________________ कम्म 314 - अभिधानराजेन्द्रः - भाग 3 च्छति ततस्तन्मतेन तस्य द्वाविंशतिबन्धे एकविंशतिबन्धे च प्रत्येकमेकैकस्मिन् सप्तादा उदयस्थाने त्रिभिदैश्चतुर्विशतिर्भङ्गाः / अवसेयाः। एकस्मिन् पर्याप्तसंज्ञिरूपे जीवस्थाने नवोदयस्थानानि तानि च प्रागिव सप्तभेदानि वक्तव्यानि (तिगतिगपन्नरस संतम्मित्ति) अष्टसु पूर्वोक्तरूपेषु जीवस्थानेषु त्रीणि सत्तास्थानानि तद्यथा अष्टाविंशतिः सप्तविंसतिः षडविंशतिश्च / पञ्चस्वपि चोक्तरूपेषु जीवस्थानेषु तान्येय त्रीणि त्रीणि सत्तास्थानानि एकस्मिन् पर्याप्तसंज्ञिनि पञ्चेन्द्रियरूपे जीवस्थाने पुनः पञ्चदश सत्तास्थानानि तानि च प्रागिव सप्तभेदानि वक्तव्यानि / संप्रति संवेध उच्यते / तत्राष्टसु जीवस्थानेषु द्वाविंशतिर्बन्धस्थानं त्रीण्युदयस्थानानि तद्यथा अष्टौ नव दश च / एकैकस्मिन् उदयस्थाने त्रीणि सत्तास्थानानि तद्यथा अष्टाविंशतिः सप्तविंशतिः षडविंशतिश्च / सर्वसंख्यया नव सत्तास्थानानि एवमुक्तरूपेषु / जीवस्थनेषुद्वेद्वेबन्धस्थानेतद्यथा द्वात्रिंशतिरेक विंशतिश्च तत्र द्वाविंशतिबन्धे प्रागुक्तान्येव त्रीण्युदयस्थानानि एकै कस्मिंश्च उदयस्थानेतान्येव पूर्वोक्तानि त्रीणि त्रीणि सत्तास्थानानि एकविंशतिबन्धे अभूनित्रीण्युदयस्थानानितद्यथा सप्त अष्टौ नव एकैकस्मिंश्च उदयस्थाने एकैकं सत्तास्थानमष्टाविंशतिः / एकविंशतिबन्धो हि सासादनभावमुपागतेषु प्राप्यते सासादनाश्चवश्यमष्टाविंशतिसत्कर्माणस्तेषा दर्शनत्रिकस्य नियमतो भावात् / ततस्तेषु सत्ता स्थानमष्टाविंशतिः एकविंशतिबन्धे त्रीणि सत्तास्थानानि द्वाविंशतिबन्धे च नव इति सर्वसंख्यया पञ्चसु जीवस्थानेषु प्रत्येकं द्वादश द्वादश सत्तास्थानानि भवन्ति एकस्मिन् संकज्ञपर्याप्त पुनर्जी वस्थाने संवेधः प्रागुक्त एव सप्रपञ्चो द्रष्टव्यः। कर्म०६ क०। संप्रति नामकर्मजीवस्थानेषु चिन्तयन्नाह -- पणदुगपणगं पणचउ पणगं पणगा हवंति तिनेव। पणछप्पणगं छच्छप्पणगं अट्ठदसगं ति॥४१|| सत्तेव अपज्जत्ता, सामी सुहुमा य वायरा चेव। विगलिंदिया ए तिन्नि उ, तह य असन्नीय सन्नी य॥४२॥ अनयोथियोः पदानां यथाक्रमं संबन्धस्तद्यथा पणदुगपणगंति सामी सत्तेव अपनत्ता बन्धोदयसत्ताप्रकृतिस्थानानां यथाकृमं पञ्चकं द्विकं पञ्चकंच प्रतिस्वामिनः सप्तैवापर्याप्ताः / इयमत्र भावना सप्तानामपर्याप्तानां पञ्च पञ्च बन्धस्थानानि द्वे द्वे उदयस्थाने पञ्च पञ्च सत्तास्थानानि तत्र बन्धस्थानान्यमूनि त्रयोविंशतिः पञ्चविंशतिः षडविंशतिरेकोनत्रिंशत् त्रिंशत् अपर्याप्ता हि सप्तापि तिर्यग्मनुष्यप्रायोग्यमेव बध्नन्ति न देवनरकप्रायोग्यं ततो यथोक्तान्येवेह बन्धस्थानानि प्राप्यन्ते न न्यूनाधिकानि च / तिर्यग्मनुष्यप्रायोग्यानि प्रागिव सप्रपञ्चं वक्तव्यानि उदयस्थाने पुनरपर्याप्तसूक्ष्मबादरैकेन्द्रिययोरिमे एकविंशतिश्चतुविंशतिश्च / तत्रापर्याप्तबादरस्यैकविंशतिरियं तिर्यग्गतिस्तिर्यगानुपूर्वी तैजसकार्मणागुरुलघुवर्णादिचतुष्टयमेकेन्द्रियजातिः स्थावरनाम बादरनाप्त अपर्याप्तकनाम स्थिरास्थिरे शुभाशुभे दुर्भगमनादेयमयशः कीर्तिनिर्माणमितिएषा चैकविंशतिरेपान्तरालगतौ वर्तमानस्य प्राप्यते अत्र च एक एव भङ्ग: उभयोरपि तस्यामेकविंशतौ औदारिकशरीरं हुण्डसंस्थानमुपघातनाम प्रत्येकसाधारणयोरेकतरमिति प्रकृतिचतुष्टयेऽपि प्रक्षिप्ते तिर्यगानुपूर्यो चापनीतायां चतुर्विंशतिः / अत्र प्रत्येकसाधारणाभ्यां सूक्ष्मानपर्याप्तस्य च प्रत्येकं द्वौ द्वौ भङ्गोः तदेवं द्वेद्वे उदयस्थाने अधिकृत्य द्वयोरपि प्रत्येकं त्रयस्त्रयो भङ्गाः / विकलेन्द्रियासंज्ञिसंजयपर्याप्तानां प्रत्येकमिमे द्वे द्वेउदयस्थाने तद्यथा एकविंशतिः षडविंशतिश्च। तत्रैकविंशतिरपर्याप्तद्वीन्द्रियाणामिदं तैजसं कार्मणभगुरुलघू स्थिरास्थिरे शुभाशुभे वर्णादिचतुष्टयनिर्णि तिर्यग्गतिस्तिर्यगानुपूर्वी द्वीन्द्रियजातिस्त्रसनाम बादरनाम पर्याप्तकनाम दुर्भगमनादेयम यशःकीर्तिरिति एषा चैकविंशतिरपान्तरालगता वर्तमानस्यावसेया। अत्रसर्वाण्यपि पदान्यप्रशस्तान्येवेति कृत्वा एक एव भङ्गः ततः शरीरस्थस्यौदारिकमौदारिकाङ्गोपाङ्गं हुण्डसंस्थानं से वार्तसंहननमुपघातं प्रत्येक मिति प्रकृतिषट्कं प्रक्षिप्यते तिर्यगानुपूर्वी चापनीयते ततः षडविंशतिर्भवति। अत्राप्येक एव भङ्गः / एवं त्रीन्द्रियादीनामप्यवगन्तव्यं नवरं द्वीन्द्रियजातिस्थाने जीन्द्रियजातिरित्युच्चारणीयं तदेवमपर्याप्तद्वीन्द्रियादीनां प्रत्येकं द्वे द्वे उदयस्थाने अधिकृत्य द्वौ द्वौ भङ्गौ वेदितव्यौ केवलमपर्याप्तसंज्ञिनश्चत्वारः यतौ द्वौ भङ्गावपर्याप्तसंझिनस्तिरश्चः प्राप्येते द्वी चापर्याप्तसंज्ञिनो मनुष्यस्येति प्रत्येक सप्तानामपर्याप्तानां पञ्च पञ्च सत्तास्थानानि तद्यथा द्विनवतिः अष्टाशीतिः षडशीतिः अशीति रष्टसप्ततिश्च / एतेषां च स्वरूपं प्रागिव द्रष्टव्यम् पणचउपणगंति सुहमा इति संबध्यते सूक्ष्मस्य पर्याप्तस्य पञ्च बन्धस्थानानि तद्यथा त्रयोविंशतिः पञ्चविंशतिः षडविंशतिरेकोनत्रिंशत् त्रिंशत् एतानि च तिर्यङ्गनुष्यप्रायोग्यान्येव द्रष्टव्यानितत्रैव सूक्ष्मपर्याप्तस्योत्पादसंभवात्। एतेषां च स्वरूपं प्रागिव सप्रपा द्रष्टव्यम् / उदयस्थानानि चत्यारि तद्यथा एकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः षडविंशतिः / तत्रैकविंशतिरिय तेजस कार्मणमगुरुलघू स्थिरास्थिरे शुभाशुभे वर्णादिचतुष्टयं निर्माण तिर्यग्गतिस्तिर्यगानुपूर्वी एकेन्द्रियजातिः स्थावरनाम सूक्ष्मनाम पर्याप्तक नामदुर्भगमनादेयमयशःकीर्तिरिति। एषा चै कविंशतिः सूक्ष्मपर्याप्तस्यापान्तरालगतौ वर्तमानस्य वेदितव्या अत्रैको भङ्गः प्रतिपक्षपदविकल्पस्यै कस्याप्य भावात् / अस्यामे वैकविंशतौ औदारिकशरीरं हुण्डसंस्थाकानमुपघातं प्रत्येकसाधारण्योरेकेतरमिति प्रकृतिचतुष्टयं प्रक्षिप्यते पञ्चविंशतिः तिर्यगानुपूर्वी चापनीयते ततश्चतुर्विशतिर्भवति / सा च शरीरस्थस्य प्राप्यते तत्र प्रत्येकसाधारणाभ्यां द्वौ भङ्गौ ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते क्षिप्ते पञ्चविंशतिः अत्रापि तावेव द्वौ भड़ौ ततः प्राणापानपर्याप्त्या पर्याप्तस्योच्छवासे क्षिप्ते षडविंशतिरत्रापि तावेव द्वौ भङ्गौ सर्वसंख्यया सूक्ष्मपर्याप्तस्य चत्वार्युदयस्थानान्यधिकृत्य भङ्गाः सप्त पञ्च सत्तास्थानानि तद्यथा द्विनवतिः अष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिश्च / केवलं पञ्चविंशत्युदये षडविंशत्युदये च प्रत्येकं यः साधारणपदेन सह भङ्गस्तत्राष्टसप्ततिवर्जीनि चत्वारि सत्तास्थानानि वक्तव्यानि / शरीरपर्याप्त्या हि पर्याप्तस्तेजोवायुवर्जः सर्वोऽपि मनुष्यगतिमनुष्यानुपूयॊ नियमात् बध्नाति पञ्चविंशतिषडविंशत्युदयौ च शरीरपर्याप्त्या पर्याप्तस्य भवतः ततः साधारणस्य सूक्ष्मपर्याप्तस्य पञ्चविंशत्युदये षडविंशत्युदये चाष्टसप्ततिर्न प्राप्यते प्रत्येक पदे पुनस्तेजोवायुकायिकावप्यन्तर्भवत इति तदपेक्षया तत्राष्टसप्ततिलभ्यते। तदेवं साधारणपदानुगौ पञ्चविंशतिसत्कौ द्वौ भङ्गौ चतुःसत्तास्थानको शेषास्तु पञ्च भङ्गाः पञ्च सत्तास्थानकाः "पणगाहिवंति तिम्नेव" अत्र बादरा इति संबध्यतेपर्याप्तवादरैकेन्द्रियस्य पञ्च बन्धस्थानानि तद्यथा त्रयोविशतिः पञ्चविंशतिः षडविंशतिरेकोनत्रिंशत् त्रिंशत् एतानि तिर्यम्मनुष्यप्रायोग्यानि तानि च प्रागिव