________________ कम्म 329 - अभिधानराजेन्द्रः - भाग 3 कम्म बध्नतः सप्त उदयस्थानानि तानि चाष्टाविंशतिबन्धकानामिव दृष्टव्यानि नवरं त्रिंशदुदयः सम्यग्दृष्टीनामेव वक्तव्यः यतएकोनत्रिंशद्वन्धस्तीर्थकरनाम च बन्धमायाति सम्यग्दृष्टीनामिति सर्वेष्वपि च उदयस्थानेषु द्वे द्वे सत्तास्थाने तद्यथा त्रिनवतिरेको ननवतिश्च / आहारकसंयतस्य त्रिनवतिरेवं सर्वसंख्यया चतुर्दश। आहारकद्विकसहितत्रिंशत्याहारकबन्धहेतोर्विशिष्टसंयमस्याभावात् द्वयोरप्युदयस्थानयोः प्रत्येकमेकं सत्तास्थानं द्विनवतिः / एकत्रिंशद्वन्धकस्य एकमुदयस्थानं त्रिंशत् एकं सत्तास्थानं त्रिनवतिः। एकविधबन्धकस्य एकमुदयस्थानं त्रिंशत्, अष्टौ सत्तास्थानानि तद्यथा त्रिनवतिः द्विनवतिरेकाननवतिः अष्टाशीतिः अशीतिःएकोनाशीतिः षट् सप्ततिः पञ्चसप्ततिश्च / सर्वबन्धोदयस्थानापेक्षया सत्तास्थानानां शतमेकोनषष्ट्यधिकं तद्यथा त्रयोविंशतिपञ्चविंशतिषडविंशतिषु चतुर्विशतिश्चतुविंशतिः सत्ता अष्टाविंशतिबन्धे षोडश मनुजगतितिर्यगतिप्रायोग्यैकोनत्रिंशत्रिंशद्वन्धे चतुर्विशतिश्चतुर्विंशतिः। देवगति-प्रायोग्यतीर्थकरसहितैकोनत्रिंशद्वन्धे चतुर्दश एकत्रिंशद्वन्धे एकमेव प्रकृति बन्धे अष्टाविति, बन्धाभावे उदयस्थानसत्तास्थानयोः परस्परसंवेधः सामान्यतः संवेधचिन्तायामिव वेदितव्यः / संप्रति देवानां पञ्चविंशतिबन्धकानां षट्स्वपि उदयस्थानेषु प्रत्येकवे द्वे सत्तास्थाने तद्यथा द्विनवतिरष्टाशीतिश्च / एवं षडविंशत्येकोनत्रिंशद्वन्धकानामपि वक्तव्यम् / उद्योतसंहिता तिर्यक्पञ्चेन्द्रियप्रायोग्यां त्रिंशतमपि यध्नतामेवमेव तीर्थकरसहितां पुनस्त्रिंशतमर्थान्मनुष्यगतिप्रायोग्यां बध्नतां षट् स्वपि उदयस्थानेषु द्वे द्वे सत्तास्थाने तद्यथा त्रिनवतिरेकोननवतिश्च / सर्वसंख्यया सत्तास्थानानि षष्टिः तदेवं गतिमाश्रित्योक्तम्। सम्प्रतीन्द्रियमाश्रित्याभिधीयते इगविगले दियसगले, पणपंच य अट्ठबंधठाणाणं पणछक्के कारुदया, पण पण बारस य संताणि // 6 // एकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियाणां यथाक्रम बन्धस्थानानि पञ्च पञ्च अष्टैा। तत्रैकेन्द्रियाणां पञ्च बन्धस्थानानि तद्यथा त्रयोविंशतिः पञ्चविंशति: षडविंशतिरेकानत्रिंशस्त्रिंशत् / तत्र देवगतिप्रायोग्यामेकानत्रिंशतं वर्जयित्वा शेषाणि सण्यपि सर्वगतिप्रायोग्यानि बन्धस्थानानि सप्रभेदानि