SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ कम्म 317 - अभिधानराजेन्द्रः - भाग 3 कम्म मिथ्यादृष्टिप्रभृतिषु सूक्ष्मसंपरायपर्यन्तेषु दशसु गुणस्थानेषु ज्ञानावरणमन्तरायं च त्रिविधमपि बन्धोदयसत्तापेक्षया त्रिप्रकारमपि भवति | मिथ्यादृष्ट्यादिषु दशसु गुणस्थानेकेषु ज्ञानावरणस्यान्तरायस्य च पञ्चविधो बन्धः पञ्चविध उदयः पञ्चविधा सत्ता इत्यर्थः / द्वयोः पुर्नगुणस्थानक्योरुपशान्तमोहक्षीय मोहरूपयोर्दै उदयसत्तेस्तः नबन्धः बन्धस्य सूक्ष्म संपराये व्यवच्छिन्नत्वात् / एतदुक्तं भवति बन्धाभावे उपशान्तमोहे क्षीणमोहे वा ज्ञानावरणीयान्तराययोः प्रत्येकं पञ्चविध उदयः पञ्चविधा सत्ता भवतीति परत उदयसत्तयोरप्यभावः (मिच्छासाणे वीएत्ति) द्वितीये द्वितीयस्य दर्शनावरणस्य मिथ्यादृष्टौ सासादने च नवविधो बन्धः चतुर्विधः पञ्चविधो वा उदयः नवविधा सत्ता इति द्वौ विकल्पौ द्वयोर्गुणस्थानकयोस्त्यान द्धित्रिकस्य नियमतो बन्धात् (नव यसंतं त्ति) नव च सत्तांशाः सत्ताभेदाः सत्प्रकृतय इत्यर्थः / एतेन च द्वौ विकल्पौ दर्शितौ तद्यथा नवविधो बन्धः चतुर्विध उदयः नवविधा सत्ता अथवा नवविधो बन्धः पञ्चविध उदयो नवविधा सत्ता। मिस्साइ नियट्टीओ, छचउ पण नवय संतकम्मंसा। चउबंधतिगे चउ पण, नवंसदुसु जुयलछस्संता॥४४॥ मिश्रादिषु मिश्रप्रभृतिषु गुणस्थानकेषु अप्रमत्तगुणस्थानकपर्यन्तेषु निवृत्तौ च अपूर्वकरणे च अपूर्वकरणाद्धायाः प्रथमसंख्येयमभागे चेत्यर्थः / परतो निद्राद्विकबन्धव्यवच्छेदेन षड्विधबन्धासंभवात्ततएतेषु षडविधा बन्धः चतुर्विधः पञ्जाविधो दा उदयः नवविधा सत्ता इति द्वौ विकल्पो(चउबंधतिगे चउपणनवंसत्ति) इहापूर्वकरणाद्धायाः प्रथमे सङ्खयेयतमे भागे गते सति निद्राप्रचलयोर्बन्धव्यच्छेदो भवति ततः अत ऊर्द्धमपूर्वकरणेऽपि चतुर्विधएव बन्धः। ततस्त्रिके अपूर्वकरणानिवृत्तिवादरसूक्ष्मसंपरायरूपे चतुर्विधो बन्धश्चतुर्विध उदयः पञ्चविधो वा उदयः (नवंसइति) नवविधा सत्तेति प्रत्येकं द्वौ द्वौ विकल्पो (अंस इति) सत्ताऽभिधियते। एतच्चोक्तमुपशमश्रेणिमधिकृत्य क्षपक श्रेण्यां गुणस्थानकत्रयेऽपि पञ्चविधस्योदयस्य सूक्ष्मसंपराये च नवविधायाः सत्तायाः अप्राप्यमाणत्वात् (दुसुजुयलछस्संतित्ति) इह क्षपकश्रेण्यामनिवृत्तिबादरसंपरायाद्धायाः संण्येयतमेषु भागेषु एकस्मिन् भागे संख्येयतमे अवतिष्ठमानेस्त्यानद्धित्रिकस्य सत्ताव्यवच्छेदो भवति ततस्तदनन्तरमनिवृत्तिवादरेऽपि षडविधा एव सत्ता भवति तत आह (दुसुत्ति) द्वयोरनिवृत्तिबादरसूक्ष्म संपराययोः युगलमितिबन्धोदयातुच्येते चतुरिति चानुवर्त्यते ततश्चतुर्विधो बन्धः चतुर्विध उदयः (छस्संतत्ति) षडविधा सत्ता / अत्र पञ्चविधा उदयो न प्राप्यते क्षपकाणामत्यन्तविशुद्धतया निद्राद्विकस्योदयाभावात् उक्तं च कर्मप्रकृतिचूर्णावुदीरणाकरणे "इदियपज्जत्तीए अणंतरे समये सव्वो वि निद्दापयलमुदीरणे भवइ नवरं खीणकसायखवगे मुत्तूणं तेसु उदओ नत्थि त्ति कालं"। उवसंते चउ पण नव,खीणे चउरुदय छच्च चउ संता। वेयणिअआउगोण, विभज मोहं परं वोच्छं // 4 // उपशान्तमोहे बन्धो न भवति तस्य सूक्ष्मसंपराये एच व्यवच्छिन्नत्वात् | ततः के वलश्चतुर्विधः पञ्चविधो वा उदयो नवविधासत्ता उपशमकोपशान्तमोहा ह्यत्यन्तविशुद्धा न भवन्ति ततस्तेषु निद्राद्विकस्याप्युदयः संभवति / क्षीणे क्षीणमोहे चतुर्विधा सत्ता (वेयणिअआउगोए विभजत्ति) वेदनीयायुर्गोत्राणा बन्धोदय | सत्तास्थानानि यथागमं गुणस्थानकेषु विभजेत् विकल्पयेत् / तत्र वेदनीयगोत्रयोर्भनिरूपणार्थमियमन्तर्भाष्यगाथा। चउछस्सु दोनि सत्तसु, एगेचउ गुणिसु वेयणियभंगा। गोए पण चउ दोतिसु, एगट्ठसु दोन्नि एक्कम्मि॥४६|| मिथ्यादृष्ट्यादिषु प्रमत्तसंयतपर्यन्तेषु षट्सु गृणस्थानेषु प्रत्येकं च वेदनीयस्य प्रथमाश्चत्वारो भङ्गास्तेचेमे असातस्य बन्धः असास्योदयः सातासाते सती,असातस्यबन्धःसातस्योदयः सातासाते सती,सातस्य बन्धः असातस्य उदयः सातासाते सती,सातस्य बन्धः सातस्य उदयः सातासाते सती तथा अप्रमत्तसंयतादिषु सयोगिकेवलिपर्यन्तेषु सप्तसु गुणस्थानकेषु द्वौ भङ्गौ तौ चानन्तरोक्तावेव तृतीयचतुर्थो ज्ञातव्यौ एते हि सातमेव बध्नन्ति नासातम् तथा एकस्मिन् अयोगिकेवलिनि चत्यारो भङ्गाः ते चेमे असातस्योदयः सातासाते सती अथवा सातस्योदयः सातासाते सती,एतौ द्वौ विकल्पावयोगिके वलिनि द्विचरमसमयं यावत्प्राप्येते चरमसमये तु असातस्योदय असातस्य सत्ता यस्य द्वि चरमसमये सातं क्षीणं, यस्यत्वसातं द्विचरमसमये क्षीणं तस्यायं विकल्पः सातस्योदयः सातस्य सत्ती(गोएइत्यादि)गोत्रे गोत्रस्य पक्ष भङ्गाः मिथ्यादृष्टौते चेमे नीचैर्गोत्रस्य बन्धः नीचैर्गोत्रस्योदयः नीचैर्गोत्रं सत् एष विकल्पस्तेजस्कायिकवायुकायिकेषु लभ्यते तद्भवादुद्वत्तेषु चाशेषजीवेषु कियत्कालं नीचे!