________________ 313 - अभिधानराजेन्द्रः - भाग 3 कम्म नीचैर्गोत्रस्योदयाभावात् / तथा उच्चैर्गोत्रस्य बन्धः उचैर्गोत्रस्योदयः उचनीचैर्गोत्रे सती एष च विकल्पः सूक्ष्मसंपरायगुणस्थानकं यावदवसेयः परतो बन्धाभावात् / उचैर्गोत्रस्योदयः उच्चनीच्यैर्गोत्रे सती। एष विकल्प उपशान्तमोहगुणस्थानकादारभ्य सयोगिकेवलिनि द्विचरमसमयं यावदवाप्यते। उच्चैर्गोत्रस्योदय: उचैर्गोत्रं सत्एष विकल्पोऽयोगिकेवलिचरमसमये इतरेषु पुनः पर्याप्तसंज्ञिव्यतिरिक्तेषु त्रयोदशसु जीवस्थानेषु प्रत्येकं त्रयस्त्रयो भङ्गास्तद्यथा नीचैर्गोत्रस्य बन्धः नीचैर्गोत्रस्योदयः नीत्रैर्गोत्रं सत्। अयं च विकल्पस्तेजोवायुषु उच्चैर्गोत्रोद्वलनानन्तरं सर्वकालं तेजोवायुभवादुद्वृत्य समुत्पन्नेषु वा पृथिव्यादिद्वीन्द्रियादिषु कियत्कालं प्राप्यते नान्येषु। तथा नीचैर्गोत्रस्य बन्धः नीचैर्गोत्रस्योदयः उच्चनीचैर्गोत्रे सती तथा उच्चैर्गोत्रस्य बन्धो नीचैर्गोत्रस्योदयः उच्चनीचैर्गोत्रे सती शेषा विकल्पान संभवन्ति तिर्यगुचैर्गोत्रस्योदयाभावात्। संप्रत्यायुषो भङ्गा निरूप्यन्ते तन्निरूपणार्थं चेयमन्तर्भाष्यगाथा पञ्जत्ता पज्जत्तगसमणा पज्जत्त अमणसेसेसु। अट्ठावीसं दसगं, नवगं पणगं च आउस्स / / 3 / / समनाः संज्ञी तत्र पर्याप्त संज्ञिन्यायुषो भङ्गाः अष्टाविंशतिः। अपर्याप्ते संज्ञिनि भङ्गानां दशकं पर्याप्त अमनसि असंज्ञिनि पञ्चेन्द्रिये भङ्गानां नवकं शेषेष्येकादशसु जीवस्थानेषु पुनर्भङ्गानां प्रत्येकं पञ्चकमिति। तत्र संज्ञिनि पर्याप्ते इमे अष्टाविंशतिर्भङ्गाः / नैरयिकस्य नरकायुष उदयो नरकायुः सत् अयं परभवायुर्बम्धकालात्पूर्व परभवायुर्बन्धकाले तिर्यगायुषो बन्धः नरकायुष उदयः नरकतिर्यगायुषी सती / अथवा मनुष्यायुषो बन्धःनरकायुष उदयः नरकमनुष्यायुषी सती / अथवा नरकायुष उदयः नरकमनुष्यायुषी सती। इह नारका देवायुनारकायुश्च भवप्रत्ययादेय न बध्नन्ति तत्रोत्पत्त्यभावात् ततो नारकाणां परभवायुर्बन्धकाले बन्धोत्तरकाले च देवायुनरिकायुभ्यॊ विकल्पाभावात् सर्वसंख्यया पञ्च विकल्पाः। एवं देवानामपि पञ्च विकल्पा भावनीया नवरंनारकायुःस्थाने देवायुरिति वक्तव्यम् तद्यथा देवायुष उदयः देवायुषः सत्ता इत्यादि। तथा तिर्यगायुष उदयः तिर्यगायुषः सत्ता अयं विकल्पः परभवायुर्बन्धकालात्पूर्व परभवायुबन्धकाले तु नरकायुषो बन्धस्तिर्यगायुष उदयः नरकतिर्यगायुषी सती / अथवा तिर्यगायुषो बन्धस्तिर्यगायुष उदयः तिर्यकतिर्यगायुषी सती / अथवा मनुष्यायुषो बन्धः तिर्यगायुष उदयः मनुष्यतिर्यगायुषी सती। अथवा देवायुषो बन्धः तिर्यगायुषउदयः देवतिर्यगायुषी सती परभवायुर्बन्धोत्तरकालं तिर्यगायुष उदयो नरकतिर्यगायुषी सती। अथवा तिर्यगायुष उदयस्तियक्तिर्यगायुषी सती।