________________ कम्म ३२६-अभिधानराजेन्द्रः - भाग 3 कम्म नैरयिकतिर्यक्पश्चेन्द्रियमनुष्यदेवानधिकृत्य वेदितव्यः। क्षायिकसम्यग्दृष्टः पूर्वबद्धायुष्कस्य एतेषु सर्वेष्वपि तस्य संभवात् / अविरतसम्यग्दृष्टिश्चापर्याप्तेषुनोत्पद्यते ततोऽपर्याप्तकोदयवर्जाः शेषा भङ्गाः सर्वेष्वपि वेदितव्याः / ते च पञ्चविंशतिः तत्र तिर्यपञ्चेन्द्रियानधिकृत्याष्टी मनुष्यानधिकृत्याष्टौ देवानप्यधिकृत्याष्टौ नैरयिकानधिकृत्यैकः / पञ्चविंशति-सप्तविंशत्युदयौ देवान् नैरयिकान् वैक्रियतिर्यग्मनुष्यांश्चाधिकृत्यावसेयौ। तत्र नैरयिकक्षायिकवेदकसम्यग्दृष्टिा देवस्त्रिविधसम्यग्दृष्टिरपि / उक्तं च चूर्णो "पण्णवीस सत्तवीसोदया य देवनेरइए वेउव्वियम्मि तिरियमणुए पडुच्च नेरइगोखाइगवेयगसम्मादिट्ठी देवा तिविहसम्मादिट्ठी वि तिभंगा'' षडविंशत्युदयस्तिर्यग्मनुष्याणां क्षायिकवेदकसम्यग्दृष्टीनां औपशमिक सम्यग्दृष्टिश्चतिर्यग्मनुष्येषु मध्येनोत्पद्यते इति त्रिविधसम्यग्दृष्टीनामिति नोक्तंवेदकसम्यग्दृष्टिनांच तिरश्चां द्वाविंशतिसत्कर्मणां वेदितव्यः / अष्टाविंशत्येकोनत्रिंशदुदयौ नैरयिकतिर्यग्मनुष्यदेवानां त्रिंशदुदयस्तिर्यक्पञ्चेन्द्रियमनुष्यदेवानामेकत्रिंशदुदयस्तिर्थक्पञ्चेन्द्रियाणाम्। अत्र भङ्गाः आत्मीया आत्मीयाः सर्वेऽपि द्रष्टव्याः / चत्वारि सत्तास्थानानि तद्यथा त्रिनवतिनिवतिरेकाननवतिरष्टाशीतिश्च / तत्र योऽप्रमत्तसंयतोऽपूर्वकरणो वा तीर्थकराहारकसहितामेकत्रिंशतं बन्ध्वा पश्चादविरतसम्यग्दृष्टिदेवो जातस्तमधिकृत्य त्रिनवतिः यस्त्वाहारकं कृत्वा परिणामपरावर्त्तनेन मिथ्यात्वमुपगम्य चतसृणांगतीनामन्यतमस्यांगतावुत्पन्नस्तस्य तत्र तत्र गतौ भूयोऽपि सम्यक्त्वं प्रतिपन्नस्य द्विनवतिर्देवमनुष्येषु मध्ये मिथ्यात्वमप्रतिपन्नस्यापि द्विनवतिः प्राप्यते एकोननवतिः देवनैरयिक मनुष्याणामविरत सम्यग्दृष्टीनाम् / ते हि त्रयोऽपि तीर्थकरनामसत्कर्माणोऽप्युत्पद्यन्ते इति तिर्यङ् न गृहीतःअष्टाशीतिश्चतुर्गतिकानामविरतसम्यग्दृष्टीनाम् / संप्रति संवेध उच्यते / तत्राविरतसम्यग्दृष्टरष्टावुिशतिबन्धकस्य अष्टावप्युदयस्थानानि तानि तिर्यन नुष्यानधिकृत्य तत्रापि पञ्चविंशतिसप्तविंशत्युदयौ / वैक्रियतिर्यङ्गनुष्यानधिकृत्य एकैकस्मिन् उदयस्थाने द्वे द्व सत्तास्थाने तद्यथा द्विनवतिरष्टाशीतिश्च / एकोनत्रिंशत् द्विधा देवगतिप्रायोग्या मनुष्यगतिप्रायोग्या च। तत्र देवगतिप्रायोग्या तीर्थकरनामसहिता तां च मनुष्या एव बध्नन्ति न तिर्यञ्चः एतेषां च उदयस्थानानि सप्त तद्यथा एकविंशतिः पञ्चविंशतिः षडविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत् त्रिंशत्। मनुष्याणामेकत्रिंशन्न भवति एकैकस्मिन्नुदयस्थाने द्वे सत्तास्थाने तद्यथा त्रिनवतिरेकोननवतिश्च / मनुष्यगतिप्रायोग्यां चैकोनत्रिंशतं बध्नतां देवनैरयिकाणां तत्र नैरयिकाणामुदयस्थानानि पञ्च तद्यथा एकविंशतिः पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशद्देवानां पञ्च तावदेतान्येव न त्रिंशत् सा च उद्योतवेदकानामवगन्तव्या एकैकस्मिन् द्वे उदयस्थाने तद्यथा द्विनवतिरष्टाशीतिश्च / मनुष्यगतिप्रायोग्यां त्रिंशतमविरतसम्यग्दृष्टयो देवा नैरयिकाश्च बध्नन्ति तत्र देवानामुदयस्थानानिषट् तान्येवंएकविंशतिः पञ्चविंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् तेषु उदयस्थानेषु प्रत्यकं द्वे द्वे सत्तास्थाने त्रिनवतिरेकोननवतिश्च नैरयिकाणामुदयस्थानाति पञ्च तेषु प्रत्येक सत्तास्थानमेकोननवतिः तीर्थकराहारकसत्कर्मणो नरकेषूत्पादाभावात्। तदेवं सामान्येन एकविंशत्यादिषु त्रिंशत्पर्यन्तेषु उदयस्थानेषु / सत्तास्थानानि प्रत्येकं चत्वारि चत्वारि तद्यथा त्रिनवतिः / द्विनवतिरेकाननवतिरष्टाशीतिश्च / एकत्रिंशदुदये द्वे नवतिरष्टाशीतिश्च। सर्वसंख्यया चतुःपञ्चाशत्। संप्रति देशविरतस्य बन्धादिस्थानान्युच्यन्ते (दुगठक्कट्ठ चउक्कं ति) देशविरतस्य द्वे बन्धस्थाने तद्यथा अष्टाविंशतिरेकोनत्रिंशत् तत्राष्टाविंशतिर्मनुष्यतिर्यक्पञ्चेन्द्रियस्य वा देशविरतस्य देवगतिप्रायोग्या / तत्राष्टौ भङ्गाः सैव तीर्थकरसहिता एकोनत्रिंशत् साचमनुष्यस्यैव। नतिरश्चां तीर्थकरसत्कर्मबन्धाभावात् अत्राप्य टौ भङ्गाः षट् उदयस्थानानि तद्यथा पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् एकत्रिंशत् तत्राधानिचत्वारि चत्वारि वैक्रियतिर्यग्मनुष्याणामत्र एकैको भङ्गः सर्वपदानां प्रशस्तत्वात् त्रिंशत्स्वभावस्थानामपि तिर्यग्मनुष्याणामत्र भङ्गानां चतुश्चत्वारिशच्छतम् / तच्च षडभिः संस्थानैः षडभिः संहननैः सुस्वरदुःस्वराभ्यां प्रशस्ता प्रशस्तविहायोगतिभ्यां च जायते दुर्भगानादेयायशःकीर्ती नामुदयो गुणप्रत्ययादेव न भवतीति तदाश्रिता विकल्पा न प्राप्यन्ते तिर्यग्मनुष्याणां प्रत्येकमेकैको भङ्गः (सर्वसंख्यया नवाशीत्यधिक शतद्वयम्) एकत्रिंशत् तिरश्चां अत्रापि त एव भङ्गाः (सर्वसंख्यया त्रिचत्वारिंशदधिकं चतुःशतम्) अत्र चत्वारि सत्तास्थानानि तद्यथा त्रिनवतिर्द्विनवतिरेकोननवतिरष्टाशीतिश्च तत्र योऽप्रमत्तोऽपूर्वकरणो वा तीर्थकराहारकं बन्ध्वा परिणामहासेन देशविरतो जातस्तस्य त्रिनवतिः। शेषाणां भावना अविरतसम्यग्दृष्टरिव कर्तव्या। संप्रति संवेध उच्यते तत्र मनुष्यस्य देशविरतस्याष्टाविंशतिबन्धकस्य पञ्च उदयस्थानानि तद्यथा पञ्चविंशतिः सप्तविशतिरष्टाविंशतिरे-कोनत्रिंशत् त्रिंशत्। एतेषु च प्रत्येक द्वे द्वे सत्तास्थाने तद्यथा द्विनवतिरष्टाशीतिश्च / एवं तिरश्चोऽपि नवरं तस्य एकत्रिंशदुदयोऽपि वक्तव्यः / तत्रापि चैते एव द्वे सत्तास्थाने एकोनत्रिंशद्वन्धो मनुष्यस्येव देशविरतस्य तस्योदयस्थानान्यनन्तरोक्तान्येव पञ्च तेषु प्रत्येक द्वेद्वे सत्तास्थानेतद्यथा त्रिनवतिरेकोनेनवतिश्च। तदेवं देशविरतस्य पञ्चविंशत्यादिषु त्रिंशत्पर्यन्तेषु चत्वारि चत्वारि सत्तास्थानानि एकत्रिंशदुदये द्वे सत्तास्थाने सर्वसंख्यया द्वाविंशतिः / संप्रति प्रमत्तसंयतस्य बन्धादिस्थानान्युच्यन्ते (दुगपणचउत्ति) प्रमत्तसंयतस्य द्वे बन्धस्थाने तद्यथा अष्टाविंशतिरेकोनत्रिंशत् / एते देशविरतस्येव भावनीये / पञ्च उदयस्थानानि तद्यथा पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत् त्रिंशत् (भाषाटीकायां तत्राद्यानि चत्वारि आहरकसंयतस्य वैक्रियसंयतस्य वेदितव्यानि इत्थमुपलभ्यते अवशिष्टः कस्येत्यनुक्तमतो निस्सारमिमं प्रमीणीमः) एतानि सर्वाण्यप्याहारकसंयतस्य वैक्रियसंतस्य वा वेदितव्यानि / त्रिंशत् स्वभावस्थसंयतस्यापि तत्र वैक्रियसंयतानामाहारकसंधतानां च पृथक पञ्चविंशति-सप्तविंशत्युदये प्रत्येकमेकैको (द्वौ द्वौ इति भाषापुस्तके) भङ्ग: अष्टाविंशतो एकोनत्रिंशति चैकैकः सर्वसंख्यया चतुर्दश। त्रिंशदुदयः स्वभावस्थस्यापि प्राप्यते द्वौ द्वौ ततश्चतुश्चत्वारिंशच्छतम् तच देशविरतस्यैव भावनीयं सर्वसंख्यया अष्टपञ्चाशदधिकं शतम् चत्वारि सत्तास्थानानि तद्यथा त्रिनवतिर्द्विनवतिरेकोननवतिरष्टाशीतिश्च। संप्रति संवेध उच्यते अष्टाविंशतिबन्धकस्य पञ्चस्वप्युदयस्थानेषु प्रत्येकं द्वे द्वे सत्तास्थाने तद्यथा द्विनवतिरष्टाशीतिश्च। तत्राहारकसंयतस्य द्विनवतिरेव आहारकसत्कर्मा ह्याहारकशरीरमुत्पादयतीति ततस्तस्य द्विनवतिरेव वैक्रियसंयतस्य पुन अपि तीर्थकरनाम-सत्कर्मणश्चाष्टाविंशति बध्नातस्त्रिनवतिरेकोननवतिः तथाहारकसंयतस्य त्रिनवतिरेवतस्यैको