त्रस्य बन्धः नीचे!त्रस्यादयः उच्चनीचैर्गेत्रे सती अथवा नीचत्रिस्य बन्धः उचैत्रस्योदयः उचनीच !त्रे सती अथवा उचैर्गोत्रस्य बन्धः नीचैत्रिस्योदयः उचनीचैर्गीने सती उर्गेत्रिस्य बन्धः उच्चैर्गोत्रस्योदयः उचनीचर्गोत्रे सती। सासादनस्य प्रथमवर्जाः प्रथमो हि भङ्ग स्तेजोवायुकायिकेषु लभ्यते तद्भवादुद्रुत्य तेषु वा कियत्कालं न च तेजोवायुषु सासादनभावो लभ्यते नापि तद्भवादुद्द-तेषु तत्कालम्। अतोऽत्र प्रथमभङ्ग प्रतिषेधः / तथा त्रिषु मिश्राविरतदेशविरतेषु चतुर्थपञ्चमरूपौ द्वौ भड़ौभवतः नशेषाः मिश्रादयो हि नीचेोत्रंन बध्नन्ति अन्ये त्वाब्रुवते देशविरतस्य पञ्चम एवैको भङ्गः “सामन्नेणं व य जाईए उच्चगोयस्स उदयो होइ" इति वचनात् (एगट्ठसुत्ति) प्रमत्तसंयतप्रभृतिषु अष्टसु गुणस्थानेषु प्रत्येकमेकैको भङ्गः तत्र प्रमत्ताप्रमत्तापूर्वकरणनिवृत्तिबादरसूक्ष्मसंप-रायेषु केवलः पञ्चमो भङ्गः तेषामुचैर्गोत्रस्य च बन्धोदयसंभवात् / उपशान्तमोहे क्षीणमोहे सयोगिकेवलिनि च बन्धाभावात् प्रत्येकमयं विकल्पः उच्चैर्गोत्रस्योदयः उच्चर्गोत्रे सती (दोन्नि एकम्मित्ति) एकस्मिन् अयोगिकेवलिनि द्वौ भङ्गो उचैर्गोत्रस्योदयः उच्चनीचैर्गोत्रे सती एष विकल्पश्चरमे द्विचरमसमये त्वेष विकल्पः उचैर्गोत्रस्योदयः उच्चैर्गोत्रं सत्।नीचैर्गोत्रं हि द्विचरमसमये एव क्षीणमिति चरमसमये न तत्प्राप्यते। संप्रत्यायुर्भङ्गा निरूप्यन्ते तन्निरूपाणार्थचेयमन्तभाष्यगाथा। अट्ठच्छाहिगवीसा, सोलसवीसे च बारसछदोसु। दो चउसु तीसु एक्क, मिच्छाइसु आउगे भंगा // 47! मिथ्यादृष्ट्यादिषु गुणस्थानके ष्वयोगिकेवलिगुणस्थानकपर्यन्तेषु क्रमणैते अष्टाधिकविंशत्यादयः आयुषि भङ्गाः / तत्र मिथ्यादृष्टिगुणस्थानकेष्वष्टाधिका विंशतिरायुषोभङ्गाः मिथ्यादृष्टयो हिचतुगतिका अपि संभवन्ति तत्र नैरयिकानधिकृत्य पक्ष तिरश्चोऽधिकृत्य नव मनुष्यानप्यधिकृत्य नव दवानधिकृत्य पञ्च एते च प्रागेव सप्रपञ्च भाविता इति न ते भूयो भाव्यन्ते। सासादनस्य पडाधिका विंशतिः यतस्तियश्चो मनुष्या वासासादननभावे वर्तमाना नारकायुर्वध्नन्ति ततः प्रत्येकं तिरश्चां
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy