________________ कम्म 325 - अभिधानराजेन्द्रः - भाग 3 कम्म तत्र एकविंशत्युदय एकेन्द्रियविकलेन्द्रियतिर्यक्पञ्च-न्द्रियमनुष्यदेवान-- धिकृत्य वेदितव्यः नरकेषु सासादनो नोत्पद्यते इति कृत्वा सद्विषय एकविंशत्युदयो न गृह्यतेतत्रैकेन्द्रियाणामेकविंशत्युदये बादरपर्याप्तकेन सह यशःकीर्त्ययशःकीर्तिभ्यां यौ द्वौ भङ्गौ तादेवे संभवतः न शेषाः सूक्ष्मेष्वपर्याप्तकेषु च मध्ये सासाादनस्योत्पादाभावात् / अत एव विकलेन्द्रियाणां तिर्यक्पञ्चेन्द्रियाणां मनुष्याणां च प्रत्येकमपर्याप्तकेन सहय एकैको भङ्गः स इह न संभवति किंतु शेषा एव।तेच विकलेन्द्रियाणां द्रौ द्वाविति षट् तिर्यक्पञ्चेन्द्रियाणामष्टौ मनुष्याणांमष्टौ देवानामप्यष्टौ सर्वसंख्यया एकविंशत्युदये द्वात्रिंशद्भगायश्चतुर्विंशत्युदये एकेन्द्रियेषु मध्ये उत्पन्नमात्रस्य अत्रापि बादरपर्याप्तकेन सहयशःकीर्त्ययशः कीर्तिभ्यां यौ द्वौ भङ्गौ तायेव संभवतः न शेषाः सूक्ष्मेषु साधारणेषु तेजोवायुषु च मध्ये सासादनस्योत्पादासंभवात्। पंचविंशत्युदयो देवेषु मध्ये उत्पन्नस्यायश्यं प्राप्यते न शेषस्य। तत्र चाष्टौ भङ्गाः ते च स्थिरास्थिरशुभाशुभयशःकीर्त्ययशःकीर्तिपदैरवसेयाः / (भाषाटीकायां सुभगदुर्भगादेयानादेययशःकीर्त्ययशःकीर्तिपदै: अष्ट भङ्गाः प्रतिपादिताः) षडविंशत्युदयो विकलेन्द्रियतिर्यक्पञ्चेन्द्रियमनुष्येषु मध्ये उत्पन्नमात्रस्य अत्राप्यपर्याप्तकेन सह य एकैको भङ्गः स न संभवति अपर्याप्तकमध्ये सासादनस्योत्पादाभावात् शेषास्तु संभवन्ति ते च विकलेन्द्रियाणां प्रत्येकं द्वौ द्वाविति षट् / तिर्यक्पञ्चेन्द्रियाणां द्वे शते अष्टाशीत्यधिके, मनुष्याणामपि द्वे शते अष्टाशीत्यधिके सर्वसंख्यया षडविंशत्युदये पंच शतानि ह्यशीत्यधिकानि सप्तविंशत्यष्टाविंशत्युदयौ न संभवतस्तौ हि उत्पत्यनन्तरमन्तर्मुहूर्ते सति भवतः सासदनभावस्योत्पत्त्यनन्तरमुत्कर्षतः किञ्चिदूनषमावलिकामानं कालं तत एतौ सासादनस्य प्राप्यते। एकोनत्रिंशदुदयो देवनैरयिकाणां स्वस्थानगतानां पर्याप्तानां प्रथमसम्यक्त्वात् प्रच्यवमानानां प्राप्यते / तत्र देवस्यैकोनत्रिंशददये भङ्गाः अष्टौ नैरयिकस्यैक इति सर्वसंख्यया नव / त्रिंशदुदयस्तिर्यग्मनुष्याणां पर्याप्तानां प्रथमसम्यक्त्वात प्रच्यवमानानां देवानां वा उत्तरवैक्रिये वर्तमानानां सासादनानाम् / तत्र तिरश्चां मनुष्याणां च त्रिंशदुदये प्रत्येकं द्विपञ्चाशदधिकान्येकादश शतानि / देवस्याष्टौ सर्वसंख्यया त्रयोविंशतिशतानि द्वादशाधिकानि / एकत्रिंशदुदयस्तिर्यक्पञ्चेन्द्रियाणां पर्याप्तानां प्रथमसत्यक्त्वात्प्रच्यवमानानाम्। अत्र भङ्गाः एकादश शतानि द्विपञ्चाशदधिकानि। इगचत्तिगारबत्तीस छ सयइगतीसिगारनवनउइ। सत्तरिगंसि गुत्तिस, चउदइगारचउसहि मिच्छुदया॥६२।। (इयं गाथा लिखितपुस्तकेष्वनुपलभ्यमानापि मुद्रितपुस्तकेषूपलभ्यते इति व्यारध्येयापि सोपयोगापि अस्मत्पुस्तके नास्तीतिन व्याख्यायते त्रुटितेति न संभावयामः किन्तु ग्रन्थकारैरेव न गृहीतित निश्चिनुमः / तत्वं केवलिनो विदन्ति) उक्तरूपाया एव भङ्गसंख्याया निरूपणार्थमाह तत्रान्तर्भाष्यागाथा बत्तीस दोन्नि अट्ठ य, बासीइसयाय पंच नव उदया। बारहिया तेवीसं, बानिकारस सया य॥६३॥ सुगमा सर्वभङ्ग संख्यया सप्तनवत्यधिकानि चत्वारिंशच्छतानि सासादनस्य द्वे सत्तास्थाने तद्यथा द्विनवतिरष्टाशीतिश्च। तत्र द्विनवतिर्य आहारकचतुष्टयं बध्वा उपशमश्रेणितः प्रतिपतन् सासादनभावमुपगच्छति तस्य लभ्यतेन शेषस्य अष्टाशीतिश्चतुर्गतिकानामपि सासादनानाम् / संप्रति संवेध उच्यते तत्राष्टाविंशतिंबध्नतः सासादनस्य द्वे उदयस्थाने तद्यथा त्रिंशदेकत्रिंशत् / अष्टाविंशतिर्हि सासादनस्य बन्धयोग्या भवति देवगतिविषया च / न च करणापर्याप्तसासादना देवगतियोग्यां बध्नाति ततः शेषा उदया न संभवन्ति। अत्र मनुष्यानधिकृत्य त्रिंशदुदये द्वे अपि सत्तास्थाने तद्यथा द्विनवतिरष्टाशीतिश्च तिर्यक्पश्शेन्द्रियान् सासादनानधिकृत्याष्टाशीतिरेव यतो द्विनवतिरुपशमश्रेणीतः प्रतिपततो लभ्यते नच तिरश्चानुपशमश्रेणिसंभवः। एकत्रिंशद्दयेऽप्यष्टाशीतिरेय यत एकत्रिंशदुदयस्तिर्यक्पञ्चेन्द्रियणां न च तिरश्चा द्विनवतिः संभवति प्रागुक्त्या युक्तेः / एकोनत्रिंशतं तिर्यक्पञ्चेन्द्रियमनुष्यप्रायोग्या बध्नतः सासादनस्य सप्ताप्युदयस्थानानि / तत्र एके न्द्रियविकलेन्द्रिय तिर्यक्पञ्चेन्द्रियमनुष्यदेवनैरयिकाणां सासादनानां स्वीयस्वीयोदयस्थानेषु वर्तमानानामेव सत्तास्थानानामष्टाशीतिः नवरं मनुष्यस्य त्रिंशदुदये वर्तमानस्योपशमश्रेणीतः प्रतिपततः सासादनस्य द्विनवतिः। एवं त्रिंशद्वन्धकस्यापि वक्तव्यं सर्वाण्वुदयस्थानान्यधिकृत्य सामान्येन सर्वसंख्यया सासादनस्याष्टादशसत्तास्थानानि। संप्रति सम्यग्मिथ्यादृष्टबन्धोदयसत्तास्थानान्यभिधीयन्ते (दुगतिगत्ति) तत्र