________________ कम्म 306 - अभिधानराजेन्द्रः - भाग 3 कम्म दश विकलेन्द्रियानधिकृत्य नव प्राकृततिर्यक्पश्चेन्द्रियानधिकृत्य द्वेशते एकोननवत्यधिके प्राकृतमनुष्यानधिकृत्य द्वेशते एकोननवत्यधिके इति षट्शतानि। सप्तविशतौ त्रयस्त्रिंशत् तत्रैकेन्द्रियानाश्रित्य षट्वैक्रियतिर्यक् पञ्चेन्द्रियानधिकृत्याष्टौ वैक्रिय मनुष्यानधिकृत्याष्टौ आहारकसंयताद्यधिकृत्यैकः केवलिनमधिकृत्यैकः देवनधिकृत्याष्टौ नैरयिकानधिकृत्यैक इति त्रयस्त्रिंशत् / अष्टाविंशतो ह्यधिकानि द्वादश शतानि तत्र विकलेन्द्रियानधिकृत्य षट्प्राकृततिर्यक् पञ्चेन्द्रियानधिकृत्य पञ्च शतानि षट् सप्तत्याधिकानि वैक्रियतिर्यक् पञ्चेन्द्रियानधिकृत्य षोडश | मनुष्याधिकृत्य पञ्च शतानि षट् सप्तत्याधिकानि वैक्रियमनुष्यानुष्या- | नधिकृत्य नव आहारकसंयतानधिकृत्य द्वौ देवानधिकृत्य षोडश नारकानननधिकृत्यैक इति / एकोनत्रिंशति पञ्चाशीत्याधिकानि सप्तदशशतानि षट्सप्तत्यधिकानि वैक्रियमनुष्यानधिकृत्य नव आहारकसंयतानधिकृत्य द्वौ तीर्थकरमधिकृत्यैकः देवनधिकृत्य षोडश नारकानधिकृत्यैक इति त्रिंशति एकोनत्रिंशच्छतानि सप्तदशाधिकानि तत्र विकलेन्द्रियानधिकृत्याष्टादश तिर्यक्पञ्चेन्द्रियानाधिकृत्य सप्तदशश तान्यष्टाविंशत्यधिकानि वैक्रियतिर्यक्पञ्चन्द्रियानधिकृत्याष्टी मनुष्याननधिकृत्य द्विपञ्चाशदधिकान्येकादश शतानि वैक्रियमनुष्यसानधिकृत्यैकः आहारकसंयतानधिकृत्यैकः केवलिनमधिकृत्यैकः देवानधिकृत्याष्टौ। एकत्रिंशत्येकादशशतानिपञ्चषष्ट्यधिकानि तत्र विकलेन्द्रियानधिकृत्य द्वादश तिर्यक्पञ्चेन्द्रियानधिकृत्य द्विपञ्चाशदधिकान्येकादश शतानि तीर्थकामधिकृत्यैकः एकोनवोदये एकोऽष्टोदये सर्योदयस्थानेषु सर्वसंख्यया सप्तसप्ततिशतान्येकनवत्यधिकानि इति तदेवमुक्तानि सप्रभेदमुदयस्थानानि द्वितीयगाथाया अर्थः कस्मिंश्चिदंशे भाषाटीकायामन्यथा प्रतिभातीति तच्छाययेदं व्याख्यायते एकोनत्रिंशच्छतके सप्ततिं चैकादशशतके पञ्चषष्ट्यधिकां कुर्यात् तदा त्रिंशदुदये एकोनत्रिंशच्छतानि सप्तदशाधिकानि भवन्ति / तानीत्थम् विकलेन्द्रियाणामष्टादश तिर्यक्पञ्चेन्द्रिणणामष्टाविंशत्यधिकानि सप्तदश शतानि मनुष्याणामेकमाहारकाणामेकं केवलिन एकं देवानामष्टौ एवं पूर्वोक्ता संख्या / तथैकत्रिंशदुदयं विकलेन्द्रियाणां द्वादश पञ्चेन्द्रिय तिरश्चा द्विपशाशदधिकान्येकादश शतानि केवलिन एकमित्थं पञ्चषष्ट्यधिकान्येकादश शतानि एकैको भङ्गोऽष्टनवोदये केवलिनो भवति अतो नवोदयेऽष्टादये चैको भङ्गः / विंशत्युदयस्थानादारभ्याष्टोदयपर्यन्तं द्वादशोदयस्थानानि। एवं सर्व्वसंख्ययाएकनवत्यधिकानि सप्तशतयुतानि सप्तसहस्राणि भवन्ति। सम्प्रति सत्तास्थानप्ररूपणार्थमाहतिदुनउईगुणनउइ, अडसीछलसीअसीइगुणसीइ। अट्ठय छप्पन्नत्तरि, नव अट्ठ य नामसंताणि // 31 // नाम्नो नामकर्मणो द्वादश सत्तास्थानानि तद्यथा त्रिनवतिर्द्विनवतिरेकोननवतिरष्टाशीतिः षडशीतिः अशीतिरेकोनाशीतिरष्टसप्ततिःषट् सप्ततिः पञ्चसप्ततिः नव अष्टाविति / तत्र सर्वप्रकृतिसमुदायस्त्रिनवतिनिवतिरेकोननवतिरष्ट सैव तीर्थकररहिता द्विनवतिस्विनवतिरेवाहारक शरीराहारकाङ्गोपाङ्गाहारकसंघाताहारकबन्धनरूपचतुष्टयेन रहिता एकोननवतिः। सैवतीर्थकररहिता अषशीतिः ततो नरकगतिनरकानुपूर्दोरथवादेवगतिदेवानुपूयॊरुद्वलितयोः षडशीतिः अथवा अशीतिः / तत्कर्मणो नरकगतिप्रायोग्य बनतो नरकगतिनरकानुपूर्वीवैक्रियशरीरवैक्रियाङ्गोपाङ्गवैक्रियसंघातवैक्रियबन्धनबन्धे षडशीतिः अथवा अशीतिः / तत्कर्मणो देवगतिप्रायो बधातो देवगतिदेवानुपूर्वीवैक्रियचतुष्टयबन्धे षडशीतिस्ततो नरकगतिनरकानु पूर्वी वैक्रियचतुष्टयोदलने अथवा देवगतिदेवानुपूर्वीवैक्रियचतुष्टयोदलने कृते अशीतिः / ततो मनुजगतिमनुजानुपूर्योरुदलितयोरष्टसप्ततिः / एतान्यक्षपकाणां सत्तास्थानानि / क्षपकाणां पुनरमूनि त्रिनवतेनरक गतिर्नरकानुपूर्वी तिर्यग्गतिस्तिर्यगानुयॆकेन्द्रियजातिीन्द्रियजातिस्त्रीन्द्रियजातिश्चतुरिन्द्रियजातिः स्थावरातपोद्योतसूक्ष्मसाधा-रणरूपे त्रयोदशके क्षीणे अशीतिर्भवति। द्विनवतेःक्षीणे एकोनाशीतिः एकोननवतेः क्षीणेष्सप्ततिः अष्टाशीतेःक्षीणे पञ्चसप्ततिर्मनुष्यगतिः पञ्चेन्द्रियजाजिस्त्रसनामबादरपर्याप्तसुभगादेययशःकीर्त्तितीर्थकरा-णीति नवकं सत्तास्थानं तचायोगिकेवलिनस्तीर्थकरस्य चरमसमये वर्तमानस्य प्राप्यते तदेय तीर्थकरके वलिनश्चरमसमये तीर्थकरनामरहितमष्टकमिति / तदेवमुक्तानि सत्तास्थानानि। सम्प्रति संवेधप्रतिपादनार्थमुपक्रमतेअट्ठयबारसवारस, बंधोदयसंतपयामिठाणाणि। ओहेणाएसेण य, जत्थ जहासंभवं विभजे // 32 // नाम्नोबन्धोदयसत्ताप्रकृतिस्थानानि यथाक्रममष्टौ द्वादश द्वादशसंख्याकानि तानि ओघेन सामान्येन आदेशेन च विशेषेण च यथासंभवं यानि यत्र यथा संभवन्ति तानि तत्र तथा विभजेत् विकल्पयेत् / उत्तरग्रन्थानुसारेण अत्र अमुकं बन्धस्थानं बध्नत एतावन्ति उदयस्थानानि एतावन्ति च सत्तास्थानानीति सामान्यं मिथ्यादृष्ट्यादिषु गुणस्थानेषु गत्यादिषु च मार्गणास्थानेषु प्रत्येक एतावन्ति उदयस्थानानि एतावन्ति च सत्तास्थानानि एवं तेषां परस्परं संवेधः इत्यादेशः / अत्र प्रथमतः सामान्येन संवेधचिन्तां कुर्वन्नाह / नवपंचोदयसंता, तेवीसे पण्णवीसछव्वीसे। अट्ठ चउरट्ठवीसे, नवसत्तिगुणतीसतीसम्मि॥३३|| एगेगमेगतीसे, एगे एगुदयअट्ठसंतम्मि। उवरयबंधो दस दस, वेयगसंतम्मि ठाणाणि ||34|| त्रयोविंशतिबन्धे पञ्चविंशतिबन्धे षडविंशतिबन्धे च प्रत्येकं नव नव उदयस्थानानि / पञ्च पञ्च सत्तास्थानानि तत्र त्रयोविंशतिबन्धोऽपर्याप्तकै केन्द्रियप्रायोग्ये एव तद्वन्धकाश्च एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियतिर्यक्पञ्चेन्द्रिया मनुष्याश्च / एतेषां च त्रयोविंशति बन्धकानां यथायोगं सामान्येन नवोदयस्थानानि तद्यथा एकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः षडविंशतिः सप्तविंशतिरष्टा विंशतिरेकोनत्रिंशत् त्रिंशत् एकत्रिंशत्। तथा त्रयोविंशतिबन्धकानामेकविंशत्युदयोऽपान्तरालगतौ वर्तमानानामेकेन्द्रियद्वीन्द्रियत्रीन्द्रिय चतुरिन्द्रियतिर्यक्पञ्चेन्द्रियमनुष्याणामवसेयः / तेषामपर्याप्तकेन्द्रियाणां वैक्रियतिर्यग्मनुष्याणां च मिथ्यादृष्टीनां षडविंशत्युदयाः / पर्याप्त के न्द्रियाणां पर्याप्तापर्याप्तद्वित्रिचतुरिन्द्रियतिर्यक्पञ्चेन्द्रियमनुष्याणां च मिथ्यादृष्टीनां सप्तविंशत्युदयाः पर्याप्तद्वित्रिचतुरिन्द्रियतिर्यक्पञ्चेन्द्रियमनु-ष्याणां मिथ्यादृष्टीनामेक त्रिंशदुदया विकलेन्द्रियतिर्यक्पञ्चेन्द्रियाणा मिथ्यादृष्टीनामुक्तशेषाः त्रयोविंशतिबन्धकानभवन्ति। तेषां चत्रयोविंशति