________________ कम्म 328 - अभिधानराजेन्द्रः - भाग 3 कम्म विंशतिः षडविंशतिरेकोनत्रिंशत् त्रिंशत्। अत्र पञ्चविंशतिः षडविंशतिश्च पर्याप्त बादरप्रत्येकसहित-मेकेन्द्रियप्रायोग्यं बध्नतो वे दितव्या / अत्र स्थिरास्थिरशुभाशुभयशःकीर्ति 2 भिरष्टा भङ्गाः षडविंशतिरातपोद्योतान्यतरसहिता भवति ततोऽत्र भङ्गाः षोडश एकोनत्रिंशत् मनुष्यगतिप्रायोग्या तिर्यक्पञ्चेन्द्रियप्रायोग्या च सप्रभेदाऽवसेया। त्रिंशत्पुनस्तिर्यक्पश्चेन्द्रियप्रायोग्या उद्योतसहिता अष्टाधिकषट्चत्वारिंशतच्छसंख्यभेदोपेता प्रागिव वक्तव्या / या तु मनुष्यगतिप्रायोग्यतार्थकरनामसहिता तत्र स्थिरास्थिरशुभाशुभयशःकीर्ति 2 भिरिष्टौ भङ्गाः / संप्रति उदयस्थान्यभिधीयन्ते (पण नव एक्कारछक्कगंउदयत्ति) नैरयिकाण्णां पञ्च (उदयाः) उदयस्थानानि तद्यथा एकविंशतिः पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत् / एतानि सप्रभेदानि प्रागिव वक्तव्यानि। तिरश्चां नव उदयस्थानानि तद्यथा एकविंशतिश्चतुर्विंशतिःपञ्चविंशतिः षडविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत् त्रिंशदेकत्रिंशत् / एतानि च एके न्द्रियविकलेन्द्रियसवै क्रियावैक्रियतिर्यक्पञ्चेन्द्रियानधिकृत्य समभेदानि प्रागिव वक्तव्यानि मनुष्याणामेकादशोदयस्थानानि तद्यथा विंशतिरेकुविंशतिःपञ्चविंशतिः षडविंशतिःसप्तविंशतिरष्टाविंशतिरेकोनत्रिंशस्त्रशदेकत्रिंशत् नव अष्टौ। एतानि च स्वभावस्थमनुष्यवैक्रियमनुष्याहारकसंयतः तीर्थकराहारकसंयोगिकेवलिनोऽधकृत्य प्राग्वङ्गावनीयनि। देवानां षट् उदयस्थानानि तद्यथा एकविंशतिः पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत् त्रिंशत् / एतान्यपि प्रागिव सप्रपञ्चमुक्तानि भूय उच्यन्ते / संप्रति सत्तास्थानान्यभिधीयते (ति पंच एक्कारस चउक्कंति) नैरयिकाणां सत्तास्थानानि त्रीणि तद्यथा द्विनवतिरेकोननवतिरष्टाशीतिश्च / एकाननवतिर्बद्धतीर्थकरनाम्रो मिथ्यात्वं गतस्य नैरकेषूत्पद्यमानस्यावसे या त्रिनवतिस्तु न संभवति तीर्थकराहारकसत्कर्मणो नरकेष्त्पादाभावात् / तिरश्चां पञ्च सत्तास्थानानि तद्यथा द्विनवतिरष्टाशीतिः षडशीतिरशीतिरसप्ततिश्च / तीर्थकरसंबन्धीनि क्षपकसंबन्धीनि च सत्तास्थानानि संभवन्ति तीर्थकरनाम: क्षपक श्रेण्याश्च तिर्यक्षु असंभवात्। मनुष्याणामेकादश सत्तास्थानानि तद्यथा त्रिनवतिर्दिनवतिरेकोननवतिरष्टाशीतिः षडशीतिरशीतिरेकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिर्नव अष्टा च। अष्टसप्ततिश्च न संभवति मनुष्याणामवश्यं मनुष्यद्विकसंभवात् / देवानां चत्वारि सत्तास्थानानि तद्यथा त्रिनवतिर्द्विनवतिरेकोननवतिरष्टाशीतिः शेषाणि तु न संभवन्ति शेषा हि कानिचिदेकेन्द्रियसंबन्धीनि कानिचित् क्षपकसंबन्धीनि ततः कथं तानि देवानां भवितुमर्हन्ति / संप्रति संधेण उच्यते / नैरयिकस्य तिर्यग्गतिप्रायोग्यामेकोनत्रिंशत् बध्नतः पञ्च उदयस्थानानि तानि चानन्तरमेवोक्तानि तेषु प्रत्येकं द्वे द्वे सत्तास्थाने तद्यथा द्विनवतिरष्टाशीतिः। तीर्थकरसत्कर्मणस्तिर्यग्गतिप्रायोग्य-बन्धासंभवात् एकोननवतिर्न लभ्यते मनुष्यगतिप्रायोग्यां त्वेकानत्रिंशतं बध्नतः पञ्चस्वपि उदयस्थानेषु प्रत्येकं त्रीणि त्रीणि सत्तास्थानानि तद्यथा द्विनवतिरेकोननवतिरष्टाशीतिः / तीर्थकरसत्कर्मा हि नरकेषूत्पन्नो यावन्मिथ्यादृष्टिस्तावदेकानत्रिंशतं बध्नाति सम्यक्त्वं प्रतिपन्नस्त्रिंशतं तीर्थकरनामकर्मणोऽपि बन्धात्। तिर्यग्गतिप्रायोग्यामुद्योतसहिता त्रिंशतं बध्नतः पञ्चस्वपि उदयस्थानेषु प्रत्येके द्वे द्वे सत्तास्थाने तद्यथा द्विनवतिरष्टाशीतिश्च / एकाननवत्यभावभावना प्रागिव भावनीया। मनुष्यप्रायोग्यां तीर्थकरसहिता त्रिंशतं बध्नतः पञ्चस्वपि उदयस्थानेषु प्रत्येकमेकैकं सत्तास्थानमेकाननवतिः सर्वबन्धस्थानोदयस्थानापेक्षया सत्तास्थानानि चत्वारिंशत् / संप्रति तिरश्यां संवेध उच्यते / त्रयोविंशतिबन्धकस्य तिरश्च एकविंशत्यादीनि चतुरुदयस्थानानितानि चानन्तरमेवोक्तानि / तत्राद्येषु चतुर्वेकविंशतिचतुर्विंशतिपञ्चविंशति षडविंशतिरूपेषु प्रत्येकं पञ्च सत्तास्थानानि तद्यथा द्विनवतिरष्टाशीतिः षडशीतिरशीतिरष्टसप्ततिः / इहाष्टसप्ततिस्तेजोवायून तद्भवादुद्वृत्तान्वाधिकृत्य वेदितव्या शेषेषु तु सप्तविंशत्यादिषु पञ्चसूदयस्थानेषु अष्टाविंशत्यादिषु पञ्चसूदयस्थानेषु अष्टसप्ततिवर्जानि चत्वारि सत्तास्थानानि सप्तविंशत्याधुदयेषु हि नियमतो मनुष्यगतिद्विकसंभवादष्टसप्ततिर्न लभ्यते / एवं पञ्चविंशत्येकोनत्रिंशत्रिंशद्वन्धकानामपि वक्तव्यं नवरमेकानत्रिंशतं मनुष्यगतिप्रायोग्यां बध्नतः सर्वेष्वप्युदयस्थानेष्वष्टसप्ततिवर्जीनि चत्वारि चत्वारि सत्तास्थानानि अष्टाविंशतिबन्धकस्य अष्टावुदयस्थानानि तद्यथा एकविंशतिः पञ्चविंशतिः षडविंशतिःसप्तविंशतिरष्टा-विंशतिरेकोनत्रिंशत् त्रिंशत् एकत्रिंशत् / तत्र एकविंशतिषडविंशत्यष्टाविंशत्येकोनत्रिंशत्तत्रिंशद्रूपाः पञ्च उदयाः क्षायिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनांवा द्वाविंशतिसत्कर्मणां पूर्वबद्धायुषामवगन्तव्याः / एकैकस्मिंश्च द्वे द्वे सत्तास्थाने तद्यथा द्विनवतिरष्टाशीतिश्च / पञ्चविंशतिसप्तविंशत्युदयौ वैक्रियतिरश्चां वेदितव्यौ तत्रापि तेएव द्वेद्वे सत्तास्थाने त्रिंशदेकत्रिंशदुदयौ सर्वपर्याप्तिपर्याप्तानां सम्यग्दृष्टीनां वाऽवसेयौ। एकैकस्मिंश्च त्रीणि त्रीणि सत्तास्थानानि तद्यथा द्विनवतिरष्टाशीतिः षडशीतिश्च / षडशीतिर्मिथ्यादृशामवगन्तव्या सम्यग्दृष्टीनां च न संभवति तेषामवश्यं देवद्विकादिबन्धसंभवात् तदेवं सर्वबन्धस्थान-सर्वोदयस्थानापेक्षया सत्तास्थानानां द्वे शते अष्टादशाधिके / तथाहि त्रयोविंशति पंच एकविंशतिषडविंशत्येकोनस्त्रिांशद्वन्धकेषु प्रत्येकं चत्वारिशचत्वारिंशदष्टाविंशतिबन्धे चाष्टादश। संप्रति मनुष्याणां संवेध उच्यते तत्र मनुष्यस्य ज्योविंशतिबन्धकस्य उदयाः सप्त तद्यथा एकविंशतिःपञ्चविंशतिःषडविंशतिःसप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत् त्रिंशत् शेषाः केवल्युदया इति न संभवन्ति त्रयोविंशति दन्धकस्य पञ्चविंशतिसप्तविंशत्युदयौ च वैक्रियकारिणौ वेदितव्यौ एकैकस्मिंश्चत्वारि चत्वारि सत्तास्थानानि तद्यथा द्विनवतिरष्टाशीतिः षडशीतिरशीतिश्च पञ्चविंशतिसप्तविंशत्युदये च द्वे द्वे सत्तास्थाने तद्यथा द्विनवतिरष्टाशीतिश्च शेषाणि तु सत्तास्थानानि तीर्थकरक्षपक श्रेणिके वलिशेषतिप्रायोग्यानीति न संभवन्ति सर्वसंख्यायाचतुर्विंशति: एवं पञ्चविंशतषडविंशतिबन्धकानामति वक्तव्यं मनुजगतिप्रायोग्यां चैकोनत्रिंशतं त्रिंशतं च बधाता मप्येवमेव / अष्टाविंशतिबन्धकानां सप्तोदयास्तद्यथा एकविंशतिः पञ्चविंशतिः षडविंशतिः सप्तविंशतिरेकोनविंशत्रिशत् एकत्रिंशत् तत्र एकविंशतिषडविंशत्युदयौ अविरतसम्यग्दृष्टे: करणापर्याप्तस्य पञ्चविंशतिसप्तविंशत्युदयौ वैक्रियाहारकसंयतस्य चाष्टाविंशत्येकोनत्रिंशतौ अविरतसम्यग्दृष्टीनां वैक्रियकारिणामाहारकसंयतानं चत्रिंशत् सम्यग्दृष्टीनां मिथ्यादृष्टीनां वा एकैकस्मिन् द्वे द्वे सत्तास्थाने तद्यथा द्विनवतिरष्टाशीतिश्च / आहारकस्य द्विनवतिरेव त्रिंशदुदये चत्वारि सत्तास्थानानि तद्यथा द्विनवतिरेकोननवतिरष्टाशीतिः षडशीतिश्च / तत्रैकोननवतिः नरकगतिप्रायोग्यामष्टाविंशति बनतो मिथ्यादृष्टे रवसेया सर्वसंख्यया अष्टाविंशतिबन्धे षोडश सत्तास्थानानि देवगतिप्रायोग्यामेकोनत्रिंशतं तीर्थकसहिता