________________ कम्म 318- अभिधानराजेन्द्रः - भाग 3 कम्म मनुष्याणां च परभवायुर्वन्धकाले एकैको भङ्गो न प्राप्यते इति | षडविंशतिः / सम्यग्मिथ्यादृष्टेः षोडश सम्यग्मिथ्यादृष्टयो हि आयुर्षबन्धमारभन्ते ततः आयुर्बन्धकाले नारकाणां यौ द्वौ भनौ ये च तिरश्चां चत्वारो ये च मनुष्याणामपि चत्वारः यौ च देवानां द्वौ तानेतान् द्वादश वर्जयित्वा शेषाः षोडश भवन्ति अविरत सम्यग्दृष्टेर्विशतिर्भङ्गाः कथमिति चेदुच्यते तिर्यग्मनुष्याणां प्रत्येकमायुर्बन्धकाले ये नरकतितर्यग्मनुष्यगतिविषयास्त्रयस्त्रयो भङ्गाः यश्च देवनैरयिकाणां प्रत्येकमायुर्बन्धकाले तिर्यग्गतिविषय एकैको भङ्गः तानविरतसम्यग्दृदृष्टयोन बध्नन्तिततः शेषा विंशतिरेव भवन्ति। देशविरतेदश भङ्गा यतो देशविरति स्तिर्यग्मनुष्याणामेव भवति तेच तिर्यग्मनुष्या देशविरता आयुर्बधनतो देवायुरेव बध्नन्तिन शेषमायुस्ततस्तिरश्चां मनुष्याणां च प्रत्येकं परभवायुर्बन्धकालात्पूर्वमकैका भङ्गः परभवायुर्बन्धकालेऽपि चैकैक आयुर्बन्धोत्तरकालं च चत्वारश्चत्वारः / यतः केचित्तिर्यचो मनुष्याश्चतुर्णामेकमन्यतमदायुर्बध्वा देशविरतिं प्रतिपद्यन्ते ततस्तदपेक्षया यथोक्ताश्चत्वारो भङ्गाः प्राप्यन्ते सर्वसंख्यया द्वादश (ठदोसु त्ति) द्वयोः प्रमत्ताप्रमत्तयोःप्रत्येकं षट् भङ्गाः प्रमत्ताप्रमत्तसंयता हि मनुष्या एव भवन्ति ततः आयुर्बन्धकालात् पूर्वमेकः आयुर्बन्धकालेऽप्येकः / प्रमत्ताप्रमत्ता हि देवायुरेवैकं बधनतिन शेषमायुर्वन्धोत्तरकालं च प्रागुक्ता देशविरत्युक्तानुसारेण चत्वार इति (दो चउसुत्ति) चतुर्दा अपूर्वकरणेऽनिवृत्तिबादरसूक्ष्मसंपरायोपशान्तमोहरूपेषु गुणस्थानकेषूपशमश्रेणिमधिकृत्य प्रत्येकं द्वौ द्वौ भनौ तद्यथा मनुष्यायुष उदयो मनुष्युषः सत्ताएषु विकल्पाः परभवायुर्बन्धकालात्पूर्वमथवा मनुष्यायुष उदयो मनुष्यदेवायुषी सती एष विकल्पः परभवायुर्घन्धोत्तरकालम्। एते ह्यायुर्न बध्नन्ति अतिविशुद्धत्वात् पूर्वबद्धायुषि एपशमश्रेणिं प्रतिपद्यन्ते देवायुष्येव नान्यायुषि तदुक्तं कर्मकृतौ''तिसु आउगेसु बद्धसुजेण सेटिं न आरुहइ" तत उपशमश्रेणिमधिकृत्य एतेसु द्वौ द्वादेव भङ्गो पूर्वबद्धायुष्कास्तु न क्षपकश्रेणिं प्रतिपद्यन्ते तत उपशमश्रेणिमधिकृत्येत्युक्तं क्षपकश्रेण्या त्वेतेषामेकाको भङ्गस्तद्यथा मनुष्यायुष उदयो मनुष्यायुषः सत्तेति (तिसुइक्कति) त्रिषु क्षीणमोहसयोगिकेवल्ययोगिकेवलिरूपेषु प्रत्येकमेकैको भङ्गस्तद्यथा मनुष्यायुष उदयो मनुष्ययुषः सत्ता शेषा न संभवन्ति तदेवमायुषो गुणस्थानकेषु भङ्गा निरूपिताः। __ संप्रति मोहनीयं प्रत्याह(मोहं परं वुच्छं) अतः परं मोहनीयं वक्ष्ये गुणठाणगेसु अट्ठसु, एक्केकं मोहबंधठाणं तु। पंचानियट्टिठाणा, बंधोवरमो परंतत्तो॥४८॥ मोहनीयसत्कबन्धस्थानेषु मध्ये एकैकं बन्धस्थानं मिथ्यादृष्ट्यादिषु गुणस्थानकेषु भवति तद्यथा मिथ्यादृष्टाविंशतिः सासादनस्यैकविंशतिः सम्यग्मिथ्यादृष्टे रविरतसम्यग्दृष्टश्च प्रत्येकं सप्तदश देशविरतस्य त्रयोदश प्रमत्ता प्रमत्तापुर्वकरणानां प्रत्येकं नव नवा एतानि च द्वाविंशत्यादीनि नवपर्यन्तानि नव बन्धस्थानानि प्रागेव सप्रपञ्च भावितानीति न भूयो भाव्यन्ते विशेषाभावात केवलमप्रमत्तापूर्वकरणयोर्भङ्ग एकैक एव वक्तव्यः अरतिशोकयोर्बन्धस्य प्रमत्तगुणस्थानके एव व्यवच्छेदात् / प्राक् प्रमत्तापेक्षया नवकबन्धस्थाने द्वौ भङ्गो दर्शिता (पंचानियट्टिवणे) अनिवृत्तिबादरसंपरायगुणस्थानके पञ्चबन्धस्थानानि तद्यथा पञ्च चतस्त्र: तिस द्वे एका च प्रकृतिरिति। ततोऽनिवृत्तिस्थानात् परं सूक्ष्मसंपरायादौ बन्धोपरमो बन्धाभावः। संप्रत्युदयस्थानप्ररूपणार्थमाहसत्ताइ दस उमिच्छे, सासायणमीसए नवुझोसो। छाई नवउअ विरई, देसे पंचाइ अटेव // 46 / / विरएखओवसमिए, चउराई सत्त छच्च पुवम्मि। अनियट्टिवायरे पुण, एक्को व दुवे व उदयंसा / / 50 / / एग सुहुमसरागो, वेए इअ वेयगा भवे सेसा। भंगाणं च पमाणं, पुवुद्दिष्टेण नायव्वं // 51 // मिथ्यादृष्टेः सप्तादीनि दशपर्यन्तानि चत्वार्युदयस्थानानि भवन्ति तद्यथा सप्त अष्टौ नव दश। तत्र मिथ्यात्वमप्रत्याख्यानावरणप्रत्याख्यानावरणसंज्वलनक्रोधादीनामन्यतमे त्रयः क्रोधादिकाः त्रयाणां वेदानामन्यतमो वेदः हास्यरतियुगलारतिशोकयुगलयोरन्यतरधुगलमित्येतासा सप्तप्रकृतीनामुदयो ध्रुवः। अत्र चतुर्मिः कषायैस्त्रिभिदैाभ्यां युगलाभ्यां भङ्गाश्चतुर्विशतिस्तस्मिन्नेव सप्तके भये वा जुगुप्सायां वाऽनन्तानुषन्धिनि च प्रक्षिप्ते अष्टानामुदयः अत्र भयादौ प्रत्येकमेकैका चतुर्विशतिः प्राप्यते इति तिस्रश्चतुर्विशतयः। तथा तस्मिन्नेव सप्तके भयजुगुप्सयोरथवा भयानन्तानुबन्धिनोर्यद्वा जुगुप्सानन्तानुबन्धिनोः प्रक्षिप्तयोर्नवानामुदयः अत्राप्येकैकस्मिन् विकल्पे भङ्गानां चतुर्विंशतिः प्राप्यते इति तिसश्चतुर्विशतयः। तथा तस्मिन्नेव सप्तके भयजुगुप्सानन्तानुबन्धिषु युगपत्प्रक्षिप्तेषु दशानामुदयः अत्रैका भड़कानां चतुर्विंशतिः सर्वसंख्यया मिथ्यादृष्टावष्टो चतुर्विशतयः। सासादने मिश्रे च सप्तादीनिवोत्कर्षाणि नवपर्यन्तानि त्रीणि त्रीणि उदयस्थानानि तद्यथा सप्त अष्टा नव अत्र सासादने अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनेक्रोधादीनामन्यतमे चत्वारः क्रोधादिकाः त्रयाणां वेदानामन्यतमो वेदः द्वयोर्हि युगलयोरन्यतरद् युगलमित्येतासां सप्तप्रकृतीनामुदयो धुवः अत्र प्रागिवैका भङ्गानां चतुर्विंशतिः / ततो भये वा जुगुप्सायां वा प्रक्षिप्तायामष्टोदयः / तत्र द्वे चतुर्विंशति भङ्ग कानां भयजुगुप्सयोस्तु प्रक्षिप्तयोनवोदयः अत्रैका भङ्गकानां चतुर्विंशतिः सर्वसंख्यया सासादने चतसश्चतुर्विशतयः मिश्रे अनन्तानुबन्धिवस्त्रियोऽन्यतमे क्रोधादयः त्रयाणां वेदानामन्यतमो वेदः द्वयोर्युगलयोरन्यतरद् युगलं मिश्रमिति सप्तानां प्रकृतीनामुदयो ध्रुवः अत्रैका चतुर्विशतिर्भङ्गकानां सर्वसंख्यया मिश्रेऽपिचतस्रश्चतुर्विंशतयः (छाईनव उ अविरएत्ति) अविरतसम्यग्दृष्टी षडादीनि नवपर्यन्तानि चत्वारि उदयस्थानानि भवन्ति तद्यथा षट् सप्त अष्टौ नव / तत्रान्तानुबन्धिबस्त्रियोऽन्यतमे क्रेाधादिकाः त्रयाणां वेदानामन्यतमो वेदः द्वयोर्युगलयोरन्यतरत् युगलमिति षण्णा प्रकृतीनामुदयोऽविरतस्यौपशमिकसम्यग्दृष्टः क्षायिकसम्यग्दृष्टर्वा ध्रुवः अत्रैका चतुर्विंशतिर्भङ्गाकानां ततो भये या जुगुप्सायां वा वेदकसम्यक त्वे वा प्रक्षिप्ते सप्तानामुदयोऽत्र तिस्रश्चतुर्विशतयः / तथा तस्मिन्नेव षट्के भयजुगुप्सयोर्भयवेदकसम्यक्त्वयोर्जुगुप्सावेदकसम्यक्त्वयोर्वा युगपत् प्रक्षिप्तयोरष्टामुदयः अत्रापि तिस्रश्चतुर्विंशतयः। तथा तस्मिन्नेव षट्के भयजुगुप्सयोर्भयवेदकसम्यक्त्वयोर्जुगुप्सावेदकसम्यक्त्वयोर्वा युगपत् प्रक्षिप्तयोरष्टामुदयः अत्रापि तिस्रश्चतुर्विशतयः। तथा तस्मिन्नेव षट्के भयजुगुप्सयोर्वेदकसम्यक्त्वे च युगपत् प्रक्षिप्ते नवनामुदयः अत्रैका चतुर्विंशतिर्भङ्गाकानां सर्वसंख्यया अविरतसम्यग्दृष्टावष्टौ चतुर्विंशतयः / (देसे पंचइअद्वैव) देशे देशविरते पञ्चदीनि अष्टपर्यन्तानि च -