________________ कम्म 304 - अभिधानराजेन्द्रः - भाग 3 समयद्वयोनावलिकाद्वयबद्धं च दालिकं सद् अन्यत् सर्वंक्षीणतंतदपि समयद्वयोनावलिकाद्विकमात्रेण कालेन क्षयमापत्स्यति यावच्च नाद्यापि क्षीयते तावत्तिस्र सत्यः क्षीणे तु तस्मिन् द्वे ते अप्यन्तुर्कुहूर्त कालं यवत्सत्यौ / एकविधबन्धे पुनः पञ्च सत्तास्थानान्यमूनि तद्यथा अष्टाविंशतिश्चतुर्विशतिरेकविंशतिःटे एका च / तत्राद्यानि त्रीणि प्रागियोपशमश्रेण्यां शेषे तु द्रे क्षपक श्रेण्यां ते चैवं संज्वनमायायाः प्रथमस्थितावावलिकाशेषायां बन्धोदयोदीरणा युगपद् व्यवच्छेदमुपयान्ति व्यवच्छिन्नासुतासु बन्धोएकविधो भवति संज्वलनमायायास्तदानीं प्रथमस्थितिगतमावलिकामात्रं समयद्व-योनावलिकाद्विकबद्धं च सदस्ति अन्यत्समस्तं क्षीणं तदपि च तत्समयद्वयोनावलिकाद्विकमात्रेण कालेन क्षयमुपगमिष्यति यावच्च न क्षयमुपयाति तावद् द्वे सती क्षीणे च तस्मिन्नेका प्रकृतिः संज्वलनलोभरूपा सती (चउत्तारि उ बंधवोच्छेए) बन्धाभावे सूक्ष्मसंपरायगुणस्थाने चत्वारि सत्तास्थानानि तद्यथा अष्टाविंशतिश्चतुर्विशतिरेकविंशतिरेका च / तत्राद्यानि त्रीणि प्रागिवोपशमश्रेण्याम् एका तु संज्वलनलाभप्रकृतिः क्षपकश्रेण्यां तदेवं कृता संवेधचिन्ता। संप्रत्युपसंहारमाहदसनवपन्नरसाई, बंधोदयसंतपय डिठाणाइं। भणियाई मोहणिजे, एतो नामं परं वोच्छं / / 2 / / बन्धोदयसत्प्रकृतिस्थानानि यथासंख्यं दश नव पञ्चदश संख्यानि प्रत्येकं संवेधद्वारेण च भणितानि इतः परमत ऊर्द्ध नाम वक्ष्ये नाम्नो बन्धस्थानानि वक्ष्ये। तत्र प्रथमतो बन्धस्थानरूपणार्थमाह। तेवीसपन्नवीसा,छव्वीस अट्ठवीस गुणतीसा। तीसेगतीसमेकं बंधट्ठाणाणि नामस्स॥२६॥ नाम्नोऽष्टबन्धस्थानानि तद्यथा ज्योविंशतिःपञ्चविंशतिः षड्विंशति रष्टाविंशतिरेकोनत्रिंशत् त्रिंशत् एकत्रिंशत् एका च / अमूनिर्तियग्मनुष्यादिगतिप्रायोग्यतया अनेकप्रकाराणि ततस्तथैवोपदर्श्यन्ते / तत्र तिर्यग्गतिप्रायोग्यं बध्नतः सामान्येन पञ्च बन्धस्थानानि तद्यथा त्रयोविंशतिः पंञ्चविंशतिः षड्विंशतिरियं तिर्यगानुपूर्वी एकेन्द्रियजातिरौदारिकतैजसकार्मणानि हुण्डसंस्थानं वर्णगन्धरसस्पर्शाः अगुरुलघु उपघाततनाम् स्थावरनाम् सूक्ष्मबादरयोरे कतरमपर्याप्तकनाम् प्रत्येकसाधारणयोरेकतरमस्थिरनाम् अशुभनाम् दुर्भगनाम् अनादेयनाम् अयशःकीर्तिनम् निर्माणनाम् एतासांत्रयोविंशतिप्रकृतीनां समुदाय एकं बन्धस्थानम् / एतचापर्याप्तप्रायोग्यं बनतो मिथ्यादृष्टरवसेयम् / अत्र भङ्गाश्चत्वारः तथाहि गादरनाम्नि बध्यमाने एका त्रयोविंशतिः प्रत्येक नाम्ना सहावाप्यते द्वितीया साधारणनाम्ना एवं सूक्ष्मनाम्न्यपिबध्यमाने द्वे त्रयोविंशती सर्वसंख्यया चतस्रः / एषैव त्रयोविंशतिः परतोच्छवाससहिता पञ्चविंशतिः प्रत्येकनाम्नासह प्राप्यते द्विजीया साधारणनाम्ना नवरमेवमभिलपनीयम् तिर्यगानुपूर्वी एकेन्द्रियजातिः औदारिकतैजसकार्मणानि हुण्डसंस्थानं वर्णादिचतुष्टयमगुरुलघू उपघातनाम पराघातनाम उच्छ्वासनाम स्थावरनाम बादरसूक्ष्मयोरेकतरं पर्याप्तकं प्रत्येक साधारणयोरेकतरं शुभाशुभयोरेकतरं यशः कीर्यो रेकतरमयशःकीयो रेकतरं दुर्भगनामानादेयनिर्माणमिति / एतासां पञ्चविंशतिप्रकृतीनां समुदायः बन्धस्थानं तच्च पर्याप्तकैकेन्द्रियप्रायोग्य बनतो मिथ्यादृष्टे रवगन्तव्यम् / अत्र भङ्गा विंशतिः / तत्र बादरपर्याप्त प्रत्येकेषु बध्यमानेषु स्थिरास्थिरशुभाशुभयशःकीर्त्ययशःकीर्तिभिरष्टौ भङ्गाः तथाहि बादरपर्याप्त प्रत्येकस्थिरशुभेषु बध्यमानेषु यशः कीर्त्या सह एकः द्वितीयोऽयशः कीर्त्या / एतौ च द्वौ भङ्गो शुभपदेन लब्धौ एवमशुभपदेनापि द्वौ भङ्गौलभ्यतेततो आताश्चत्वारः स्थिरपदेन लब्धाः / एवतस्थिर पदेनापि चत्वारो लभ्यन्ते ततो जाता अष्टौ / एवं पर्याप्तबादरेषु साधारणेषुबध्यमानेषु स्थिरास्थिरशुभाशुभयशः कीर्तिपदैश्चत्वारः यतः साधारणेन सह यशः कीर्तिबन्धो न भवति नो सुहमतिगेण जस इति वचनात्ततस्तदाश्रिता विकल्पान प्राप्यन्ते तदेवं सर्वसंख्यया पञ्चविंशतिबन्धे विंशतिभङ्गाः एषैव पञ्चविशतिरात पोद्योतान्यतरसहिता षड्विंशतिर्नवरमेवमभिलपनीया तिर्यगतितिर्यग्गानुपूर्ये केन्द्रियजातिरौदारिकतैजस कार्मणानि हुण्डसंस्थानं वर्णादिचतुष्टयमगुरुलघू पराधातमुच्छ्वासनाम आतपोद्योतयोरेकतरं बादरनाम पर्याप्तकनाम प्रत्येकनाम स्थिरास्थिरयोरेकतर शुभाशुभ योरेकतरं दुर्भगमनादेयं यशःकीर्त्ययशः कीोरेकतरं निर्माणमिति एतासां षड्विंशतिप्रकृतीनां समुदाय एकं बन्धस्थानम एतच्च पर्याप्त कैकेन्द्रियप्रायोग्यमातपोद्योतान्यतरसहितं बनतो मिथ्यादृष्टेरव गन्तव्यम् / अत्र भङ्गाः षोडश ते चातपोद्योतस्थिरास्थिरशुभाशुभ यशःकीर्तिपदैरवसेयाः