________________ कम्म 324 - अभिधानराजेन्द्रः - भाग 3 कम्म पञ्चसु अष्टसप्ततिवर्जीनिशेषाणि प्रत्येकं चत्वारि चत्वारि सत्तास्थानानि सर्वसंख्यया सर्वाण्यप्युदयस्थानान्यधिकृत्य त्रयोविंशतिबन्धकस्य चत्वारिंशत्सत्तास्थानानि / एवं पंचविंशतिषडविंशतिबनधकानामपि वक्तव्यं केवलमिह देवोऽप्यात्मीयेषु सर्वेष्वप्युदयस्थानेषु वर्ततानः पर्याप्तकैकेन्द्रियप्रायोग्यां पंचविंशतिं षडर्विशतिंच बध्नातीत्यवसेयं नवरं पञ्चविंशतिबन्धे बादरपर्याप्तप्रत्येक स्थिरास्थिरशुभाशुभदुर्भगानादेययशःकीर्त्ययशःकीर्तिपदैरष्टौ भङ्गा अवसेया न शेषाः सूक्ष्ममसयाधारणापर्याप्तेषु मध्ये देवस्योत्पादाभावात् / सत्तास्थानभावना पञ्चविंशतिबन्धे षडविंशतिबन्धे च प्रागिव कर्तव्या सर्वसंख्यया चत्वारिंशत् सत्तास्थानानि / अष्टाविंशतिबन्धकस्य मिथ्यादृष्ट र्दै उदयस्थाने तद्यथा त्रिंशत् एकत्रिंशत् / तत्र त्रिंशत तिर्यक्पञ्चेन्द्रियमनुष्यानधिकृत्य एकत्रिंशत् तिर्यक्पञ्चन्द्रियानेव अष्टाविंशतिबन्धकस्य चत्वारि सत्तास्थानानि तद्यथा द्विनवतिरे कोननवतिः अष्टाशीतिः षडशीतिः / तत्र त्रिंशदुदये चत्वार्यपि तत्राप्येकोननवतिःयो नामवेदक सम्यग्दृष्टिबद्धतीर्थकरनामपरावर्त्तनेन मिथ्यात्वं गतो नरकाभिमुखो नरकगतिप्रायोग्यामष्टाविंशतिं बध्नातितमधिकृत्य वेदितव्या शेषाणि पुनस्त्रीणि सत्तास्थानान्यविशेषेण तिर्यग्मनुष्याणामेकत्रिंशदुदये एकोननवतिव नि त्रीणि सत्तास्थानानि। एकोननवतिर्हि तीर्थकरनामसहितानचतीर्थकरनाम तिर्यक्षुसंभवति सर्वसंख्यया अष्टाविंशतिबन्धे सप्त सत्तास्थानानि देवगतिप्रायोग्यवर्धा शेषामेकोनविंशत विकलेन्द्रियतिर्यक्पञ्चेन्द्रियप्रायोग्यां मनुष्यगतिप्रायोग्यां च बनतो मिथ्यादृष्टे सामान्येन नवापि प्राकृतानि उदयस्थानानि / षट् सत्तास्थानानि तद्यथा द्विनवतिरेकोननवतिरष्टाशीतिः षडशीतिरशीतिरष्टसप्ततिः / तत्रैकविंशत्युदये सर्वाण्यपीमानि प्राप्यन्ते तत्राप्ये कोननवतिबद्धतीर्थकरनामानं मिथ्यात्वं गतं नैरयिकमधिकृत्यावसेया। द्विनवतिः अष्टाशीतिश्च देवनैरयिकमनुजविकलेन्द्रियतिर्यक्पञ्चेन्द्रियानधिकृत्य षडशीतिरशीतिश्च विकलेन्द्रियतिर्यक्पञ्चेन्द्रियमनुजैकेन्द्रियानधिकृत्य वेदितव्या / अष्टसप्ततिरेकेन्द्रियविकलेन्द्रितिर्यक्पश्चेन्द्रियानाधिकृत्य, चतुर्विशत्युदये एकोननवतिवानि शेषाणि पञ्च सत्तास्थानानि तानि चैकेन्द्रियानेवाधिकृत्य वेदितव्यानि अन्यत्र चतुर्विशत्युदयस्याभावात्। पंचविंशत्युदयेऽपि षट् सत्तास्थानानि तानि याकविंशत्यंदये भावितानि तथैव भावनीयानि / षडविंशत्युदये एकोननवतिवर्जानि शेषाणि पञ्च सत्तास्थानानि तानि प्रागिव भावनीयानि एकोननवतिस्तु न लभ्यते यतो मिथ्यादृष्टे : सत एकोननवतिर्नरकेषुत्पद्यमानस्य नैरयिकस्य प्राप्यते न शेषस्य / नच नैरयिकस्यषडविंशत्युदय: संभवति।सप्तविंशत्युदये अष्टसप्ततिवर्जानि शेषाणि पञ्चसत्तास्थानानि। तत्रैकोननवतिः प्रागुक्तस्वरूपं नैरयिकमधिकृत्यद्विनवतिरष्टाशीतिश्च देवनैरयिकमनुजविकलेन्द्रियतिर्यक्पशेन्द्रियानधिकृत्य षडशीतिरशीतिश्च एकेन्द्रियविकलेन्द्रियतिर्यक्पचेन्द्रिय मनुष्यानधिकृत्य अष्टसप्ततिश्च न संभवति ततः सप्तविंशत्युदये तेजोवायुर्जानामेकेन्द्रियाणामात पोद्योतान्यतरसहितानां नारकादीनां वा भवति / नच तेषामष्टसप्ततिस्तेषामवश्यं मनुष्यद्विकबन्धसंभयात् / एतान्येव पञ्चसत्तास्थानान्यष्टाविंशत्युदयेऽपि तत्रैकोननवतिर्द्विनवतिरष्टाशीतिरशीतिः प्रागिव भावनीयाः षडशीतिरशीतिश्च विकलेन्द्रियतिर्यक्पञ्चेन्द्रियमनुष्यानधिकृत्य वेदितव्या / एवमेकोनत्रिंशदुदयेप्येतान्येव पक्षसत्तास्थानानि भावनीयानि / त्रिंशदुदये चत्वारि तद्यथा द्विन वतिरष्टाशीतिः षडशीतिरशीतिरेतानि विकलेन्द्रियतिर्यक्पश्शेन्द्रिय मनुष्यानधिकृत्य वेदितव्यानि एकोननवतिस्तु न प्राप्यते यतः सा मिथ्यादृष्टः सता बद्धतीर्थकरनाम्रो मिथ्यात्वंगतस्य नैरयिकस्य प्राप्यते। नच नैरयिकस्य त्रिंशदुदयोऽस्ति।एकत्रिंशदुदयऽप्येतान्येव चत्वारि तानि च विकलेन्द्रियतिर्यक्पञ्चेन्द्रियानधिकृत्य दृष्टव्यानि / सर्वसंख्यया मिथ्यादृष्टरेकानत्रिंशतं बध्नतः पञ्चचत्वारिंशत् सत्तास्थानानि / या तु देवगतिप्रायोग्या एकोनत्रिंशत् सा मिथ्यादृष्टेन बन्धमायाति कारणं प्रागेवोक्तम् / मनुष्यदेवगतिप्रायोग्यवर्जा शेषां त्रिंशतं विकलेन्द्रियतिर्यक्पञ्चेन्द्रियप्रायोग्यां बध्नतः सामान्येनप्रागुक्तानि नवोदयस्यानानि एकोननवतिवर्जानि पञ्चसत्तास्थानानि / एकोननवतिस्तु न संभवति सत्कर्मणस्तिर्यग्गतिप्रायोग्यबन्धाऽऽरम्भसंभवात् तानि च पक्ष सत्तास्थानानि एकविंशतिचतुर्विशतिपञ्चविंशतिषडविंशत्युदयेषु प्रागिव भावनीयानि / सप्तविंशत्यष्टाविंशत्येकोनत्रिंश-शिदेकत्रिंशद्रूपेषु पञ्चसूदयस्थानेषु अष्टसप्ततिवानि प्रत्येकं शेषाणि चत्वारि चत्वारि सत्तास्थानानि भावनीयानि अष्टसप्ततिप्रतिषेधकारणं प्रागुक्तमनुसरणीयम् / सर्वसंख्यया मिथ्यादृष्टे स्त्रिशत बध्नतः चत्वारिंशत् सत्तास्थानानि मनुजगतिदेवगतिप्रायोग्या त्रिंशत् मिथ्यादृष्टेन बन्धमायाति मनुजगतिप्रायोग्या हि त्रिंशत् तीर्थकरनामसंहिता, देवगतिप्रायोग्या त्वाहारकद्विकतीर्थकरनामसहिता ततः सा कथ मिथ्यादृष्टेबन्धमायाति / तदेवमुक्तो मिथ्यादृष्टबन्धोदय सत्तास्थान संबेधः। संप्रतिसासादनस्य बन्धोदयसत्तास्थानान्युच्यन्ते (तिगसत्तएगत्ति) त्रीणि बन्धस्थानानि तद्यथा अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् / तन्नाष्टाविंशतिधा देवगतिप्रायोग्या नरकगतिप्रायोग्या च। तत्र नरकगतिप्रायोग्या सासादनस्य न बन्धमायाति देवगतिप्रायोग्यायाश्च बन्धकास्तिर्यक्पञ्चेन्द्रियमनुष्याश्च / तस्यां चाष्टाविंशतौ बध्यमानायामष्टा भङ्गाः। तथा सासादना एकेन्द्रियविकलेन्द्रियतिर्यक्पञ्चेन्द्रिया मनुष्या देवा नैरयिकाश्च तिर्यक्पञ्चेन्द्रियप्रायोग्यां मनुष्यगतिप्रायोग्यां वा एकोनत्रिंशतं बध्नन्ति न शेषाम् / अत्र च भङ्गाः चतुःषष्टिशतानि / तथाहि सासादना यदि तिर्यक्पञ्चेन्द्रिय प्रायोग्यामष्टाविंशतिप्रायोग्यामेकोनत्रिंशतं बध्नन्ति तथापि न ते हुण्डसंस्थान सेवार्तं च संहननं बध्नन्ति मिथ्यात्वोदयाभावात् ततश्च तिर्यक्पोन्द्रियप्रायोग्यामेकोनत्रिंशतं बध्नतः पञ्चभिः संस्थानैः पञ्चभिः संहनैनः प्रशस्ताप्रशस्तविहायोगतिभ्यां स्थिरास्थिराभ्यां शुभाशुभाभ्यां सुभगदुर्भगभ्यां सुस्वरदुःस्वराभ्यां आदेयानादेयाभ्यां यशःकी_यशः कीर्तिभ्यां च भङ्गाः द्वात्रिंशच्छतानि। एवं मनुष्यगतिप्रायोग्यामपि बध्नतो द्वात्रिंशच्छतानि। ततः सर्वसंख्यया चतुःषष्टिशतानि। ततः सासादना एकेन्द्रिया विकलेन्द्रियाः तिर्यक्पञ्चेन्द्रिया देवा नैरयिका वा यदि त्रिंशतं बध्नन्ति तर्हि तिर्यक्पञ्चेन्द्रियप्रायोग्यामेवोद्योतसहितां न शेषाम, तां बध्नतां च प्रागिव भङ्गानां द्वात्रिंशच्छतानि। सर्वबन्धस्थानभङ्गसंख्या अष्टाधिकानि षण्णवतिशतानि। उक्तभङ्ग संख्यानिरूपणार्थमियमन्तर्भाष्यगाथा अट्ठ सया चउसट्ठी, बत्तीस सया इ सासणे भेआ। अट्ठावीसाईसु, सव्वाणट्ठाहिअछन्नउई॥६१।। सासादनस्योदयनस्थानानि सप्त तद्यथा एकविंशतिश्चतर्विशतिः पशाविंशतिः षडविंशतितिरे कोन त्रिंशत् त्रिंशदे क त्रिंशत् /