अथवा तिर्यगायुष उदयो मनुष्यतिर्यगायुषी सती अथवा तिर्यगायुष उदयः देवतिर्यगायुषी सती / सर्वसंख्यया संज्ञिपर्याप्ततिरश्चां नव विकल्पाः। एवं मनुष्याणामपि नव भङ्गाभावनीयाः केवलं तिर्यगायुःस्थाने मनुष्यायुरित्यभिधातव्यम्। तद्यथा मनुष्यायुष उदयो मनुष्यायुषः सत्ता इत्यादि। तदेवं सर्वसंख्यया संज्ञिनि पर्याप्त अष्टाविंशतिर्भङ्गा अपयप्ति संज्ञिनि आयुषो दश भङ्गास्ते च इमे तिर्यगायुष उदयः तिर्यगायुषः सत्ता अयं विकल्पः परभवायुर्बन्धकालात्पूर्व परभवायुर्बन्धकाले तिर्यगायुषो बन्धस्तिर्यगायुष उदयः तिर्यक्तिर्यगायुषः सत्ता / अथवा मनुष्यायुषो बन्धस्तिर्यगायुष उदयो मनुष्यगतिर्यगायुषी सती परभवायुर्बन्धोत्तरकालं तिर्यगायुष उदयः तिर्यगायुषी सती। अथवा तिर्यगायुष उदयो मनुष्यतिर्यगायुषी सती / एवं तिरश्चोऽपर्याप्तसंझिनः पञ्च भङ्गाः मनुष्यस्यापि पञ्चवक्तव्याः। सर्वसंख्यया दश शेषा न भवन्ति। अपर्याप्तो हि संज्ञी तिर्यग्मनुष्योवान देवनारको नचापि स देवायुर्नरकायुर्वा बध्नाति ततो दशैव यथोक्ता भङ्गाः। तथा ये प्राक् संझितिरश्चां नव भङ्गादत्तास्ते एवासंज्ञिपर्याप्तऽपि नव भङ्गावक्तव्याः ततोऽसंज्ञी पर्याप्तस्तिर्यगेव भवति न मनुष्यादि ततोऽत्र तदाश्रिता भङ्गा न प्राप्यन्ते तथा ये पर्याप्तसंज्ञितिरश्चां पञ्च भङ्गाः प्रागुक्तास्तएव भङ्गाः शेषेष्वप्येकादशसु जीवस्थानेषु वक्तव्याः सर्वेषामपि तिर्यक्त्वात् देवादिषूत्पादाभावाच। (मोहं परं वोच्छं ति) अतः परं मोहनीयं जीवस्थानेषु वक्ष्ये। अट्ठसु पंचसु एगे, एगदुगं दस य मोहबंधगए। तिग चउ नव उदयगए, तिगतिगपन्नरस संतम्मि॥४०॥ अष्टसु पञ्चसु एकस्मिंश्च यथाक्रममेकं द्वे दश च मोहनीयप्रकृतिबन्ध गतानिस्थानानि भवन्ति तत्राष्टसु पर्याप्तापर्याप्तसूक्ष्मापर्याप्तबादरद्वीन्द्रियत्रीन्द्रियश्चतुरिन्द्रियसंजयसंज्ञिपञ्चेन्द्रियरूपेषु एक बन्धस्थानं द्वाविंशतिरूपम् / द्वाविंशतिश्चेयं मिथ्यात्वं षोडश कषायाःत्रयाणां वेदानामन्यतमो वेदः हास्यरतियुगलारतिशोकयुगलयोरन्यतरत् युगलं भयं जुगुप्सा चेति। अत्र त्रिभिर्वेदैर्टाभ्यां युगलाभ्यां षड् भङ्गाः भवन्ति पर्याप्तबादरद्वित्रिचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियरूपेषु पञ्चसु जीवस्थानेषु इमे द्वे द्वे बन्धस्थाने तद्यथा द्वाविंशतिरेकविंशतिश्च / तत्र द्वाविंशतिः प्रागिवसप्तभेदा बक्तव्या सैव च द्वाविंशतिर्मिथ्यात्वहीना एकविंशतिः सा च केषांचित् करणापर्याप्तावस्थायां सासादनभावे सतिलभ्यतेन सर्वेषां शेणकाले वा / अत्र चत्वारो भङ्गाः यत इह नपुंसकवेदो न बन्धमायाति मिथ्यात्वादेयाभावात् नपुंसकवेदस्य च मिथ्यात्वोदयनिबन्धनत्वात् ततो द्वाभ्यां वेदाभ्यां युगलाभ्यां चत्वार एव भङ्गाः एकस्मिंश्च पर्याप्तसंज्ञिरूपे जीवस्थाने द्वाविंशत्यादीनिदश बन्धस्थानानि तानि च प्राग्वत्सप्तभेदार्नि वक्तव्यानि “तिग चउनवउदयविहि" इति यथोक्तरूपेष्वष्टसुजीवस्थानेषु प्रत्येकं त्रीणि त्रीणि उदयस्थानानि तद्यथा अष्टौ नव दश च / यत्तु सप्तकमुदयस्थानमनन्तानुबन्ध्युदयरहितं तन्नप्राप्यते तेषामवश्यमनन्तानुबन्ध्युदयसहितत्वात् वेदश्च तेषामुदयप्राप्तो नपुंसकवदेएव, नस्त्रीवेदपूरुषवेदौ। ततोऽष्टोदये मिथ्यात्वं क्रोधादीनामन्यतमाश्चत्वारः क्रोधादिका नपुंसकवेदोऽन्यतरत् युगलमित्येवंरूपैश्चतुर्भिः क्रोधादिभिर्द्धाभ्यां च युगलाभ्यां भङ्गा अष्टौएवं भये वा जुगुप्सायां वा प्राप्तायां नवोदयः / अत्रैकैकस्मिन् विकल्पे भङ्गाः अष्टौ अष्टौ प्राप्यन्ते इति सर्वसंख्यया नवोदये भङ्गाः षोडश / जुगुप्सयोस्तु युगपत् प्रक्षिप्तयार्देशोदयः अत्रभङ्गा अष्टौ / सर्वसंख्यया अष्टसु जीवस्थानेषु प्रत्येकं द्वात्रिंशद्भङ्गाः। तथा उक्तरूपेषु पञ्चसु जीवस्थानेषु प्रत्येक चत्वारि चत्वारि उदयस्थानानि तद्यथा सप्त अष्टौ नव दश / तत्र सासादनकाले एकविंशतिबन्धे सप्ताटनवरूपाणि त्रीणि उदयस्थानानि वेदश्च तेषामुदयप्राप्तो नपुंसकवेदस्ततोऽन्यतमे चत्वारः क्रोधादिका नपुंसकवेदोऽन्यतरयुगलमिति। सप्तोदय एकविंशतिबन्धे ध्रुवः अत्र प्रागिवाष्टौ भङ्गाः / ततो भये जुगुप्सायां या प्रक्षिप्तायामष्टोदयः अत्राष्टावेव भङ्गाः सर्यसंख्यया सासादनभावे भङ्गाः द्वात्रिंशत् सासादनभावाभावे द्वाविंशतिबन्धे पुनः त्रीण्दुदयस्थानानि तद्यथा अष्टौ नव दश च / एतानि प्रागिव भावनीयानि चूर्णिकारस्त्यसंज्ञिन्यपि लब्धपर्याप्तिके त्रीन् वेदान् यथायोगमुदयप्राप्तानि