________________ कम्म 303 - अभिधानराजेन्द्रः - भाग 3 कम्म संभवति अविरतसम्यग्दृष्टीनां तु सप्तदयो पञ्च सत्तास्थानानि तद्यथा अष्टाविंशतियचतुविंशतिस्त्रयोविशतिः द्वाविंशतिरेकविंशतिश्च / तत्राष्टाविंशतिरौपशमिक सम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा चतुर्विंशतिरप्युभयेषां नवरमनन्तानुबन्धिविसंयोजनानन्तरं त्रयोविंशतिर्द्वाविंशतिश्च वेदकसम्यग्दृष्टीनामेव तथाहि कश्चिन्मनुष्यो वर्षाष्टकस्योपरि वर्तमानो वेदकसम्यग्दृष्टिः क्षपणायाभ्युद्यतस्तस्यानन्तानुबन्धिषु मिथ्यात्वे च क्षपिते सतित्रयोविंशतिः मिश्रे क्षपिते द्वाविंशतिः / स च द्वाविंशतिसत्कर्मा सम्यक्त्वं क्षपयन् तचरमग्रासे वर्तमानः कश्चित्पूर्वबद्धायुष्कः कालमपि करोति कालंच कृत्वा चतसृणां गतीनामन्यतमस्यांगतावुत्पद्यते। तदुक्तम्। पट्ठवगोउमणुस्सो, निद्धवगो चउसु वि ततो द्वाविंशतिश्चतसृष्वपि गतिषु प्राप्यते / एकविंशतिस्तु क्षायिकसम्यग्दृष्टीनामेव यतः सप्तकक्षये क्षायिकसम्यग्दृष्टयः सप्तके क्षीणे चयेत्तायामेकविंशतिरेवमष्टोदसंऽपि मिश्रदृष्टीनामविरत-सम्यग्दृष्टिभावोक्तरूपाण्यन्यूनातिरिक्तानि सत्तास्थानानि भावनीयानि एवं नवोदयेऽपि ! नवरं नवोदयोऽविरतानां वेदकसम्यग्दृष्टीनामेव संभवतीति कृत्या तत्र चत्वारि सत्तास्थानानि वाच्यानि / तद्यथा अष्टाविंशतिश्चतुर्विंशतिस्त्रयोविंशतिविंशतिश्च / एतानि च प्रागिवावगन्तव्यानि (तेरनवबधगेसु पंचेव ठाणाणित्ति) त्रयोदशबन्धकेषु नवबन्धेषु च प्रत्येक पञ्च पञ्च सत्तास्थानानि तद्यथा अष्टाविंशतिश्चतुर्विंशतिस्त्रयोविशतिविंशतिरेकविंशतिश्च / तत्र त्रयोदशबन्धका देशविरस्तास्ते व द्विधा तिर्यचो मनुष्याश्च / तत्र ये तिर्यञ्चस्तेषां चतुलप्युदयस्थानेषु द्वे एव सत्ताज्ञथाने तद्यथा अष्टाविंशतिश्चतुर्विशतिश्च / तत्राष्टाविंशतिरौपशमिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा / तत्रौपशमिकसम्यग्दृष्टीनां प्रथमसम्यक्त्वात्पादकालस्तथाहि तदानीमन्तःकरणाद्धायां वर्तमानः कश्चित् देशविरतिमपि प्रतिपद्यते कश्चिन्मनुष्यः पुनः सर्वविरतिमपि। तदुक्तं शतकवृहचूर्णा उवसमसम्मट्टिी अंतरकरणे ठिओकाइ देसविरई वेई पमत्तापमत्तभावं पि गच्छइ सासायणो पुण न किमपि लहइत्ति वेदकसम्यग्दृष्टीनां त्वष्टाविंशतिः सुप्रतीता चतुर्विंशतिः पुनरनन्तानुबन्धिषुविसंयोजितेषु वेदसम्यग्दृष्टीनां वेदितव्या / शेषाणि तु सर्वाण्यपित्रयोविंशत्यादीनि सत्तास्थानानि तिरश्चां न संभवन्ति तानि हि क्षायिक सम्यक्त्वमुत्पादयतः प्राप्यन्ते नच तिर्यश्चः क्षायिकसम्यक्त्वमुत्पादयन्ति किंतु मनुष्या एव / अय मनुष्याः क्षायिकसम्यक्त्वमुत्पाद्य यदा तिर्यक्षुत्पद्यन्ते तदा तिरश्चोऽप्येकविंशतिः प्राप्यते एव तत्कथमुच्यते शेषाणि त्रयोविंशत्यादीनि सर्वाण्यपि न संभवन्तीति तदयुक्तं यतः क्षायिकसम्यग्दृष्टिस्तिर्यक्षु न संख्येयवर्षायुष्केषु मध्ये समुत्पद्यते किंत्वसंख्येयवर्षायुष्केषुमध्ये समुत्पद्यते। नच तत्र देशविरतिः तदभावाचन तत्र त्रयोदशबन्धकत्वम् अथ त्रयोदशबन्धे सत्तास्थानानि चिन्त्यमानानिवर्तन्ते तत्र एकविंशतिरपि त्रयोदशबन्धे तिर्यक्षुनप्राप्यते तदुक्तं चूर्णी एगविसा तिरिक्खेसुसंजया संजएसुनसंभवई कहं भण्णइ संखेज्जवासाउएसुतिरिक्खेसु खाइगसम्मट्ठिी उवज्जइ असंखेज्जवासाउएसु उववजेजा तस्स देसविरई नस्थित्ति येच मनुष्या देशविरतास्तेषां पञ्चकोदये त्रीणि सत्तास्थानानि तद्यथा एकविंशतिश्चतुर्विंशतिरष्टाविंशतिश्च / षट्कोदये सप्तोदये च प्रत्येकं पञ्चापि सत्तास्थानानि। अष्टकोदये त्वेकविंशतिवर्जानि शेषाणि चत्वारि तानि चाविरतसम्य- | ग्दृष्ट्युक्तभावनानुसारेण भावनीयानि। एवं बन्धकानामपि प्रमत्ताप्रमत्तानां प्रत्येकं चतुष्कोदये त्रीणि त्रीणि सत्तास्थानानि तद्यथा अष्टाविंशतिश्चतुविंशतिरेकविंशतिश्च / पञ्चकोदये षट्कोदये च प्रत्येकं पञ्च पञ्च सत्तास्थानानि सप्तोदये त्वेकविंशतिवर्जानि शेषाणि चत्वारि सत्तास्थानानिवाच्यानि। (पंचविहवउविहेसुछछक्कत्ति) पञ्चविधे चतुर्विधे च बन्धे प्रत्येकं षट् सत्तास्थानानि। तत्र पञ्चविधे बन्धे अमूनि तद्यथा अष्टाविंशतिश्-चतुर्विंशतिरेकविंशतिस्त्रयोदश द्वादश एकादश च / तत्राष्टाविंशतिश्चतुर्विंशतिश्चौपशमिकसम्यग्दृष्टरुपशमश्रेण्यामेकविंशतिः क्षायिकसम्यग्दृष्टरुपशमश्रेण्या क्षपकश्रेण्या पुनरप्टौ कषाया यावन्न क्षीयन्ते ताव देकविंशतिरष्टसु कषायेषु क्षीणेषु पुनस्त्रयोदश। ततो नपुंसकवेदे क्षीणे द्वादश ततःस्त्रीवेदे क्षीणे एकादश पञ्चादीनि तु सत्तास्थानानि पञ्चविधबन्धे न प्राप्यन्ते यतः पञ्चविधबन्धः पुरुषवेदे बध्यमाने भवति यावच पुरुषवेदस्य बन्धस्तावत्षट् नोकषायाः सन्त एवेति / चतुर्विधबन्धे पुनरमूनि षट् सत्तास्थानानि तद्यथा अष्टाविंशतिश्चतुर्विंशतिरेकविंशतिरेकादशः पञ्च चतस्रः / तत्राष्टविंशतिश्चतुर्विंशत्येकविंशतयः उपशमश्रेण्यामेकादशादयः क्षपकश्रेण्यां प्रप्यन्ते। इह कश्चिन्नपुंसकवेदेन क्षपक श्रेणी प्रतिपन्नः सच स्त्रीवेदनपुंसकवैदौयुगपत्क्षपयतिा स्त्रीवेदनपुंसकवेदक्षयसम-कालमेव पुरुषवेदस्य बन्धो व्यवच्छिद्यते तदनन्तरं च पुरुषवेदस्य बन्धव्यवच्छेदस्ततस्तदनन्तरं पुरुषवेदहास्यादिषट्के युगपत् क्षपयति यावच्च न क्षीयते तावदुभयत्रापि चतुर्विधबन्धवेदोदयरहित-स्यैकोदये वर्तमानस्य एकादशकं सत्तास्थानमवाप्यते। पुरुषवेदहास्यादिषट्कयोस्तु युगपत् क्षीयमाणयोश्चतस्रः प्रकृतयः सन्ति / एवं च न स्त्रीवेदेन नपुंसक वेदेन वा क्षपक श्रेणिं प्रतिपन्नस्य पक्षप्रकृत्यात्मक सत्तास्थानमवाप्यते / यः पंरुषवेदेन क्षपकश्रेणिं प्रतिपद्यते तस्य षट् नोकषायाः क्षयसमकालं पुरुषवेदस्य बन्धव्यवष्दो भवति ततस्तस्य चतुर्विधबन्धकाले एकीदशरूपं सत्तास्थानं न प्राप्यते किंतु पञ्चप्रकृत्यात्मकं पञ्चसमयाद्धाया ऊनावलिकाद्विकं यावत् सत्यो वेदितव्याः ततः पुरुषवेदे क्षीणे चतस्रस्ता अप्यन्तर्मुहूर्तकालं यावत् सत्योऽवगन्तव्याः (सेसेसु) जाण पंचेव पत्तेयं पत्तेयंति)शेषेषु त्रिविधद्विविधैकविधेषु बन्धेषु प्रत्येकं पञ्च पञ्च सत्तास्थानानि।तत्र त्रिविधे बन्धे अमूनि अष्टाविंशतिचतुर्विशतिरेकविंशतिचतस्रः तिस्रः तत्रादिमानि त्रीण्युपशमश्रेणीमधिकृत्य वेदितव्यानि शेषे तु द्वे क्षपकश्रेण्यां ते चैवं संज्वलनक्रोधस्य प्रथमस्थितावावलिकाशेषायां बन्धेदयादारणा युगपद्व्यवच्छेदमायान्ति व्यवच्छिन्नासु च तासु बन्धस्विविधो जातः / ज्वलनक्रोधस्य च तदानीं प्रथमस्थितिगतमावलिकामात्रं समयद्वयोनावलिकाद्विकबद्धं च दलिकं मुक्त्वा अन्यत्सर्व क्षीणं तदपि समयद्वयोनावलिकाद्विमतात्रेण कालेन क्षयमुपयास्यति यावच न याति तावचतस्रः प्रकृतयस्त्रिविधबन्धे सत्यः क्षीणे तु तस्मिन् तिस्रः ताश्चान्तर्मुहूर्त्तकालं यावदवगन्तव्याः द्विविधबन्धे पुनरमूनि पञ्च सत्तास्थानानि तद्यथा अष्टाविंशतिश्चतुर्विशतिरेकविंशतिः तिस्रः द्वे च / तत्राद्यानि त्रीणि प्रागिव शेषे तु क्षपकश्रेण्यां ते चैवं संज्वलनमानस्य बन्धोदयोदीरणा युगपद् व्यवच्छिद्यन्ते तासु व्यवच्छिन्नासु बन्धो द्विविधो भवति संज्वलनमानस्य च तदानीं प्रथमस्थिगतमावलिकामा