आतपोद्योताभ्यां च सह सूक्ष्मसाधारणबन्धो न भवति ततस्तदाश्रिता विकल्पान प्राप्यन्ते एकेन्द्रियाणां सर्व संख्यया भङ्गाश्चत्वारिंशत् पदुक्तम् “चत्तारि वीस सोलस, भंगा एगिंदियाण चत्ताला" द्वीन्द्रियप्रायोग्यं बध्नतोबन्धस्थानानि त्रीणि तद्यथा पञ्चविंशतिरेकोनत्रिंशत् त्रिंशत् तत्र तिर्यग्गतिस्तिर्यगानुपूर्वी द्वीन्द्रियजातिरौदारिकतैजसकर्मणानि हुण्डसंस्थान सेवार्तसंहन-- नौदारिकाङ्गोपाङ्गवर्णादिचतुष्टयमगुरुघूपघातनाम त्रसनाम बादरनाम अपर्याप्तकनाम प्रत्येकनाम अस्थिरमशुभदुर्भगमनादेयमयशः कीर्तिनिणिमिति एतासां पञ्चविंशतिप्रकृतीनां समुदाय एकं बन्धस्थानम् तचापर्याप्तकदीन्द्रियप्रायोग्यं बध्नतो मिथ्यादृष्टरवसेयम्। अपर्याप्तकेन सह परावर्त्तमानप्रकृतयोऽशुभा एव बन्धमायान्तीति कृत्वा अत्रैक एव भङ्गः। एषैव पञ्चविंशतिः पराघातोच्छ्वासाप्रशस्तविहायोगतिपर्याप्तकदुःस्वरसहिता अपर्याप्तकरहिता एकोनत्रिंशद्भवति नवरमेवमेव वक्तव्य तिर्यग्गतितिर्यगानुपूर्वीद्रीन्द्रियजातिरौदारिक शरीरमौदारिकाङ्गोपाङ्ग तैजसकार्मणे हुण्डसंस्थानं सेवार्तसंहननं वर्णादिचतुष्टयमगुरुलघू पराघातमुपधातमुच्छ्वासनाम अप्रशस्तविहायोगतिः त्रसनाम बादरनाम पर्याप्तकं प्रत्येकं स्थिरास्थिरयोरेकतरं शुभाशुभयोरेकतरं दुःस्वरं दुर्भगमनादेयं यशःकीर्त्ययशःकीयोरेकतरं निर्माणमिति / एतासामेकोनत्रिंशत्प्रकृतीनां समुदाय एकं बन्धस्थानं तच पर्याप्तद्वीन्द्रियप्रायोग्य बध्नतो मिथ्यादृष्टः प्रत्येतव्यम् / अत्र स्थिरास्थिरशुभाशुभयशःकीर्त्ययशःकीर्तिपदैरष्टौभङ्गाः सैव एकोनत्रिंशत् उद्योतसहिता त्रिंशत् अत्रापि तएवाष्टौभङ्गाः सर्वसंख्ययासप्तदशएवं त्रीन्द्रियप्रायोग्यं चतुरिन्द्रियप्रायोग्य चबध्नतो मिथ्यादृष्टस्त्रीणि त्रीणि बन्धस्थानानि वाच्यानि नवरं त्रीन्द्रियाणां त्रीन्द्रियजातिरभिलपनीया चतुर्जातिस-ङ्गाश्च प्रत्येकं सप्तदश सर्वसंख्यया एकपञ्चाशत् / उक्तं च “एगट्ठअट्ठविगलिंदियाण इगयन्न तिण्हं पि" तिर्यग्गति-पञ्चेन्द्रियप्रायोग्यं बध्नतस्त्रीणि बन्धस्थानानि तद्यथा पञ्चविंशतिः एकोनत्रिंशत् त्रिंशत।तत्र पञ्चविंशतिद्वन्द्रियप्रायोग्य बध्नत इव वेदितव्या नवरं द्वान्द्रियजातिस्थाने पञ्चेन्द्रियजातिर्वक्तव्या तत्र च एको भङ्गः एकोनत्रिंशत् पुनरियं तिर्यगानुपूर्वी पञ्चेन्द्रि