SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ कम्म 315 - अभिधानराजेन्द्रः - भाग 3 द्रष्टव्यानि / उदयस्थानानि पञ्च तद्यथा एकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः षडविंशतिः सप्तविंशतिः। तत्रेकविंशतिरियं तजसं कार्मणं गुरुलधूस्थिरास्थिरे शुभाशुभेवर्णादिचतुष्टयनिर्माणं तिर्यग्गस्तिर्यगानुपूर्वी एकेन्द्रियजातिः स्थावरनाम बादरनाम पर्याप्तकनाम दुर्भगमनादे-- यमयशःकीर्तिरिति / एषा चैकविंशतिः पर्याप्तबादरस्यापान्तरालगतौ वर्तमानस्यावसेया / अत्र यशः कीर्त्ययशःकीर्तिभ्यां द्वौ भङ्गो ततः शरीरस्थस्यौदारिकशरीरं हुण्डसंस्थानमुपघातनाम प्रत्येक साधारणयोरेकतरमिति प्रकृतिचतुष्टयं प्रक्षिप्यते तिर्यगानुपूर्वी चापनीयते ततश्चतुर्विंशतिर्भवति। अत्र प्रत्येकसाधारणयशः कीर्त्ययश: कीर्तिपदैश्चत्वारो भङ्गाः वैक्रियं कुर्वतः पुनर्बादरवायुकायिकस्यैकः यतस्तस्य साधारणयशःकीर्ती उदयं नागच्छतः। अन्यच वायुकायिकचतुर्विशता वौदारिकशरीरस्थाने वैक्रियशरीरमिति वक्तव्यं शेषं तथैव सर्वसंख्यया चतुर्विशतौ पञ्च भङ्गाः / ततः शरीरपर्याप्त्या पर्याप्तस्य पराधाते प्रक्षिप्ते पञ्चविंशतित्रापि तथैव पञ्चभङ्गास्ततः प्राणापानपयप्त्यिा पर्याप्तस्योच्छवासे क्षिप्ते षडविंशतिः। अत्रापि तथैव पञ्च भङ्गाः। अथवा शरीरपर्याप्त्या पर्याप्तस्योच्छवासेऽनुदिते आतपोद्योतान्यतरस्मिंश्चोदिते षडविंशतिः। अत्रातपेन प्रत्येकयशःकीर्त्ययशःकीर्तिपदेी भङ्गो साधारणस्यातपोदयाभावात् तदाश्रितौ विकल्पो न भवतः / उद्योतेन प्रत्येकसाधारण यशःकीर्त्ययशःकीर्तिपदैश्चत्वारः सर्वसंख्यया षडविंशतावेकादश भङ्गाः ततः प्राणापानपर्याप्त्या पर्याप्तस्य उच्छवाससहितायां षडविंशतौ आतपोद्योतयोरन्यतरस्मिन् प्रक्षिप्ते सप्तविंशतिः। अत्र प्रागिवातपेन द्वौ उद्योतेन सह चत्वार इति सर्वसंख्यया सप्तविंशतौ षड् भङ्गाः सर्वे बादरपर्याप्तस्य भङ्गा एकोनविंशत् सत्तास्थानानि पञ्च तद्यथा द्विनवतिरष्टाशीतिः षडशीतिरशीरष्टसप्ततिश्च / इह पञ्चविंशत्युदये षडविंशत्युदये च प्रत्येकायशःकीर्तिभ्यामेकैको दौ भङ्गो यौ द्वौ भङ्गावेकविंशतौ ये च वैक्रियबादरवायुकायिकयर्जाश्चतुविंशतौ भङ्गश्चत्वारस्ते सर्वेऽपि संख्ययाऽष्टौ पञ्चस्थानकाः शेषस्त्वेकविंशतिसंख्यकाश्चतुः संस्थानकाः। पणछप्पणगंति अत्र विकलिंदिया उ तिन्नि उ इति संबध्यते विकलेन्द्रियाणां त्रयाणां पञ्च बन्धस्थानानितद्यथा त्रयोविंशतिः पञ्चविंशतिः षडविंशतिरेकोनकत्रिंशत् त्रिंशत् एतान्यपि तिर्यग्मनुष्यप्रायोग्यानि