- 21 25 26 27 28 29 30 31 द्वन्धे चतुश्चत्वारिंशत् सत्तास्थानानि त्रिंशद्न्धकस्यापि तान्येवाष्टावुदयस्थानानितान्येव प्रत्येकं सत्तास्थानानि केवलमिहैकविंशत्युदये आद्यानि द्विनवत्यष्टाशीतिषडशीत्यशीत्यष्टसप्ततिरूपाणि पश्च सत्तास्थानानि तिर्यग्गतिप्रायोग्यामेव त्रिंशतं बनतो वेदितव्यानि न मनुष्यगतिप्रायोग्या तस्यास्तीर्थकरनामसतित्वात्। देवगतिप्रायोग्या तु त्रिंशदाहारक द्विक सहिता सा एकविंशत्युदये न संभवति त्रिंनवत्येकाननवती मनुष्यगतिप्रायोग्यां त्रिंशतं बनतो देवस्य वेदितव्ये षडविंशत्युदये च तान्येवं पश सत्तास्थानानि / षडविशत्युदयो हि तिरश्चां मनुष्याणां वा पर्याप्तावस्थायां न च तदानीं देवगतिप्रायोग्या मनष्यगतिप्रायोग्यायास्त्रिंशतो बन्धोऽस्तीति त्रिनवत्येकोननवती न प्राप्येते शेषं तथैव सर्वाङ्कस्थापना 21 25 26 27 28 29 30 31 सर्वसंख्यया त्रिंशद्वन्धे द्विचत्वारिंशत्सत्तास्थानानि एकत्रिंशद्न्धकस्य एकविधबन्धकस्य च उदयसत्तास्थानसंवेधस्तद्यथा प्राग्मनुष्यस्योक्तस्तथैव वक्तव्यः। तदेवमिन्द्रियाण्यधिकृत्य संवेध उक्तः। इयकम्मपगइठाणाई, सुहबंधुदयसंतकम्माणं / गइयाइएहिं अट्ठसु, चउप्पगारेण नेयाणि / / 66 / / इत्युक्तेन प्रकारेण बन्धोदयसत्तानां संबन्धीनि कर्मप्रकृतिस्थानानि सुष्ठ अत्यन्तमुपयोगं कृत्वा गत्यादिभिः (प्रकारैर्वाच्यानि) गइइंदिए य काए, जोए वेए कसायनाणे य। संजमदंसण्णलेसा, भवसम्मे सन्निआहारे॥६७।। इत्येवंरूपैश्चतुर्दशभिर्गिणास्थानैरष्टसु अनुयोगद्वारेषु / संतपयपरूवणाया, दय्वपमाणं च खेत्तफुसणाय। कालंतरं च भावे, अप्पाबहुयं च दराई॥६८|| इत्येवंरूपेषु ज्ञातव्यानि तत्र सत्पदप्ररूपणया संवेधो गुणस्थानकेषु सामान्येनोत्को विशेषतस्तु गतीन्दिगयाणि चाश्रित्य एतदनुसारेण काययोगादिभिर्गिणास्थानेषु वक्तव्यःप्रमाणादीन्यष्टानुयोग-द्वाराणि कर्मप्रकृतिप्रान्तादीन् ग्रन्थान् सम्यक् परिभाव्य वक्तव्यानि ते च कर्मप्रकृतिप्राभृतादयो ग्रन्था न संप्रति वर्तन्ते इति लेशतोऽपि दर्शयितुं नशक्यन्ते।यस्त्वैदंयुगीनेऽपि श्रुतेसम्यगतस्तमभियोगमास्थाय पूर्वापरौ परिणव्य दर्शयितुं शक्नाति तेनाऽवश्यं दर्शयितव्यानि प्रज्ञोन्मेषो हि सतामद्यापि तीव्रतीव्रतरक्षयोपशमभावेनासीमो विजायमानो लक्ष्यमाणो लक्ष्यते। अपिचान्यदपि यत्किंचिदपि क्षुण्ण्मापतितं तत्तेनापनीय तस्मिन् स्थानेऽन्यत् समीचीनमुनदेष्टव्यं सन्तो हि परोपकारकरणैकरसिका भवन्तीति कथं पुनरष्टस्वनुयोगद्वारेषु बन्धोदयसत्तास्थानानि ज्ञातव्यानीत्याह चतुःप्रकारेण प्रकृतिस्थित्यभागप्रदेशरूपेण प्रकृतिगतानि बन्धोदयसत्तास्थानानि प्राय उक्तानि एतनुसारेण | स्थित्यनुभागप्रदेशगतादीन्यपि भावनीयानि। इह बन्धोदयसत्तास्थान संवेधे चिन्त्यमाने उदयग्रहणेनोदीरणाऽपि गृहीता द्रष्टव्या / उदये सत्युदीरणाया अपि भावात् (एतद्विशेषतो वर्णनं सप्ततिकानामकषष्ठकर्मग्रन्थप्रकरणतोऽवसेयः) कर्म०६ क० / इह बन्धोदयसत्कर्मणां संवेधश्चिन्तितः सोऽपि सामान्येन ततो बन्धोदय सत्कर्मसु विशेषजिज्ञासायामतिदेशमाह। दुरहिगमनिपुणपरमत्थ रुइरबहुभंगदिट्ठिवायाओ। अत्था अणुसरियव्वा, बुधोदयसंतकम्माणं // 11 // दुःखेन महता कष्टे न प्रमाणनयनिक्षेपादिभिरधिगमो निपुणः सूक्ष्मबुडिगम्यः परमार्थो यथावस्थितार्थो रुचिरः सूक्ष्मतरार्थः / तत्र पटुप्रज्ञानं मनःप्रह्लादकरो बहुभङ्गो बहुविकल्पो दृष्टिबादस्तस्माद्वन्धोदयसत्कर्मणां विषयेऽर्थी विशेषरूपा अनुसतव्या ज्ञातव्याः / इह तु संक्षिप्तरुचिसत्वानुग्रहप्रवृत्ततया ग्रन्थगौरवभयान्नोच्यन्ते कर्म०६ क०। प० सं०। "दुविहं समेच मेहावि, किरियमक्खायमणेलिसं"(द्वे विधे प्रकारावस्येति किं तत्कर्म तच्चेर्याप्रत्ययं सांपरायिकं च आचा०११ श्रु० 1 अ०। (विशेषतो व्याख्या उवहाणसुय शब्दे) "संपराइयणियच्छंति' द्विविधं कर्म इर्यापथं सांपरायिकंच सूत्र०१ श्रु०॥ चतुर्विधं कर्भचयं न गच्छिति भिक्षुसमये इति तदभिधित्सुराह। अहावरं पुरक्खायं, किरियावाइदरिसणं / कम्मचिंतापणट्ठाणं, संसारस्स पवडणं / / अथेत्यानन्तर्ये अज्ञानवादिमतानन्तरमिदमन्यत् पुरा पूर्वामारण्यात कथितं किं पुनस्तदित्याह। क्रियावादिदर्शनम्। क्रियैव चैत्यकर्मादिका प्रधानं मोक्षङ्गमित्येवंवदितुंशीलं येषां ते क्रियावादिनस्तेषां दर्शनमागमः क्रियावादिदर्शनम् / किं भूतास्ते क्रियावादिन इत्याह / कर्मणि ज्ञानावरणादिके चिन्ता पर्यालोचनं कर्मचिन्ता तस्याः प्रणष्टा अपगताः कर्मचिन्ताप्रणष्टाः / यतस्ते अविज्ञानाद्युपचितं चतुर्विधं कर्मबन्धं नेच्छन्त्यतः कर्मविन्ताप्रणष्टास्तेषां चेदं दर्शनं दुःखस्कन्धस्यासातोदयपरंपराया विवर्धनं भवति। क्वचित्संसारवर्धनमिति पाठः। ते ह्येयं प्रतिपाद्यमानाः संसारस्य वुद्धिमेव कुर्वन्ति नोच्छेदमिति। (35) यथा ते कर्मचिन्तातो नष्टास्तथा दर्शयितुमाह जाणं कारण णाउट्ठी, अबुहो जं च हिंसति। पुट्ठो संवेदइ परं, अवियत्तं खु सावजं // 25|| यो हि जानन्नवगच्छन् प्राणिनो हिनस्ति कायेन चानाकुट्टी कुट्टच्छेदने। आकुट्टनमाकुट्टः स विद्यते यस्यासावाकुट्टी नाकुट्यनाकुट्टी। इदमुक्तं भवति / यो हि कायादोर्निमित्तात् केवलं मनोव्यापारेण प्राणिनो व्यापादयति नच कायेन प्राण्यवयवानां छेदनभेदनादिके व्हापारे वर्तते नतस्याऽवद्यम्। तस्य कर्मोपचयो न भवतीत्यर्थः। तथाऽबधोऽजानानः कायव्यापारमात्रेण यं च हिनस्ति प्रणिनं तत्रापि मनोव्यपाराभावान्न कौपचय इति अनेनच श्लोकार्धेन यदुक्तं नियुक्तिकृता यथा 'चतुर्विध कर्मनोपचीयते भिक्षुसमय इति'' तत्र परिज्ञोपचितमविज्ञोपचिताख्य भेदद्वयं साक्षादुपात्तं शेषं त्वीर्यापथस्वप्नान्तिकभेदद्वयं चशब्देनोपात्तम्। तोरणमीर्या गमनं तत्संबद्धः पन्था ईर्यापथस्तत्प्रत्ययं कर्मेर्यापथम्। एतदुक्तं भवति। पथि गच्छतो यथाकथञ्चिदनभिसंधेर्यत्प्राणिव्यापादनं भवति कर्मणश्च यो न भवति / तथा स्वप्नान्तिकमिति / स्वप्न एव लोकोक्त्या स्वप्नान्तः स विद्यते यस्य तत्सप्नान्तिकं तदपि न कर्म बन्धाय यथा स्वप्ने भुजि क्रियायां तृप्तयभावस्तथा कर्मणोऽपीति कथंतर्हि तेषां कर्मेपिचयो भवतीत्युच्यते / यद्यसौ हन्यमानः प्राणी