द्वे बन्धस्थाने तद्यथा अष्टाविंशतिरेकोनत्रिंशत् / ततः तिर्यग्मनुष्याणां सम्यग्मिथ्यादृष्टीनां देवगतिप्रायोग्यमेव बन्धमायाति ततस्तेषामष्टाविंशतिः तत्र भङ्गाः अष्टौ। एकोनत्रिंशतं मनुष्यगतिप्रायोग्यां बध्नता देवनैरयिकाणामत्राप्यष्टौ भङ्गाः ते च उभयत्रापि स्थिरास्थिरशुभाशुभयशःकीयं यशः कीर्तिपदेरवसे याः / शेषास्तु परावर्त्तमानप्रकृतयः शुभा एव सम्यग्मिथ्यादृष्टीनां बन्धमायान्ति ततः शेषा भङ्गाः न प्राप्यन्ते / सर्वसंख्यया षोडश भङ्गाःत्रीण्युदयस्थानानि तद्यथा एकोनत्रिंशत् त्रिंशत् एकत्रिंशत्। तकैत्रोनत्रिंशति देवानधिकृत्याष्टौ भङ्गा नैरयिकानधिकृत्यैकः सर्वसंख्यया नव / त्रिंशति तिर्यक्पञ्चेन्द्रियानधिकृत्य पर्याप्त्यपयाप्तियोग्यानि द्विपञ्चाशदधिकानि एकादश शतानि मनुष्यानधिकृत्य एकादश शतानि द्विपञ्चाशदधिकानि / सर्वसंख्यया त्रयोविंशतिशतानि चतुरधिकानि / एकात्रिंशदुदयस्तिर्यक्पञ्चेन्द्रियानधिकृत्य तत्र भङ्गाः द्विपक्षाशदधिकान्येकादश शतानि सर्वोदयस्थानभङ्ग से ख्या चतुस्विंशच्छतानि पञ्चषष्ट्याधिकानि / संप्रति संवेध उच्यते सम्यग्मिथ्यादृष्टरेष्टाविंशतिबन्धकस्य द्वे उदयस्थाने तद्यथा त्रिंशत एकत्रिंशत् / एकै कस्मिन्नुदयस्थाने द्वे द्वे सत्तास्थाने तद्यथा द्विनवतिरष्टाशीतिश्च। एकानत्रिंशद्वन्धकस्य एकमुदयस्थानमेकोनत्रिंशत् अत्रापि द्वे सत्तास्थाने तदेवमैकैकस्मिन् उदयस्थाने द्वे द्वे सत्तास्थाने इति सर्वसंख्यया षट्। संप्रत्यविरतसम्यादृष्टबन्धोदयस्थानान्य-भिधीयन्ते (तिगट्ठचउत्ति) त्रीणि बन्धस्थानानि तद्यथा अष्टाविंशतिरे-कोनत्रिंशत् त्रिंशत् / तत्र तिर्यग्मनुष्याणामविरतसम्यग्दृष्टिनां देवगतिप्रयोग्यं च बध्नतामष्टाविंशतिः तत्राप्यष्टौ भङ्गा: अविरतसम्य-ग्दृष्टयो हि तिर्यग्मनुष्या न शेषगतिप्रायोग्यं बध्नति तेन नरकगतिप्रायोग्या अष्टाविंशतिर्न लभ्यते मनुष्याणां देवगतिप्रायोग्यां तीर्थकरसहितां बध्नतामेकोनत्रिंशत् / अत्राप्यष्टौ भङ्गाः। देवनैरयिकाणां मनुष्यगतिप्रायोग्यं बनतामेकोनत्रिंशत् अत्रापि त एवाष्टौ भङ्गाः तेषामेव मनुष्यगतिप्रायोग्या तीर्थकरसहिता बध्नता त्रिंशत् अत्रापि त एवाष्टो भङ्गाः (सर्वसंख्यया द्वात्रिंशत) एवमत्राष्टावुदयस्थानानि तद्यथा एकविंशतिः पञ्चविंशतिः षडविंशतिः सप्तविंशतिः अष्टाविंशतिरेकोनत्रिंशत् त्रिंशत् एकत्रिंशत् तत्रैकविंशत्युदयो