तानि च प्रागिव द्रष्टव्यानि षट् उदयस्थानानि तद्यथा एकविंशतिः पञ्चविंशतिः षडविंशतिरेकोनत्रिंशत् त्रिंशत् एकत्रिंशत् तत्र पर्याप्तद्वीन्द्रियस्य कविंशतिरियं तैजसं कार्मणमगुरुलघू स्थिरास्थिरे शुभाशुभे वर्णादिचतुष्टयनिर्माण सिर्यगतिस्तिर्यगानुपूर्वी द्वीन्द्रियजातिस्त्रसनाम बादरनाम पर्याप्तकनाम दुर्भगमनादेयं यशःकीर्त्ययशः कीोरेकतरमिति / एषा चैकविंशतिः पर्याप्तद्वीन्द्रियस्यापान्तरालगतौ वर्त्तमानस्यावसेया अत्र द्वौ भङ्गो यश:कीय॑यशःकीर्तिभ्यां ततःशरीरस्थस्य औदारिकाङ्गोपाङ्ग हुण्डसंस्थान सेवार्तसंहननमुपघातं प्रत्येकमिति प्रकृतिषटकं प्रक्षिप्यते तिर्यगानुपूर्वी चापनीयतेततः षडविंशतिर्भवति। अत्रापि तावेव द्वौ भङ्गो। ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते प्रशस्तविहायोगतौ प्रक्षिप्तायामष्टाविंशतिः अत्रापि तावेव द्वौ भङ्गौ / प्राणापानपर्याप्त्या पर्याप्तस्योच्छावासे क्षिप्ते एकानत्रिंशत् अत्रापि तावेव द्वौ भङ्गौ अत्रापि तस्यामेवाष्टाविंशतौ उच्छवासेऽनुदिते उद्योतनानि तूदिते एकोनत्रिंशत् अत्रापि तावेव द्वौ भङ्गौ सर्वसंख्यया एकोनत्रिंशत् चत्वारो भङ्गाः। ततो भाषापर्याप्त्या पर्याप्तस्य उच्छवाससहितायामेकोत्रिंशति सुस्वरदुः- / स्वरयोरेकतरस्मिन् क्षिप्ते त्रिंशद्वति अत्र भङ्गाः सुस्वरदुःस्वरयशः कीर्त्ययशःकीर्तिपदैश्चत्वारः अथवा उच्छाससहितायामेकोनत्रिंशति स्वरेऽनुदिते उद्योतनाम्नि तूदिते त्रिंशत् अत्रोद्योतयशः कीर्त्ययश:कीर्तिपदै भङ्गौ सर्वसंख्यया त्रिंशतिषड भङ्गाः / स्वर-सहितायामेव त्रिंशत् / अत्र सुस्वरदुःस्वरयशःकीर्त्ययश:कीर्तिपदैर्भङ्गाश्चत्वारःसर्वसंख्यया पर्याप्तद्वीन्द्रियस्य भङ्गाविंशतिः सत्ता स्थानानि पञ्च तद्यथा द्विनवतिरष्टाशीतिःषडशीतिरष्टसप्ततिश्च। अत्र यावेकर्विशत्युदये द्वौ भङ्गो यौ च षडविंशत्युदये एते चत्वार पञ्च सत्तास्थानकाः यतोऽष्टसप्ततिस्तेजोवायुभवादुङ्कृत्य पर्याप्तद्वीन्द्रियत्वेनोत्पन्नानधिकृत्य कियत्कालं प्राप्यते शेषास्तुषोडश भङ्गाश्चतुःसत्तास्थानकास्तेष्वष्टसप्ततरेप्राप्यमाणत्वात्। तेजोवायुवर्जा हि शरीरपर्याप्त्या नियमतो मनुष्यगतिमनुष्यानुपूव्या बध्नन्ति ततः सप्तविंशत्युदयेष्वष्टसप्ततिर्नप्राप्यते एवं त्रीन्द्रियचतुरिन्द्रियाणामपि पर्याप्तानां वक्तव्यम् (छच्छप्पणगं ति) अत्र "असन्नी य" इति संबध्यते असंज्ञिपोन्द्रियस्य पर्याप्तस्य षड् बन्धस्थानानितद्यथा त्रयोविंशतिः पञ्चविशतिः षड्विंशतिरष्टाविंशतिरेकोनत्रिंशत् त्रिंशत् / असंज्ञिपञ्चेन्द्रिया हि पर्याप्ता नरकगतिदेवगतिप्रायोग्यमपि बध्नन्ति ततस्तेषामशविंशतिरपि बन्धस्थानं लभ्यते षडुदयस्थानानि तद्यथा एकविंशतिः षड्विंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् एकत्रिंशत्। तत्रैकविंशतिरयं तैजसंकार्मणं गुरुलघू स्थिरास्थिरे शुभाशुभे वर्णादिचतुष्टयनिर्माणं तिर्यग्गतिस्तिर्यगानुपूर्वी पञ्चेन्द्रियजातिस्त्रसनाम बादरनाम पर्याप्तकनाम सुभगदुर्भगयोरेकतरमादेयानादेययोरेकतरं यशःकीर्त्ययशः कीोरकतरमिति एषा चैकविंशतिरसंज्ञिपञ्चेन्द्रियस्यापर्याप्तस्यापान्तरालगतौ वर्तमानस्य प्राप्यते अत्र सुभगदुर्भगादेयानादेययशः कीर्त्ययशःकीर्तिभिरष्टौ भङ्गाः ततः शरीरस्थस्य औदारिकमौदारिकाङ्गोपाङ्ग षण्णां संस्थानानामकेतमत् संस्थानं षण्णां संहननामेकतमत् संहननामुपघातं प्रत्येकमिति प्रकृतिषट्कं प्राप्यते तिर्यगानुपूर्वी चापनीयते ततः षड्विंशतिः / अत्र षड्भः संस्थानः षडभिः संहननैः सुभगदुर्भगाभ्यामादेयानादेयाभ्या यशःकीर्त्ययशःकीर्त्तिभ्यां च द्वे शते भङ्गानामष्टाशीशत्यधिके / ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते प्रशस्ताप्रशस्तविहायोगत्योरन्यतरविहायोगतौ च प्रक्षिप्तायामष्टा विंशतिः अत्र पाश्चात्या एव भङ्गा विहायोगतिद्विकेन गुण्यन्ते ततो भङ्गानां पञ्च शतानिषट् सप्तत्यधिकानि भवन्ति। ततः प्राणापान पर्याप्त्या पर्याप्तस्योच्छवासे क्षिप्ते एकोनत्रिंशत् / अत्रापि भङ्गानां पञ्च शतानिषट्सप्तत्यधिकानि। अथवा शरीरपर्याप्त्या पर्याप्तस्य उच्छवासेऽनुदिते उद्योते तूदिते एकोनत्रिंशत् / अत्रापि पञ्च शतानि षट् सप्तत्यधिकानि भङ्गानां सर्वसंख्यया एकादश शतानि द्विपञ्चाशदधिकानि ततो भाषापर्याप्त्या पर्याप्तस्योच्छवाससहितायामेकोनत्रिंशति सुस्वरदुः स्वरयोरेकतरस्मिन् प्रक्षिप्ते त्रिंशद्भवन्ति। अत्र पाश्चात्यान्युच्छवासलब्धानि भङ्गानां पञ्चशतानि षट्सप्तत्यधिकानि सुस्वरद्विकेन गुण्यन्ते ततः एकादश शतानि द्विपञ्चशदधिकानि भवन्ति / अथवा प्राणापानपर्याप्त्या पर्याप्तस्य स्वरेऽनुदिते उद्योतनाम्नि तूदिते त्रिंशद्भवन्ति अत्र भङ्गानां पञ्चशतानि षट्सप्त्स्त्यधिकानि सर्वसंख्यया त्रिंशति भङ्गाः सप्तदश शतानि अष्टाविंशत्यधिकानि ततः स्वरसहितायां विंशति उद्योते प्रक्षिप्ते एकत्रिंशद्भवति अत्र भङ्गानामेकादश शतानि द्विपञ्चाशदधिकानि सर्वसंख्यया पर्याप्ता संज्ञिपशेन्द्रियस्यै कोनपञ्चाशच्छतानि च चतुरधिकान्यसं
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy