________________ 311 - अभिधानराजेन्द्रः - भाग 3 कम्म पञ्चेन्द्रियतिर्यग्मनुष्य प्रायोग्यामेकोनत्रिंशतंभ बध्नतापयप्तिकेन्द्रियविकलेन्द्रियपञ्चेन्द्रिय तिर्यग्मनुष्याणां देवनैरयिकाणांच। चतुर्विंशत्युदयः पर्याप्तापर्याप्त केन्द्रियाणां पञ्चविंशत्युदयःपर्याप्पैकेन्द्रियाणां देवनैरयिकाणां वैक्रि यतिर्यग्मनुष्याणां मिथ्यादृष्टीना, षडविंशत्युदयः पर्याप्तैकेन्द्रियाणां पर्याप्तापर्याप्त विकलेकेन्द्रियतिर्थक्पश्चेन्द्रिय मनुष्याणां, सप्तविंशत्युदयः पर्याप्तैकेन्द्रियाणां देवनैरयिकाणां वैक्रियतिर्यग्मनुष्याजामष्टाविंशत्युदयः एकोनत्रिंशदुदयश्च विकलेन्द्रियतिर्यक्पञ्चेन्द्रियमनुष्याणां वैक्रियतिर्यग्मनुष्यदेवनैरयिकाणा चात्रिंशदुदयःविकलेन्द्रियमनुष्याणां देवानामुद्योतवेदकानामेकत्रिंशदुदयःपर्याप्तविकले न्द्रियतिर्यक्पञ्चेन्द्रियाणामुद्योतवेदकानम् / तथा देवगतिप्रायोग्यामेकोनत्रिंशतं बघ्नतो मनुष्याविरतातम्यग्दृष्टरुदयस्थानानि पञ्च। तद्यथा एकविंशतिः षडविंशतिरष्टाविंशतिरेकोनत्रिंशत् त्रिंशत् / आहारकसंयतानां वैक्रियसंयतानांच इमानि पञ्चउदयस्थानानि तद्यथा पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोन त्रिंशत् त्रिंशत् / असंयतानां संयतासंयतानां च वैक्रियं कुर्वतां मनुष्याणां त्रिंशद्वर्जीनिचत्वार्युदयस्थानानि / त्रिंशत्करस्मान्न भवति इति चेत् उच्यते संयतान्मुक्त्वा अन्येषां मनुष्याणां वैक्रियमपि कुर्वतामुद्योतोदयाभावत्। सामान्येनैकोनत्रिंशद्वन्धे सप्त सत्तास्थानान्यमूनि तद्यथा त्रिनवतिः द्विनवतिरेकोननवतिः अष्टाशीतिः षडशीतिरशीतिरष्टसप्ततिश्च तत्र विकलेन्द्रियतिर्यक्पञ्चेन्द्रियप्रायोग्यामेकोनत्रिंशतं बघ्नतां पर्याप्तापर्याप्तकेन्द्रियविकलेन्द्रियतिर्यक्पञ्चेन्द्रियाणामेकविंशत्युदये च वर्तमानानां पञ्च सत्तास्थानानि तद्यथा द्विनवतिः अष्टाशीतिःषडशीतिरशीतिरष्ट सप्ततिश्च / एवं चतुर्विशति पञ्चविंशतिषड्विंशत्युदयेष्वपि वक्तव्यम्। सप्तविंशत्यष्टाविंशत्येकोनत्रिंशस्त्रिंशदेकत्रिंशदुदयेष्यष्ट सप्ततिवानि चत्वारि चत्वारि सत्तास्थानानि भावनीयानि।यथा त्रयोविंशतिबन्धकानां प्रागुता। तथा अत्रापि वक्तव्या मनुजगतिप्रायोग्यामेकोनत्रिंशतंबध्नतामेके न्द्रियविकलेन्द्रियतिर्यक्पञ्चेन्द्रियाणां तिर्यग्गतिमनुष्यागतिप्रायोग्यं पुनर्बध्नतां मनुष्याणां च स्वोदयस्थानेषु यथायोगं वर्तमानानामष्टसप्ततिवर्जानि तान्येव चत्वारि सत्तास्थानानि वेदितव्यानि देवनैरयिकाणां तिर्यक्पञ्चेन्द्रियमनुष्यगतिप्रायोग्यामेकोनत्रिंशतं बध्नतां स्वस्वोदयेषु वर्तमानानां द्वे द्वे सत्तास्थाने तद्यथाद्विनवतिरष्टाशीतिश्च / केवलं नैरयिकस्य मिथ्यादृष्टस्तीर्थकरसत्कर्मणो मनुष्यगतिप्रायोग्यामेकोनत्रिंशतं बध्नतः स्वोयेयषु पञ्चसु यथायोगं वर्तमानस्यैकोननवतिरेवैका वक्तव्या यतस्तीर्शकरनामसहितस्याहारक चतुष्टयरहितस्यैव मिथ्यात्वगमनासंभवः उभसंति उ न मिच्छोच इति वचनात् ततस्त्रिनवतेराहारक चतुष्के ऽपनीते सत्येकोननवतिरेव तस्य सत्तायां भवति देवगतिप्रायोग्यामेकोनत्रिंशतं तीर्थकरनामसहितां बध्नतः पुनरविरतस्य सम्यग्दृष्टे मनुष्यस्यैकविंशत्युदये वर्तमानस्य द्वे सत्तास्थाने तद्यथा त्रिनवतिरेकोननवतिश्च / एवं पञ्चविंशतिषडविंशति सप्तविंशत्यष्टाविंशत्येकोनत्रिंशत्रिंशदुदयेष्वपि ते एव द्वे द्वे स्थाने सत्तास्थाने वक्तव्ये। आहारकसंयताना पुनः स्वस्वोदये वर्तमानानामेकमेव त्रिनवतिरूपं सत्तास्थानमवगन्तव्यं तदेवं सामान्येनैकविंशत्युदये सप्त सत्तास्थानानिचतुर्विशत्युदये पञ्च, पञ्चविंशत्युदये सप्त, षडविंशत्युदयेसप्त, सप्तविंशत्येदये षट् अष्टाविंशत्युदये षड् एकोनत्रिंशत्येदये षट्, त्रिंशदुदयेषड्, एकत्रिंशदुदये चत्वारि, सर्वसंख्यया | चतुःपञ्चाशत् सत्तास्थानानि / तथातिर्यग्गतिप्रायोग्यामेकोनत्रिंशतं बध्नतामे के न्द्रियविकलेन्द्रियतिर्यक्पञ्चेन्द्रियमनुजदेवनै रयिकाणामुदयस्थानानि भावितानि तथात्रिंशतमप्युद्योतसहिता तिर्यग्गतिप्रायोग्यां बध्नतामे के न्द्रियादीनामुदयसत्तास्थानानि भावनीयानि / मनुष्यगतिप्रायोग्यां तीर्थकरनामसहितां त्रिंशतं बध्नतां देवनैरयिकाणामुदयसत्ता स्थानान्युच्यन्ते तत्र देवस्य यथोक्ता त्रिंशतं बध्नत एकविंशत्युदये वर्तमानस्यद्वे सत्तास्थाने त्रिनवतिरेकोननवतिश्च / एकविंशत्युदये वर्तमानस्य नैरयिकस्यैकं सत्तास्थानमेकोननवतिस्विनवतिरूपं तस्य सत्तास्थानं न भवति तीर्थकराहारकसत्कर्मणो नरकेषूत्पादाभावात् / उक्तं च चूर्णो "जस्स तित्थगराहारगााणि जुगवं संति सो नरेइएसुन उववज्जई" इति एवं पञ्चविंशतिसप्तविंशत्यष्टाविंशत्येकोनत्रिंशदुदयेष्वपि भावनीयं नवरं नैरयिकस्य त्रिंशदुदयो न विद्यते त्रिंशदुदयो हि उद्योते सति प्राप्यते न च नैरयिकस्योद्योतोदयो भवति तदेवंसामान्येन त्रिंशद्वन्धकानामेकविंशत्युदये सप्त चतुर्विशत्युदये पश्च पशविंशत्युदये सप्त षडविंशत्युदये पश्च सप्तविंशत्युदये षट्अष्टाविंशत्युदये षट् एकोनत्रिंशत्युदये षट् अष्टा त्रिंशदुदये षट् एक त्रिंशदुदये चत्वारि सर्वसंख्यया द्विपञ्चाशत् (एगेगमेगतीसत्ति) एकत्रिंशति बध्यमानायामेकमुदयस्थानं त्रिंशत् यतः एकत्रिंशत् देवगतिप्रायोग्या तीर्थकराहारकद्रिकसहितां बध्नतोऽप्रमत्तसंयतस्यापूर्वकरणस्य वा प्राप्यतेन च ते वैक्रियमाहारकं वा कुर्वन्तिततः पञ्चविंशत्यादय उदयान प्राप्यन्ते इति एकं संत्तास्थानम् त्रिनवतिः तीर्थकराहारकचतुष्टये एय सत्तासंभवात् (एगे एगुदय अट्ठसंतम्मि) एकस्मिन् यशःकीर्तिरूपे कर्मणि बध्यमाने एकमुदयस्थानं त्रिंशत् एका हि यशःकीर्ति बध्नाति अपूर्वकरणादयस्ते चातिविशुद्धत्वाद्वैक्रियमाहारकं वा नारभन्ते ततः पञ्चविंशत्यादीन्युदयस्थानानीहापि न प्राप्यन्ते अष्टौ सत्तास्थानानि तद्यथा त्रिनवतिर्दिनवतिरेकोननवतिः अष्टाशीतिः अशीतिः एकोनाशीतिः षट्सप्ततिः पासप्ततिश्च / तत्र यानि चत्वारि सत्तास्थानानि उपशमश्रेण्यमाथवा क्षपकश्रेण्यां यावदनिवृत्तिबादर गुणस्थाने गत्वा त्रयोदश नामानि न क्षीयन्ते त्रयोदशसु च नामसु क्षीणेषु नानाजीवापेक्षयोपरितनानि चत्वारि लभ्यन्ते तानि च तावल्लभ्यन्ते यावत् सूक्ष्मसंपरायगुणस्थानम्। (उवरयबंधे दस दस वेयगसंतम्मि ठाणाणि) उपरते बन्धे बन्धाभाव इत्यर्थः (वेयगत्ति) वेदनं वेदः वेद एव वेदकः वेदेउदये इत्यर्थः सत्तायां च प्रत्येकं दश दश सत्तास्थानानि तथाऽमूनि दश उदयस्थानानि तद्यथा विंशतिरेकविंशतिः षडविंशतिः सप्तविंशतिः अष्टाविंशतिरेकोनत्रिंशत् त्रिंशत् एकत्रिंशत् नव अष्टौ च। तत्र विंशत्येकविंशती यथासंख्यम तीर्थकर योः सयोगिके वलिनोः कार्मणकाययोगे वर्तमानयोः / षडविंशतिसप्तविंशती तयोरेवौदारिकमिश्रकाययोगे वर्तमानयोरेव तीर्थकरस्य स्वभावस्थस्य त्रिंशत्तस्यैव स्वरे निरुद्दे एकोनत्रिंशत्तस्यैवोच्छ्वासेऽपि निरुद्धेऽष्टाविंशतिस्तीर्थकरस्य स्वभावस्थस्य एकत्रिंशत् तस्यैवस्वरे निरुद्ध सति त्रिंशत् उच्छवासेऽपि निरुद्ध एकोनत्रिंशत् एवं च द्विधा त्रिंशदेकोनत्रिंशतौ प्राप्यते / अयोगिनस्तीर्थकरस्य चरमसमये वर्तमानस्य नवोदयाः अतीर्थकरस्यायोगिनश्चरमसमये अष्टोदयाः दश सत्तास्थानानि तद्यथा विनवतिर्द्विनवतिरेकोननवतिरष्टाशीतिरशीतिरेकोनाशीतिः षट्सप्ततिः पञ्चसमातिः नव अष्टौ च तत्र विंशत्युदये द्वे सत्तास्थाने एकोनाशीतिः पश