SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ कम्म 316 - अभिधानराजेन्द्रः - भाग 3 कम्म ज्ञिपञ्चेन्द्रियाश्च वैक्रियलब्धिहीनत्वात् वैक्रियं नारभन्ते ततस्तदांश्रिता उदयविकल्पा न प्राप्यन्ते / सत्तास्थानानि पञ्च तद्यथा द्विनवतिः अष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिश्च तत्रैकविंशत्युदयसत्का अष्टौ भङ्गाः षडविंशत्युदयसत्काश्चाष्टाशीत्यधिक शतद्वयसंख्याः पञ्च सत्तास्थानकाः शेषाः सर्वेऽपि चतुःस्थानकाः / युक्तिरत्र प्रागुक्ता द्रष्टव्या (अट्ठट्टदसगं ति) संज्ञिपञ्चेन्द्रियपर्याप्तस्य सर्वाणि बन्धस्थानानि तानि चाष्टौ विंशतिचतुर्विंशतिनवाष्टरहितानि सर्वाण्यप्युदयस्थानानि तान्यप्यष्टौ विंशतिनवाष्टोदया हि केवलिनो भवन्ति चतुर्विंशत्युदयश्चैकेन्द्रिययणामत एते वय॑न्ते / अत्र केवली संज्ञित्वेन न विवक्षित इति कृत्वा तदुदयनिषेधो नवाष्टरहितानि सर्वाण्यपि सत्तास्थानानि तानि च दश अत्राप्येकविंशत्युदयभङ्गा अष्टौ षडविंशत्युदयभङ्गा-श्चाष्टाशीत्यधिकशतद्वयसंख्याः पञ्च सत्तास्थानकाः शेषाश्चतुःसत्तास्थानकाः / सम्प्रति संवेधश्चिन्त्यते। सूक्ष्मैकेन्द्रियाणामपर्याप्तानां त्रयोविंशतिबन्धकानामेकविंशत्युदये पञ्च सत्तास्थानानि तद्यथा द्विनवतिरष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिश्च / एवं चतुर्विंशत्युदयेऽपि सर्वसंख्यया दश एवं पञ्चविंशति षडविंशत्येकोनत्रिंशद्वन्धकानामपि द्वे द्वे उदयस्थाने अधिकृत्य प्रत्येकं दश दश सत्तास्थानानि अवगन्तव्यानि सर्वसंख्यया पञ्चाशत् / एवमन्येषामपि पण्णामपर्याप्तानां भावनीयं नवरमात्मीये आत्मीये उदयस्थाने प्रागुक्तस्वरूपे वक्तव्ये सूक्ष्मपर्यातविंशतिबन्धकानामेकविंशत्यादिषु चतुर्वप्युदयस्थानेषु प्रत्येकं पञ्च पञ्च सत्तास्थानानि सर्वसंख्यया विंशतिः एवं पञ्चविंशतिः पञ्च सत्तास्थानानि सर्वसंख्यया विंशतिः एवं पञ्चाविंशतिः षडविंशत्येकोनत्रिशद्वन्धकानामपिवक्तव्यं ततः सूक्ष्मपर्याप्तानां सर्वसंख्यया सत्तास्थानानां शतं बादरैकेन्द्रियपर्याप्तानां त्रयोविंशति बन्धकानामेकविंशति चतुर्विशतिषडविंशत्युदयेषु पञ्च पञ्च सत्तास्थानानि सप्तविंशत्युदये चत्वारि सर्वसंख्यया चतुर्विंशतिः एवं पञ्चविंशतिः षडविंशत्येकोनत्रिंशद्वन्धकानामपि प्रत्येकं चतुर्विशतिश्चतुविंशतिः सत्तास्थानानि सर्वसंख्यया पर्याप्तबादरैकेन्द्रियाणां विंशतिशतं सत्तास्थानानाम् / द्वीन्द्रियपर्याप्तकानां त्रयोविंशतिबन्धकानामेकविंशत्युदये च पञ्च पञ्च सत्तास्थानानि अष्टाविंशत्येकोनत्रिंशदेकत्रिंशदुदयेषु प्रत्येकं चत्वारि चत्वारि सर्वसंख्यया षडविंशतिः / एवं पञ्चविंशतिषडविंशत्येकोनत्रिंशद्वन्धकानां प्रत्येकं षडविंशतिः षडविंशतिःसत्तस्थानानि सर्वसंख्यया त्रिंशच्छतम् एवं त्रयाणां चतुरिन्द्रियाणामपि पर्याप्तानां वक्तव्यम् / असंज्ञिपञ्चेन्द्रियाणामपि पर्याप्तानां त्रयोविंशतिबन्धकानामेकविंशत्युदये च प्रत्येकं पञ्च पञ्च सत्तास्थानानि अष्टाविंशत्येकोनत्रिंशत्रिशदेकत्रिंशदुदयेषु तु चत्वारि चत्वारीति सर्वसंख्यया षडविंशतिः / पञ्चविंशतिषडविंशत्येकोनत्रिशस्त्रिंशद्वन्धकानामपि वक्तव्यं / अष्टाविंशतिबन्धकानां पुनस्तेषां द्वे एवोदयस्थाने तद्यथा त्रिंशदेकत्रिंशच तत्र प्रत्येकं त्रीणि त्रीणि सत्तास्थानानि तद्यथा द्विनवतिरष्टाशीतिः षडशीतिश्च / अष्टाविंशतिर्हि देवगतिप्रायोग्या ततस्तस्यां बध्यमानायामवश्यं वैक्रियचतुष्टयादिबध्यते इत्यशीत्यष्टसप्तती न प्राप्येते सर्वसंख्यया पर्याप्तासंज्ञिपञ्चेन्द्रियाणां षट् त्रिंशदधिकं सत्तास्थानानां शतं पर्याप्तसंज्ञिपश्शेन्द्रियाणां त्रयेविंशतिबन्धकानां प्रागिव षडविंशतिःसत्तास्थानानि वाच्यानि / एवं पञ्चविंशतिबन्धकानामपि नवरं देवानां पञ्चविंशतिबन्णकानां पञ्चविंशत्युदये सप्तविंशत्युदये च द्वे द्वे सत्तास्थाने तद्यथा द्विनयतिरष्टाशीतिश्च एते एव द्वे पञ्चविंशतिषडविंशतिसप्तविंश त्याष्टाविंशत्येकोनत्रिंशदु-दयेष्वपि प्रत्येकं वक्तव्ये त्रिंषदुदये चत्वारि तद्यथा द्विनवतिरेकोननवतिरष्टाशीतिः षडशीतिश्च / एतेषां च भावना प्रागेवष्टाविंशतिबन्धे संवेधचिन्तायां विस्तारेण कृते ति न भूयः क्रियते विशेषाभावात् ग्रन्थगौरवभयाच / एकत्रिंशदुदये त्रीणि सत्तास्थानानि तद्यथा द्विनवतिरष्टाशीतिः षडशीतिश्च। सर्वसंख्यया अष्टाविंशतिबन्धकानामेकोनविंशतिः सत्तास्थानानि एकोनत्रिंशद्वन्धकानां सत्तास्थानानि पञ्चविंशतिबन्धकानामिव भावनीयानी तानि च त्रिंशत् नवरमत्र विशेषोभण्यते अविरतसम्यग्दृष्टदेवगतिःप्रायोग्यामेकोनत्रिंशतं बध्नतः एकविंशतिषडविंशत्यष्टाविंशत्येकोनत्रिशस्त्रिंशदुदये प्रत्येकं दे दे सत्तास्थाने भवतः / तद्यथा त्रिनवतिरेकोननवतिश्च / पञ्चविंशत्युदये सप्तविंशत्यंदये च वैक्रियसंयतासंयतानधिकृत्य ते एव द्वेद्वे सत्तास्थाने। अथवाऽ ऽहारकसंयतानधिकृत्य पञ्चविंशत्युदये च त्रिनवतिः नैरयिक तीर्थकरसत्कर्माणं मिथ्यादृष्टिमधिकृत्यैकोननवतिः / सर्वाणि चतुर्दश