________________ 316 - अभिधानराजेन्द्रः - भाग 3 त्वारि उदयस्थानानि तद्यथा पञ्च षट् सप्त अष्टौ तत्र प्रत्याख्यानावरणसंज्वलक्रोधादीनामन्यतमौ द्वौ क्रोधादिको त्रयाणां वेदानामन्यतमो वेदः द्वयोर्युगलयोरन्यतरद्युगलमिति पञ्चानां प्रकृतीनामुदयो देशविरतस्य क्षायिकसम्यग्दृष्टरौपशमिकसम्यग्दृष्टयं भवति / अत्रैका भङ्गकानां चतुर्विंशतिस्ततो भये वा जुगुप्सायां वा वेदकसम्यक्त्वे वा प्रक्षिप्ते षण्णामुदयः अत्र तिस्रः चतुर्विशतयः / तथा तस्मिन्नेव पञ्चके भयजुगुप्सयोर्यद्वा जुगुप्सावेदकसम्यक्त्वयोरथवा भयवेदकसम्यक्त्वयोयुगपत्प्रक्षिप्तयोः सप्तानामुदय अत्रापि तिसश्चर्तुशतयः। तथा तस्मिन्नैव पञ्चके भयजुगुप्सयोर्वेदकसम्यक्त्वेचयुगपत् प्रक्षिप्तेष्वष्टानामुदयः अत्रैका चतुर्विंशतिर्भङ्गकानां सर्वसंख्यया देशविरतेऽष्टौ चतुर्विंशतयः / तथा विरते क्षायोपशमिके प्रमत्ते चेत्यर्थः विरतो हि श्रेणेरधस्ताद्वर्तमानः क्षायोपशमिको विरत इति व्यवयिते ततश्च प्रमत्ते अप्रमत्ते च प्रत्येक चतुरादीनि सप्तपर्यन्तानिचत्वारि उदयस्थानानि भवन्तितद्यथा चतस्रः पक्ष षट् सप्त / तत्र क्षायिकसम्यग्दृष्टे रौपशमिकसम्यग्दृष्टे वा प्रमत्तस्याप्रमत्तस्य च प्रत्येकं संज्वलनक्रोधादीनामन्यतमः एकः क्रोधादिः त्रयाणां वेदनामन्यतमो वेदः द्वयोर्युगलयोरन्यतरत्युगलमिति चतसृणां प्रकृतीनामुदयः / अत्रैका चतुर्विंशतिर्भङ्गकानां ततो भये या जुगुप्सायां वा वेदकसम्यक्त्वे वा प्रक्षिप्ते पञ्चानामुदयः अत्र तिस्रः चतुर्विंशतयो भङ्गकानाम्। तथा तस्मिन्नेव चतुष्के भयजुगुप्सयोर्जुगुप्सावेदक सम्यक्त्वयोरथवा भयवेदकसम्यक्त्वयोर्युगपत्प्रक्षिप्तयो: षण्णामुदयः अत्रापि तिस्रश्चतुर्विंशतयः / तथा तस्मिन्नेव चतुष्के भयजुगुप्सावेदकसम्यक्त्वेषु युगपत् प्रक्षिप्तेषु सप्तानामुदयः अत्रैका चतुर्विशतिर्भङ्गकानां सर्वसंख्यया प्रमत्तस्या-प्रभत्तस्य च प्रत्येकमष्टावष्टौ चतुर्विंशतयः (छच पुवम्मि) अपूर्वकरणे चतुरादीनिषट् पर्यन्तानि त्रीणि उदयस्थानानि तद्यथा चतस्रः पञ्चषट् तत्र संज्वलनक्रोधादीनामन्यतम एकः क्रोधादिः त्रयाणांवेदानामन्यतमो वेदः द्वयोर्युगलयोरन्यतरधुगलमित्येतासां चतसृणां प्रकृतीनामुदयो ऽपूर्वकरणे ध्रुवः अत्रैका चतुर्विशतिर्भङ्ग कानां ततो भये वा जुगुप्साया पञ्चानामुदयः अत्र द्वे चतुर्विंशतिभङ्गकानाम्। भयजुगुप्सयोर्युगपत् प्रक्षिप्तयोः षण्णामुदयः अते का भङ्ग कानां चतुर्विंशतिः सर्वसंख्यया अपूर्वकरणे चतस्रश्चतुर्विंशतयः अनिवृत्तिबादरे पुनरेको द्वौ वा उदयांशी उदयभेदौ उदयस्थाने इत्यर्थः चतुर्णा संज्वलनानामन्यतम एकः क्रोधादिः त्रयाणां वेदनामन्यतमो वेदः इति द्विकोदयः / अत्र त्रिभिर्वेदैश्चतुर्भिः संज्वलनैदश भेदाः। ततेवेदोदयव्यवच्छेदे एकोदयः स च चतुर्विधबन्धे त्रिविधबन्धे द्विविधबन्धे एकविधबन्धे च प्राप्यते / तत्र यद्यपि प्राक् चतुर्विधबन्धे चत्वारः त्रिविधबन्धे त्रयः द्विविधबन्धे द्वौ एकविधसबन्धे एकः इति दश भङ्गाः प्रतिपादितास्तथाप्यत्र सामान्येन चतुस्त्रिोकबन्धापेक्षया चत्वार एव भङ्गा विवक्ष्यन्ते (एगं सुहुमसरागे वेय इति) सूक्ष्मसंपराये बन्धाभावे एकं किट्टीकृतसंज्वलनलोभ वेदयते अत्रैक एय भङ्गः एवमेकोदयभङ्गाः सर्वसंख्यया पञ्च / तथा शेषा उपरितना उपशान्तमोहादयः सर्वेऽप्यवेदकाः "भंगाणं च पमाण'' मित्यादि तत्र मिथ्यादृष्ट्यादिषु गुणस्थानकेषु उदयस्थानभङ्गानां प्रमाण पूर्वोद्दिष्टन पूर्वोक्तेन प्राक् सामान्योक्तमोहनीयोदयस्थानचिन्ताधिकारोक्तेन प्रकारेण ज्ञातव्यम्। संप्रति मिथ्यादृष्ट्यादीन्यधिकृत्य दशादिष्वेकपर्यवसानेषु भङ्गसंख्यानिरूपणार्थमाह एकगछमिक्कियारि कारस एक्कारसे व नव तिन्नि / एए चउवीसगया, बारदुगं पंच एक्कम्मि॥५२॥ इह दशादीनि चतुरन्तानि उदयस्थानान्यधिकृत्य यथासंख्यमेकादि संख्यापदयोजना कर्त्तव्या सा चैवं दशोदये एका चतुर्विंशतिः नवोदये षट् / तत्र मिथ्यादृष्टौ तिस्रः सासादने मिश्रे अविरते च प्रत्येकमेकैका। अष्टोदये एकादश / तत्र मिथ्यादृष्टौ अविरते च प्रत्येकं तिस्रः तिस्रः। सासादने मिश्रेच प्रत्येकं द्वेद्वे। देशविरतौ चैका / सप्तोदये चैकादश। तत्र मिथ्यादृष्टौ सासादने मिश्रे प्रमत्ते अप्रमत्ते च प्रत्येकमेकैका। अविरती देशविरतेच प्रत्येकं तिस्त्रः तिस्रः। बडुदये। एकादशातत्राविरतसम्यग्दृष्टौ अपूर्वकरणे च प्रत्येकमेकैका देशविरते प्रमत्ते प्रत्येकं तिस्रः अप्रमत्ते च प्रत्येकं तिस्रः तिस्रः पञ्चकोदये नव।तत्र देशविरते एका प्रमत्ते अप्रमत्तेच प्रत्येकं तिस्रः तिस्रः अपूर्वकरणे द्वे चतुरुदये तिस्रः / प्रमत्ते अप्रमत्ते अपूर्वकरणे च प्रत्येकमेका / एते च अनन्तरोक्ता एकादिकाः संख्याविशेषाश्चतुर्विंशतिगताश्चतुर्विंशति संख्याधायिका एता अनन्तरोक्तचतुर्वितयो ज्ञातव्या इत्यर्थः। एताश्च सर्वसंख्यया द्विपञ्चाशत् द्विके द्विकादये भङ्गा द्वादश एकोदये पञ्च / एते प्रागेव भाविताः। ___ संप्रत्येतेषामेव भङ्गानां विशिष्टतरसंख्यानिरूपणार्थमाह बारस पणसट्ठिसया, उदयविगप्पेहिं मोहिया जीवा। चुलसीई सत्तुत्तरि, पयविन्नसएहि विण्णेया।।५३|| इह दशादिषु चतुःपर्यवसानेषु उदयस्थानेषु भङ्गाकानां द्विपञ्चाशचतुर्विशतयो लब्धास्ततो द्विपञ्चाशत् चतुर्विंशत्या गुण्यते गुणितायां च सत्यां द्विकोदयभङ्गा द्वादश एकोदयभड़ाः पञ्च प्रक्षिप्यन्ते ततो द्वादश शतानि पञ्चषष्ट्यधिकानि भवन्ति एतैरुदयविकल्पैर्यथायोग सर्वेसंसारिणो जीवा मोहिता मोहमापादिता विज्ञेयाः / संप्रति पदसंख्यानिरूपणार्थमाह (चुलसीईसत्तुत्तरित्ति) इह पदानि नाम मिथ्यात्वं प्रत्याख्यानक्रोध: अप्रत्याख्यानावरणक्रोधः इत्येवमादीनि ततो वृन्दानां दशाद्युदयस्थानरूपाणां पदानि पदवृन्दानि आर्षत्वात् राजदन्तादिषु मध्ये पाठाभ्युपगमाद्वा वृन्दशब्दस्य परनिपातः / तेषां सप्तसप्तत्यधिकचतुरशीतिशतसंख्यमोहिताः संसारिणे जीवा विज्ञेयाः। एतावत्संख्याभिः कर्मप्रकृतिभिः यथायोगं मोहिता जीवा ज्ञातव्या इत्यर्थः / अथ कयं सप्तत्यधिकानि चतुरशीतिशतानि पदानां भवन्ति उच्यते इह दशोदये दश पदानि दश प्रकृतयः उदये समागता इत्यर्थः / एवं नवोदयादिष्वपि नवादीनि भावनीयानि ततो दशोदये दशभिर्गुण्यते जाता दश नवोदयः षभिर्गुणितो जाताश्चतुःपञ्चाशत् अष्टोदय एकादशभिर्जाता अष्टाशीतिः सप्तोदय एकादशभिर्जाता सप्तप्ततिः षडुदय एकादशभिर्जाता षट्षष्टिः पञ्चकोदय नवभिर्जाताः पञ्चचत्वारिंशत् चतुरुदयश्चत्रिभिर्गुणितो जाता द्वादश एते सर्वेऽप्येकत्र मील्यन्ते जातानि द्विपञ्चाशदधिकानि त्रीणि शतानि / एतानि चतुर्विंशतिगुणितानि अष्टचत्वारिंशदधिकचतुःशतयुतान्यष्टसहस्राणि प्राप्यन्तेइति चतुर्विंशत्या गुण्यन्तेततोद्विकोदयपदानि द्वादशगुणितानि चतुर्विशतिः एकोदयपदानि पञ्च प्रक्षिप्यन्ते ततस्तेषु प्र