________________ 312- अभिधानराजेन्द्रः - भाग 3 कम्म सप्ततिश्च एवं षडविंशत्यष्टाविंशत्युदयेऽपि द्रष्टव्या। एकविंशत्युदये इमेद्वे सत्ता स्थाने तद्यथा अशीतिः षट्सप्ततिश्च एवं सप्तविंशत्युदयेऽपि। एकोन त्रिंशति चत्वारि सत्तास्थानानि तद्यथा अशीतिः षट् सप्ततिरेकोनाशीतिः पञ्चसप्ततिश्च यत एकोनत्रिंशत्तीर्थकरस्यातीर्थकरस्य च भवति। तत्राद्ये द्वे तीर्थकरमधिकृत्य वेदितव्ये अन्तिमे द्वे अतीर्थकरमधिकृत्य / त्रिंशदुदयेऽष्टौ सत्तास्थानानि तद्यथा त्रिनवतिर्दिनविरेकोननवतिः अष्टाशीतिः अशीतिः एकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिश्च। तत्राद्यानि चत्वार्युपशान्तकषायस्य क्षपकस्य त्रयोदशकं न क्षीयते अन्त्यानि चत्वारि क्षीणत्रयोदशकस्य के वलिनो वा आहारक सत्कर्मणस्तीर्थकरस्याशीतिस्तस्यैवातीर्थकरस्यैकोनाशीतिः आहारक चतुष्टयरहितस्य तीर्थकरस्य क्षीणकषायस्य सयोगिकेवलिनो वा षट् सप्ततिः तस्यैवातीर्थकरस्य पञ्चसप्ततिः / एकत्रिंशदुदये द्वे सत्तास्थाने तद्यथा अशीतिः षट् सप्ततिस्तीर्थकरके वलिनो बेदितव्ये अतीर्थकरके वलिन एकत्रिंशदुदयस्यैवाभावात् / नवोदये त्रीणि सत्तास्थानानि तद्यथा अशीतिः षट् सप्ततिर्नव च तत्राद्ये द्वे यावद् द्विचरमसमयं तावदयोगि-केवलिनस्तीर्थकरस्य वेदितव्ये चरमसमये तु नय। अष्टोदये त्रीणि सत्तास्थानानि तद्यथा एकोनाशीतिः पञ्चसप्ततिरष्टौ च। तत्राद्ये द्वे अयोगिकेवलिनोऽतीर्थकरस्य द्विचरमसमयं यावत् वेदितव्ये चरमसमये त्वष्टाविति / एवं बन्धकस्य दशाप्युदयस्थानानि भवन्ति तदेवमुक्ता उत्तरप्रकृतीनां बन्धोदयसत्तास्थानभेदाः संबेधश्च / संवेधस्वामित्वं गुणस्थानानि चाधिकृत्य स्वामि निदर्श्यते। तत्रोक्तक्रमेणैवैषां जीवस्थानानितिविगप्पपगइठाणे हिं जीवगुणसन्निएसु ठाणेसु। भंगा पउंजियप्वा, जत्थ जहा संभवो भवइ॥३५| त्रयो विकल्पा बन्धोदयसत्तारूपास्तेषां संबन्धीनि स्थानानि त्रिप्रकृति स्थानानि त्रिविकल्पप्रकृतिस्थानानि तैजीवसंज्ञितेषु गुण संज्ञितेषु च स्थानेषु जीवस्थानेषु गुणस्थानेषु चेत्यर्थः / भङ्गाः पूर्वोक्तानुसारेण वक्ष्यमाणानुसारेण च प्रयोक्तव्याः / कथमित्याह (जत्थ जहा संभयो भवइ) यत्र येषु जीवस्थानेषु गुणस्थानेषु च यथा संभवो भवति यथा घटना भवति तत्र तथा प्रयोक्तव्याः यो यत्र यथा भने घटते स तत्र तथा कर्तव्य इत्यर्थः। तत्र प्रथमजीवस्थानान्यधिकृत्य प्रतिपादयति। तेरससु जीवसंखे वएसु नाणंतरायतिविगप्पो। एक्कम्मि तिदुविगप्पो, करणं पइ एत्थ अविगप्पो॥३६॥ संक्षिप्यन्ते संगृह्यन्ते जीवा एभिरिति संक्षेपा अपर्याप्तकेन्द्रियत्वादयो ऽवान्तरजातिभेदाः। जीवानां संक्षेपाः जीवसंक्षेपाः जीवस्थानानीत्यर्थः / पर्याप्तसंज्ञिपञ्चेन्द्रियवर्जेषु शेषेषु त्रयोदशसुजीवस्थानेषु ज्ञानावरणान्तराययोर्बन्धोदयरुपास्त्रयो विकल्पास्तद्यथा पञ्चविधो बन्धः पञ्चविध उदयः पञ्चविधा सत्ता ज्ञानावरणान्तराययोधुवबन्धो यसत्ताकत्त्वात् (तिविगप्पो इति) द्विगुसमाहारत्वेऽप्यार्षत्वात्पुंस्त्वनिर्देशः (एगम्मि तिदुविगप्पो) एकस्मिन् पर्याप्तसंज्ञिपञ्चेन्द्रियलक्षणे जीवस्थाने त्रयो विकल्पा भवन्ति द्वौ वा विकल्पौ। तत्र त्रयो विकल्पा इमे पञ्चविधोबन्धः पञ्चविध उदयः पञ्चविधा सत्ता। एते च सूक्ष्मसंपरायगुणस्थानकं यावत् प्राप्यन्ते ततः परं बन्धच्छेदे उपशान्तमोहे क्षीणमोहे च द्वौ विकल्पी तद्यथा पञ्चविध उदयः पञ्चविधासत्ता अत्रान्यो भङ्गो न संभवति उदयसत्तयोर्युसपत् व्यवच्छेदात् (करण पइ एत्थ अविगप्पोत्ति) इह | केवलिनो मनोविज्ञानमधिकृत्य संज्ञिनो न भवन्ति द्रव्यमनःसंबन्धात् पुनस्तेऽपि संज्ञिनोव्यवह्रियन्ते उक्तं च “चूर्णी मणकरणे केवलिणो वि अस्थि तेण संनिणो वुच्चंति मणोविन्नाणं पडुच तेन सन्निणो हवंति त्ति" तत करणं द्रव्यमनो रूपं प्रतीत्य यःसंज्ञी सयोगिके वली वा भवस्थस्तस्मिन् / अत्र ज्ञानावरणेऽन्तराये च अविकल्पानामभावः / 'आमूलं तदुच्छेदे सति केवकिलत्वभावात्। सम्प्रति दर्शनावरणं जीवस्थानेषु चिन्तयतितेरे नव चउपणगं, नव सत्तेगम्मि भंगमिक्कारा। वेअणिअआउगोए, विभज्ज मोहं परं वुच्छं // 37 // पर्याप्तसंज्ञि पञ्चेन्द्रियवर्जेषु शेशेषु त्रयोदशसु जीवस्थानेषु नवविधो बन्धश्चतुर्विधः पञ्चविधो वा उदयो नवविधा सत्ता नवविधो बन्धः पञ्चविध उदयो नवविधा सत्तेत्येतौ द्वौ विकल्पौ (एगम्मिभंगमिक्कारत्ति) एकस्मिन् पर्याप्तसंज्ञिपञ्चेन्द्रियरूपे एकादश भङ्गास्ते च तथा प्राक् सामान्येग संबेधचिन्तायामुक्तास्तथैवात्राप्यन्यूनातिरिक्ता वक्तव्याः (वेअणिअआउगोएविभज्जत्ति) वेदनीय आयुषि गोत्रेचयानि बन्धादिप्रकृतिस्थानानि तानि यथाक्रमं जीवस्थानेषु विभजेत् विकल्प त् / तत्रेयं वेदनीयगोत्रयोर्विकल्प निरूपणार्थमन्तर्भाष्यगाथा। पज्जत्तगसनियरे, अट्ठचउक्कं च वेयणियभंगा। सत्तयतिगं च गोए, पत्तेयं जीवठाणेसु // 38 // पर्याप्त संज्ञिनि वेदनीयस्याष्टौ भङ्गास्तद्यथा असातस्य बन्धः असातस्योदयः सातासाते सती,अथवा असातस्यबन्धः सातस्योदयः सातासाते सती एतौ द्वौ विकल्पौ मिथ्यादृष्टिगुणस्थानकात् प्रभृति गुणस्थानकं यावत् नपरतः परतोऽसातस्य बन्धाभावात्। तथा सातस्य बन्धः असातस्योदयः सातासाते सती अथवा सातस्य बन्धः सातस्योदयः सातासाते सती। एतौ च द्वौ विकल्पो मिथ्यादृष्टिगुणस्थानकादारभ्य सयोगिकेवलिगुणस्थानकं यावत् प्राप्येते ततः परतो बन्धाभावे असातस्योदयः सातासाते सती अथवा सातस्योदयः सातासाते सती एतौ द्वौ विकल्पौ आयोगिकेवलिनि द्विचरमसमयं यावत् प्राप्येतेचरमसमयेतुअसातस्योदयः असातस्य सत्ता यस्य द्विचरमसमये सातं क्षीणं यस्य त्वसातं द्विचरमसमये क्षीणं तस्य सातस्योदयः सातस्य सत्तेति सर्वसंख्यया अष्टौ भङ्गाः। इह सयोगिकेवली अयोगिकेवली च द्रव्यमनोभिः संबन्धात्संज्ञी व्यवहियते ततः संज्ञिनि पर्याप्त वेदनीयस्याष्टौ भङ्गाः उच्यमाना न विरुद्ध्यन्ते इतरेषु पर्याप्तसंज्ञिव्यतिरिक्तेषु त्रयोदशसु जीवस्थानेषु प्रत्येकं प्रत्येकं चत्वारो भङ्गाः भवन्ति तद्यथा असातस्य बन्धः असातस्योदयः सातासाते सती असातस्य बन्धः सातस्योदयः सातासाते सती अथवा असातस्य बन्धः सातस्योदयः सातासाते सती सातस्य बन्धः असातस्योदयः सातासाते सती सत्त य तिगं च गोए इति गोते गोत्रस्य संज्ञिनि पर्याप्त सप्त भङ्गाः तद्यथा नीचैर्गोत्रस्य बन्धो नीचैर्गोस्योदयः नीचैर्गोत्रं सत् एष विकल्पस्तेजोवायुभवादुद्वृत्य तिर्यक्पञ्चेन्द्रियसंज्ञित्वेनोत्पन्ने कियत्कालं प्राप्यते उचैर्गोत्रस्य बन्धः नीचैर्गोत्रस्योदयः उच्चनीचैर्गोत्रे सती अथवा नीचैर्गोत्रस्य बन्धः उच्चेगोत्रस्योदयः उच्चनीचैर्गोत्रे सती एतौ च विकल्पोपर्याप्तसंज्ञिनि मिथ्यादृष्टौसासादनेवा प्राप्यतेन सम्यग्मिथ्यादृष्ट्यादी तस्य नीचैर्गोत्रबन्धाभावात् / तथा उचैर्गोत्रस्य बन्धः नीचेर्गोत्रस्योदयः उच्चनीचै गोत्रे सती एष विकल्पो मिथ्या दृष्टि गुणस्थानकादारभ्य देशविरतगुणस्थानकं वा यावत् प्राप्यते न परतःपरतो