वक्तव्यानि। विकलेन्द्रियाणां त्रयाणामपीत्येवं पञ्च पञ्च बन्धस्थानानि / पञ्चेन्द्रियाणां (त्रयोविंशतिः पञ्चविंशतिः षडविंशतिरष्टा-विंशतिरेकोनत्रिंशत् त्रिंशदेक त्रिंशदेकं चेति) सर्वाण्यपि बन्णस्थानानि सर्वगतिप्रयोग्यानि सप्रभेदानि द्रष्टव्यानि / संप्रत्युदयस्थानान्युच्यन्ते (पणछक्केकारुदयत्ति) एकेन्द्रियविकलेन्द्रियपोन्द्रियाणां यथाक्रमं पञ्च षडे कादश उदयस्थानानि / तत्रैकेन्द्रियाणाममूनि पञ्च उदयस्थानानि तद्यथा एकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः षडविंशतिः सप्तविंशतिः एतानि सप्रभेदानि प्रागिव वक्तव्यानि / विकलेन्द्रियाणां षट् उदय स्थानानि तद्यथा एकविंशतिः षडविंशतिरष्टाविशतिरेकोनत्रिंशत् त्रिंशदेकत्रिंशत्। एतान्यपि यथाऽधस्तादुक्तानि तटाव वक्तव्यानि / पशेन्द्रियाणाममून्ये - कादशोदयस्थानानितद्यथाविंशतिरेकविंशतिः पञ्चविंशतिः षडविंशतिः / सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत् त्रिंशत् एकत्रिंशत् नवाष्टै।। एकेन्द्रियविकलेन्द्रियसत्कोदयस्थानानि वर्जयित्वा शेषाणि सर्वाण्यपि पञ्चेन्द्रियाणां सग्रभेदानि वक्तव्यानि। संप्रति सत्तास्थानान्युच्यन्ते (पण पण वारस य संताणित्ति)एकेन्द्रियविकलेन्द्रियपञ्चकन्द्रियाणां यथाक्रम पञ्चपञ्चद्वादश सत्तास्थानानि।तत्रैकेन्द्रियविकलेन्द्रियाणां पञ्च इमानि तद्यथा द्विनवतिरष्टाशीतिरंषडशीतिरशीतिरष्टसप्ततिश्च। पञ्चेन्द्रियाणां (त्रिनवतिर्द्विनवतितिरेकाननवतिरष्टाशीतिः षडशीतिरशीतिरेकानाशीतिरष्टसप्ततिः षट्सप्ततिः पञ्चसप्ततिर्नयाष्टा चेति) सर्वाण्यपि सत्तास्थानानि तदेवं सामान्यता बन्धोदयसत्तास्थानान्युक्तानि। संप्रति संवेध उच्यते एकेन्द्रियाणां त्रयाविंशतिबन्धकानामाद्येषु चतुर्वृदयस्थानेषु पूर्वोक्तानि पञ्च पञ्च सत्तास्थानानि / सप्तविंशत्युदयेष्वष्टसप्ततिवानि शेषाणि चत्वारि एवं पञ्चविंशतिषडविंशत्येकोनत्रिंशद्वन्धकानामपि वक्तव्यं सर्वसंख्यया सत्तास्थानानि विशं शतम् / विकलेन्द्रियाणां त्रयोविंशतिबन्धकानामेकविंशत्युदये षडविंशत्युदये च पञ्च पञ्च सत्तास्थानानि शेषेषु चतुर्वृदयस्थानेष्वष्टसप्ततिवानि शेषाणि चत्वारि चत्वारि सत्तास्थानानि एवं पञ्चविंशतिषडविंशत्येकोनत्रिंशत्रिशद्रन्धकानामपि वक्तव्यं सर्वसंख्यया सत्तास्थानानि त्रिशं शतम्। पञ्चेन्द्रियाणां त्रयोविंशतिबन्धकानां षडुदयस्थानानि तद्यथा एकविंशतिः षडविंशतिरष्टाविंशतिरेकोनत्रिंशत् त्रिंशत् एकत्रिंशत्। एतानि तिर्यक्पञ्चेन्द्रियान मनुष्याश्चांधिकृत्य भावनीयानि। अत्रैकविंशत्युदयेषु च पञ्च पञ्चानन्तरोक्तानि सत्तास्थानानि शेषेषु तूदयेष्वष्टसप्ततिवर्जानि शेषाणि चत्वारि चत्वारि सत्तास्थानानि सर्वसंख्यया षडविंशतिः सत्तास्थानानि / पञ्चविंशतिबन्धकस्याष्टो उदयस्थानानि तद्यथा एकविंशतिः पञ्चविंशतिः षडविंशतिः सप्तविंशतिरष्टाविंशतिरेकोन-त्रिंशत् त्रिंशदेकत्रिंशत्। इहैकविंशत्युदये षडविंशत्युदये च पञ्चपञ्चानन्तरोक्तानि सत्तास्थानानि पञ्चविंशत्युदये सप्तविंशत्युदये च द्वे द्वे सत्तास्थाने तद्यथा द्विनवतिरष्टाशीतिश्च शेषेष्वष्टाविंशत्यादिषु चतुर्वृदयस्थानेषु प्रत्येकमष्टसप्ततिवानि शेषाणि चत्वारि चत्वारि सत्तास्थानानि सर्वसंख्यया विंशत् सत्तास्थानानि / एवं षडविंशतिबन्धकानामपि अष्टाविंशतिबन्धकानामष्टा-वुदयस्थानानि तद्यथा एकविंशतिः पञ्चविंशतिः षडविंशतिः सप्तविंशतिरष्टाविंशतिरेकानत्रिंशत् त्रिंशत् एकत्रिंशत् एतानि तिर्यक्पञ्चेन्द्रियमनुष्यानधिकृत्य वेदितव्यानि / एकविंशत्यादिष्वेकोनत्रिंशत्पर्यन्तेषु प्रत्येकं द्वे द्वे सत्तास्थाने तद्यथा द्विनवतिरष्टाशीतिश्च / त्रिंशदुदये चत्वारि द्विनवतिरष्टाशीतिः षडशीतिरशीीतिश्च / एकोननवतिस्तीर्थकरनामसत्कर्मणो मिथ्यादृष्टर्नरकगतिप्रायोग्यं बनतो मनुष्यस्यावसेया शेषाणि पुनः सामान्येन तिरश्चो मनुष्यान्वाऽधिकृत्य वेदितव्यानि / एकत्रिंशदुदये त्रीणि तद्यथा द्विनवतिरेष्टाशीतिः षडशीतिश्च एतानि तिर्यक्पञ्चेन्द्रियाणामवसेयानि अन्यत्र पञ्चेन्द्रियस्यसत एकत्रिंशदुदयाभावात् षडशीतिश्च मिथ्यादृष्टीनां तिर्यक्पश्चेन्द्रियाणामवसे या न सम्यग्दृष्टीना सम्यग्दृष्टीनामवश्यं देवद्विक बन्धसंभवेनाष्टाशीतिसंभवात् अत्र सर्वसंख्यया सत्तास्थानान्ये कोनविंशतिः एकोनतिंशद्वन्धकस्य तान्येवाष्टावुदयस्थानानि तत्रैकविंशत्युदयेषडविंशत्युदये च सप्त सप्त सत्तास्थानानि तद्यथा द्विनवतिरष्टाशीतिः षडशीतिरशीतिः षट्सप्ततिस्विनवतिरेकाननवतिः। तत्र तिर्यग्गतिप्रा-योग्यामेकानत्रिंशतं बध्नतः आद्यानि पञ्च, मनुष्यगतिप्रायोग्यां बध्नत आद्यानि चत्वारि देवगतिप्रायोग्यां बनतोऽन्तिमे द्वे अष्टाविंशत्येकानत्रिंशस्त्रिशदुदयेषु तान्येवाष्टसप्ततिवानि षट् सत्तास्थानानि / एकत्रिंशदुदये आद्या