सर्वसंख्ययैकोनत्रिंशद्वन्धकानां सत्तास्थानानि चतुश्चत्वारिंशत् त्रिंशद्वन्धकानामपि सत्तास्थानानि पञ्चविंशतिबन्धकानामिव भावनीयानि तानि च त्रिंशत्, केवलं देवानां मनुजगतिप्रायोग्यां तीर्थकरसहिता त्रिशतं बध्नतामेकविंशतिपक्षविंशतिसप्तविंशत्यष्टाविंशत्येकोनत्रिंशदुदर्यषु प्रत्येकं द्वे द्वे सत्तास्थाने तद्यथा द्विनवतिरेकोननवतिश्च एतानि च द्वादश ततः सर्वसंख्यया त्रिंशद्वन्धकानां द्विचत्वारिंशत्सत्तास्थानानि एकत्रिंशद्वन्धकानामष्टौ सत्तास्थानानि तद्यथा त्रिनवतिर्द्विनवतिरेकोननवतिः अष्टाशीतिः षडशीतिः एकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिश्च तत्राद्यानि चत्वार्युपशमश्रेण्यामथवा क्षपक श्रेण्यां यावन्नाद्यापि त्रयोदश नामानि क्षीयन्ते तेषु तु क्षीणेषु उपरितनानि चत्वारि सत्तास्थानानि लभ्यन्ते बन्धाभावे संज्ञिपर्याप्तानामष्टौ सत्तास्थानानि तानि च अनन्तरोक्तान्येव द्रष्टव्यानि केवलमाद्यानि चत्यारि क्षीणमोहगुणस्थाने तदेवं सर्वसंख्यया संज्ञिपर्याप्तानां द्वे सत्तास्थानानामष्टाधिके / यदि पुनर्द्रव्यमनोभिः संबन्धादत्र केवलिनोऽपि संझिनो विवक्ष्यन्ते तदानीं केवलिसत्कानि षडविंशतिसत्तास्थानान्यपि भवन्ति तद्यथा के बलिनां दश उदयस्थानानि तद्यथा विंशतिः एक विंशतिः षड्वंशतिः सप्तविंशतिःअष्टाविंशतिःएकोनत्रिंशत् त्रिंशत् एकत्रिंशत् नव अष्टौ च। तत्र विंशत्युदये द्वे सत्तास्थाने तद्यथा एकोनाशीतिः पञ्चसप्ततिश्च / एते एवषडविंशत्युदयाष्टाविंशत्युदययोरपि प्रत्येकं द्रष्टव्ये एकविंशत्युदयेऽपिष इमे द्वे सत्तास्थाने अशीतिः षट्सप्ततिश्च ते एव सप्तविंशत्युदयेऽपि एकोनविंशदुदये चत्वारि सत्तास्थानानि। तद्यथा अशीतिः षट् सप्ततिः एकोनाशीतिः पञ्चसप्ततिश्च / एकोनत्रिंशदुदयो हि तीर्थकरे अतीर्थकरे च प्राप्यते तत्र तीर्थकरमधिकृत्य द्वे द्वे सत्तास्थाने अतीर्थकरमधिकृत्य पुनरन्तिमे त्रिंशदुदये चत्वारि पूर्वोक्तानि एव एकत्रिंशदुदये द्वे अशीतिः षट् सप्ततिश्च / नवोदये त्रीणि तद्यथा अशीतिः षट्सप्ततिः नव च। तत्राद्ये द्वे तीर्थकरस्यायोगिकेवलिना द्विचरमसमयं यावत् चरमसमये त्वष्टाविति सर्वसमुदायेन संज्ञिनां चतुस्विंशदधिके द्वे शते सत्तास्थानानां तदेवं जीवस्थानान्यधिकृत्य स्वामित्वमुक्तम्।। ___ संप्रति गुणस्थानान्यधिकृत्याहनाणंतरायतिविहम वि दससु दो होंति दोसु ठाणेसु / मिच्छासाणे वीए, नव चउपण नवय संतंसा / / 46||
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy