SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ कम्म 305 - अभिधानराजेन्द्रः - भाग 3 यजातिरौदारिकाङ्गोपाङ्ग तैजसकार्मणे षण्णां संस्थानानामेकतमत् संस्थानंषण्णां संहनानामेकतमत्संहननंवर्णादिचतुष्टयमगुरुलघूउपघात पराघातमुच्छ्वासनाम प्रशस्ताप्रशस्तविहायोगत्योरेकतरं वसनाम गादरनाम पर्याप्तकनाम प्रत्येकं स्थिरास्थिरयोरेकतरं शुभाशुभयोरेकतरं सुभगदुर्भगयोरेकतरं दुःस्वरसुस्वरयोरेकतरम् आदेयानादेययोरेकतरं यशःकीर्त्ययशःकीोरेकतरं निर्माणमिति। एतासामेकोनत्रिंशत्प्रकृतीनां समुदाय एकं बन्धस्थानम्। एतच मिथ्यादृष्ट पर्याप्ततिर्यक्पञ्चेन्द्रियप्रायोग्य बध्नतो वेदितव्यम् यदि पुनः सासादनो बन्धको भवति तर्हि तस्य पञ्चानां संस्थानानामन्यतमत्संस्थानं पञ्चानां संहननानामन्यत मत्संहननमिति वक्तव्यम् / अस्यां चैकोनविंशतिसामान्येन षडभिः संस्थानैः षभिः संहननैः प्रशास्ताप्रशस्तविहायोगतिभ्यां स्थिरास्थिरभ्यां शुभाशुभाभ्यां सुभगदुर्भगाभ्यां सुस्वरदुःस्वराभ्यामादेयानादेयाभ्यां यशःकीर्त्ययशःकीर्तिभ्यांभङ्गा अष्टाधिकषट् चत्वारिंशच्छतसंख्याका वेदितव्याःएषैव एकोनत्रिंशत् उद्योतसहिता त्रिंशद्भवति अत्रापि मिथ्यादृष्टिसासादनानधिकृत्य तथैव विशेषोऽवगन्तव्यः सामान्येन च भङ्गाः अष्टाधिकषट् चत्वाररिंशच्छतसेख्याकाः। उक्तं च “गुणतीसेतीसेवा, भंगा अवाहिया छयालसया। पंचिंदियतिरियोगेवणवीसे बंधभंगेक्को" सर्वसंख्ययाद्वानवतिशतानि सप्तदशाधिकानि / तथा मनुष्यगतिप्रायोग्यं बध्नतस्वीणि बन्धस्थानानि तद्यथा पञ्चविंशतिरेकोनत्रिंशत् त्रिंशत्। तत्र पञ्चविंशतिर्यथा प्रागपर्याप्तकदीन्द्रियप्रायोग्यं बध्नतोऽभिहिता तशवावगन्तव्या नवरमत्र मनुष्यगतिमनुष्यानु पूर्वी इति वक्तव्यम / एकोनत्रिंशत् त्रिधा एका मिथ्यादृष्टीन् बन्धकानाश्रित्य वेदितव्या द्वितीयासासादनान् तृतीया सम्यग्मिथ्यादृष्टीन् अविरतसम्यग्दृष्टीन् वा / तत्राद्ये द्वे प्रागिव भावनीये। तृतीया पुनरियं मनुष्यगतिर्मनुष्यानुपूर्वी पञ्चेन्द्रियजातिरौदारिकमौरिकाङ्गापाङ्गं तैजसकार्मणे समचतुरस्र संस्थानं वज्रर्षभनाराचसंहननं वर्णादिचतुष्टयमगुरुलघूघातपराघात मुच्छ्वासनाम प्रशस्तविहायोगतिवसनाम बादरनरम पर्याप्तकनाम प्रत्येकं स्थिरास्थिरयोरेकतरं शुभाशुभयोरेकतरं शुभगं सुस्वरमादेयं सशःकीर्त्ययशःकीयोरेकतरं निर्माणमिति / अस्यां चैकोनात्रिंशति प्रकारायामपि सामान्येन षडभिः संस्थानः षडभिः संहननैः प्रशस्ताप्रशस्तविहायोगतिभ्यां स्थिरास्थिराभ्यांसुभगदुर्भगाभ्यां सुस्वरदुःस्वराभ्यामादेयानादेयाभ्यायशःकीर्त्ययशः कीर्तिभ्यामष्टाधिकषट् चत्वारिंशच्छतसंख्या भङ्गावेदितव्याः / यैव तृतीया एकोनत्रिंशदुक्ता सैव तीर्थकरसहिता त्रिंशत् / अत्र च स्थिरास्थिरशुभाशुभयशःकीर्त्ययशःकीर्तिपदैरष्टौ भङ्गाः सर्वसंख्ययया मनुष्सगतिप्रायोग्यबन्धस्थानेषु भङ्गाः षट् चत्वारिंशच्छतानि सप्तदशाधिकानि। उक्तच पणुवीसयम्मि एक्को, छायालसया उ अट्ठोत्तरं / गुत्तीसेद्धउ सव्वे, छायालसया उ सत्तरस तथा देवगतिप्रायोग्य बध्नतश्चत्वारि बन्धस्थानानि तद्यथा अष्टाविंशतिः एकोनात्रिंशत् त्रिंशत् एकत्रिंशत्। तथा अष्टाविंशतिरियं देवगतिर्देवानुपूर्वी पञ्चेन्द्रियजातिबैंक्रिय वैक्रियाङ्गोपाङ्ग तैजसकार्मणे सूचतुरस्रसंस्थानं वर्णादिचतुष्टय-- मगुरुलघू पराघातमुपघातमुच्छ्वासनाम प्रशस्त विहायोगतिस्त्रसनाम बादरनामपर्याप्तकनाम प्रत्येकं स्थिरास्थिरयोःशुभाशुभयोरेकतरं सुभगं सुस्वरमादेयं यशःकीर्त्ययशःकीयोरेकतरं निर्माणमिति / एतासां समुदायः एकं बन्धस्थानम् / एतच्च मिथ्यादृष्टिसासादनमिश्रावि रतसम्यग्दृष्टिदेशविरतानां सर्वविरतानां देवगतिप्रायोग्यं बध्नतामवसेयम्। अत्र स्थिरास्थिरशुभाशुभयशःकीर्त्ययशःकीर्तिपदैरष्टौ भङ्गाः एषैवाष्टाविंशतिस्तीर्थकरसहिताएकोनत्रिंशद्भवति अत्रापितएवाष्टौ भङ्गाःनवरमेनां देवगतिप्रायोग्या बध्नतोऽविरतसम्यग्दृष्ट्यादयो बध्नन्ति / त्रिंशत् पुनरियं देवगतिदद्रवानुपूर्वी पञ्चेन्द्रियजातिक्रियङ्गोपाङ्गमाहारकमाहारकाङ्गोपाङ्गं तैजसकार्मणे समचतुरस्रसंस्घ्थानंवर्णादिचतुष्टयमगुरुलघू पराघातमुपघातमुच्छवासनाम प्रशस्तविहायोगतिस्त्रसनाम बादरनाम पर्याप्तकनामापर्याप्तकनाम प्रत्येकं स्थिर शुभनाम शभगनाम सुस्वरनाम अनादेयनाम यशःकीर्तिनाम निर्माणनामेति / एतासां त्रिंशत्प्रकृतीनां समुदाय एकं बन्धस्थानम् / एतच देवगतिप्रायोग्यं बध्नतोऽप्रमत्तसंयतस्यापूर्वकरणस्य वा वेदितव्यम् / अत्र सर्वाण्यपि शुभन्येव कर्माणि बन्धमायान्तीति कृत्वा एक एव भङ्ग / एषैव त्रिंशत्तीर्थकरसहिता एकत्रिंशद्भवति / अत्राप्यकएव च भङ्गः सर्वसंख्यया देवगति प्रायोग्यबना :स्थानेषु भङ्गाः अष्टादशातदुक्तम् अट्टट्ठएक्कामभंगा अट्ठारस देवजायेसु तथा नरकगतिप्रायोग्यं बध्नत एकं बध्नस्थानमष्टाविंशतिः / सा चेयं नरकगतिर्नरकानुपूर्वी पञ्चेन्द्रिया जातिः वैक्रियाङ्गोपाङ्ग तैजसकामणे हुण्डसंस्थानं वर्णादिचतुष्टयम गुरुलधू उपघातं पराघातमुच्छवासनाम अप्रशस्तविहायोगतिः सनाम बादरनाम पर्याप्तकानाम प्रत्येकनाम अस्थिरमशुभं दुर्भगं दुःस्वरमनादेयमयशःकीर्तिर्निर्माणमिति / एतासामष्टाविंशति प्रकृतीनामेकं बन्धस्थान मेतच मिथ्यादृष्टरवसेयम्। अत्र त्रीण्यप्यशुभान्येव कर्माणीत्येक एव भङ्ग : एकं तु बन्धस्थानं यशःकीर्तिलक्षणं तब देवगतिप्रायोग्यबन्धे व्यवच्छिन्ने अपूर्वकरणादीनां त्रयाणामवगन्तव्यम्। संप्रति कस्मिन् बन्धस्थाने कति भङ्गाः सर्वसंख्यया प्राप्यन्ते इति चिन्तायां तन्निरूपाणार्थमाहचउपण वीसा सोलस, नव वाणउइयसयाई अडयाला। एयालुत्तरछया लसया एकिकबंधविही॥२७॥ विंशत्यादिषु बन्धस्थानेषु यथासंख्यं चतुरादिसंख्या बन्धविधयो बन्धप्रकारा बन्धभङ्गा वेदितव्याः / तत्र ये विंशतिबन्धस्थानेषु भङ्गाश्चत्वारस्ते चैकन्द्रियप्रायोग्यमेव बध्नतोऽवसेयाः अन्यत्र त्रयोविंशतिबन्धस्थानस्याप्राप्यमाणत्वात् / पञ्चविंशतिबन्धस्थाने पञ्चविंशतिर्भङ्गाः अत्रैकेन्द्रियप्रायोग्यां पञ्चविंशतिं बध्नतो विंशतिः! अप्तिकद्विचितुरिन्द्रियर्तियक्पञ्चेन्द्रियमनुष्यप्रायोग्यं बध्नतामेकैक इति सर्वसंख्यया विंशतिः / षड्विंशतिबन्धस्थानेषु यथासंख्यं चतुरादिसंख्या बन्धविधयो बन्धप्रकाराबन्धभङ्गा वेदितव्याः। तत्र त्रयोविंशतिबन्ध-स्थाने भङ्गाश्चत्वारः ते चैकेन्द्रियप्रायोग्यमेव बनतोऽवसेयाः। ते भङ्गाः षोडशते चैकेन्द्रियप्रायोग्यमेव बधातोऽवसेयाः अन्यत्र पड्विंशतिबन्धस्थानस्याप्राप्यमाणत्वात् अष्टाविंशतिबन्धस्थाने भङ्गा नव / तत्र देवगतिप्रायोग्यामष्टाविंशतिबध्नतोऽष्टौ नरकगतिप्रायोग्यांतुबध्नत एक इति एकोनत्रिंशद्वन्धस्थाने भङ्गाः अष्टचत्वारिंशदधिकानिद्विनवति-शतानि। तत्र तिर्यक्पञ्चेन्द्रियप्रायोग्यमेकोनत्रिंशतंबध्नतोऽष्टधिकानिषट्चत्वारिशच्छतानि मनुष्यगतिप्रायोग्यामपि बनतोऽष्टाधिकानि षट्चत्वारिंशच्छतानि द्वित्रिचतुरिन्द्रियप्रायोग्यां देवगतिप्रायोग्यां च तीर्थकरसहिता बध्नतां प्रत्येकमप्यष्टाविति विंशतिबन्धस्थाने भुङ्गा एकचत्वारिं
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy