________________ कम्म ३०२-अभिधानराजेन्द्रः - भाग 3 कम्म ब्दस्यपरनिपातः तेषां शतैरेकसप्तत्यधिकैकोनसप्ततिसंख्यैर्मोहिताः संसारिणो जीवा विज्ञेयाः / एतावत्संख्याभिः कर्मप्रकृतिभिर्यथायोगं मोहिताः संसारिणो जीवा ज्ञातव्या इत्यर्थः / अत्र कथमेकसप्तत्यधिकैकोनसप्ततिख्ख्यानि पदानां शतानि भवन्तीत्यंच्यते इह दशोदयेदशपदानि दश प्रकृतय उदयमागता इत्यर्थः / एवं नवोदयादिष्वपि नवीदीनि पदानि भावनीयानि / ततो दशोदयो एकोदशभिर्गुण्यते नवोदयाश्च षड् नवभिरष्टोदयाश्चैकादश अष्टभिः सप्तोदया एकादश सप्तभिः षट् उदयाः सप्त षड्भिः पंचकोदयाश्चत्वारः पञ्चभिः चतुरुदय एकश्चतुर्भिः द्विकोदय एको द्वाभ्यां गुणयित्वा चैते सर्वेप्येकत्र मील्यन्ते ततो जाते द्वेशते नवत्यधिके एतेषु च प्रत्येकमेकैका चतुर्विंशतिर्भङ्गकानां प्राप्यते इति भूयश्चचतुर्विशत्या गुण्यन्ते गुणितेषु च सत्सु एकोदयभङ्गपदान्येकादश प्रक्षिप्यन्ते ततो यथोक्तसंख्यान्येव पदानां शतानि भवन्ति / इयं च उदयस्थानसंख्या च ये मतान्तरेण चतुर्विधबन्धसंक्रमणकाले द्विकोदये द्वादशभङ्गा उक्तास्तानधिकृत्य वेदितव्या यदा पुनरेते नाधिक्रियन्ते तदा इयमुदयस्थानपदसंख्या। नवतेसीयसएहि उदयविगप्पेहि मोहिया जीवा। अउणुत्तरिसीयाला, पवबिंदसएहिं विन्नेया॥२२॥ उदयविकल्पैस्त्र्यशीत्यधिकनवशतसंख्यैस्तथा दशोदयादिरूपवृन्दास्तद्रतानां पदानां शतैः सप्तचत्वारिंशदधिकै कोनसप्ततिसंख्यैर्यथायोगसर्वेऽपि संसारिणो जीवा मोहिता मोहमापादिता विज्ञेयाः। तत्रोदयस्थानेषु पूर्वोक्तप्रकारेण परिसंख्यायमानेषु ये मतान्तरेणोताश्चतुर्विधबन्धस्थाने द्विकोदये द्वादश भङ्गास्तेऽपसार्यन्ते ततो नव शतानि अशीत्यधिकानि उदयविकल्पानां भवन्ति पदेषु च परिसंख्यायमानेषु मतान्तरोक्तद्वादशाभङ्गतानि चतुर्विशतिपदान्यपनीयन्ते ततो यथोक्ता पदानां संख्या भवति / इह दशादय उदयास्तद्भङ्गाश्च जघन्यत एकसामयिका उत्कर्षत आन्तमौहूर्तिकाः तथाहि चतुरादिषु दशोदयपर्यन्तष्वश्यमन्यतमो वेदोऽन्यतरत्यंगलं वेद्यते वेदयुगलयोश्च मध्येऽन्यतरदवश्यं मुदिारभ्य परावर्तते। तदुक्तं पञ्चसंग्रहमूलटीकायां वेदेन युगलेन वा अवश्यं मुहूर्तीद रभ्य परावर्तितव्यमिति / तत उत्कर्षतश्चतुष्कोदयादयः सर्वेऽप्यान्तौहूर्तिका द्विकोदयैकोदयाश्च आन्तीहूर्तिकाः सुप्रतीता एव तथा यदा विवक्षिते उदये भङ्गे वा एकं समयं वर्तित्वा द्वितीये समये गुणस्थानान्तरं गच्छति तदा अवश्यं बन्धस्थानभेदात् स्वरूपतो वा भिन्नमुदयान्तरं भङ्गान्तरं वा यातीति सर्वेऽप्युदया भङ्गाश्च जघन्यत एकसामयिकास्तदेवं बन्धस्थानामुदयस्थानः सह परस्परं संवेध उक्तः / सत्तास्थानस्य बन्धस्थानेन सह संवेधः। सम्प्रति सत्तास्थानैः सह तमभिधित्सुराहतिन्नेव य वावीसे, इगवीसे अट्ठवीस सत्तरसे। छच्चेव तेरनवबंधगेसु पंचेव ठाणाइ॥२३ पंचविह चउविहेसु, छछक्कसेसेसुजाण पंचेव। पत्तेयं पत्तेयं, चत्तारि उबंधवे च्छेए॥२४॥ द्वाविशातौ द्वाविशतिबन्धे त्रीणि सत्तास्थानानि तद्यथा अष्टाविंशतिः सप्तविशतिः षडविंशतिश्च। तथाहि द्वाविशतिबन्धो मिथ्यादृष्टश्चत्वा- | र्युदयस्थानानि तद्यथा सप्ताष्टौ नव दश / तत्र सप्तोदय अष्टाविंशतिरेक सत्तास्थानं यतः सप्तोदयोऽनन्तानुबन्ध्युदयाभावे भवति अनन्तानुब- | न्ध्युदयेन पूर्व सत्यग्दृष्टिनः सत्ता अनन्तानुबन्धिनः उद्वलिता ततः कालान्तरेण परिणामवशतो मिथ्यात्वं गतेन भूयोऽपि मिथ्यात्वप्रत्ययेन ते अनन्तानुबन्धिनो बद्धमारभ्यन्ते स एव मिथ्यादृष्टिबन्धावलिकाकालं यावदनन्तानुबन्ध्युदयरहितः प्राप्यते नन्यः स चाष्टाविंशति सत्कर्म वेत्यष्टाविंशतिरेवैकं सप्तोदये सत्ताज्ञथानमष्टोदये त्रीण्यपि सत्तास्थानानि / यतोऽष्टोदयो द्विधा अनन्तानुबन्ध्युदयरहितोऽनन्तानुबन्ध्युदयसहितश्च तत्र योऽनन्तानुबन्ध्युदयरहितोऽष्टोदयस्तत्र प्रागुक्तयुक्त्याऽश-विशतिरेव सत्तास्थानम्। अनन्तानुबन्ध्युदयसहिते तु त्रीण्यपि सत्तोस्थानानि तत्र यावन्नाद्यापि सम्यक्त्वमुद्वलयति तावदष्टाविंशतिसत्कम् उद्वलिते सप्तविंशति मिश्रमोहनीये षड्विंशतिः अनादिमिथ्यादृष्टा षड्वंशतिः। एवं नवोदयेऽप्यनन्तानुबन्ध्युदयरहितेऽष्टाविंशतिरेवअनन्तानुबन्ध्युदयसहितेतुत्रीण्यपि सत्तास्थानानि दशोदयस्त्वन्तानुबन्ध्युदय सहित एव भवति ततन्तत्रापि त्रीणि सत्तास्थानानि भावनीयानि (इगवीसं अट्ठवीसत्ति) एकविंशतौ एकविंशतिबन्धे अष्टाविंशतिरेकं सत्तास्थानम् / एकविंशतिबन्धो हि सासादनसम्यग्दृष्टर्भवति सासादनत्वं च जीवस्यौपशमिकसम्यक्त्वात् प्रच्यवमानस्यो-पजायतेसम्यक्त्वगुणेन च मिथ्यात्वं त्रिधा कृतं तद्यथा सम्यक्त्वं मिश्रं मिथ्यात्वं च / ततो दर्शनत्रिकस्यापि सत्कर्मतया प्राप्यमाणत्वात् एकविंशतिबन्धे त्रिप्वप्युदयस्थानेष्वष्टाविंशतिरेकं सत्तास्थानं भवति। (सत्तरेस छच्चेव) सप्तदशबन्धे षट् सत्तास्थानानि तद्यथा अष्टाविशतिः सप्तविंशतिश्चतुर्विंशतिस्त्रयोविंशतिविंशतिरेकविंशतिश्च / सप्तदशबन्धो हि द्वयानां भवति तद्यथा सम्यग्मिथ्यादृष्टीनामविरतसम्यग्दृष्टीनां च / तत्र सम्यग्मिथ्यादृष्टीनां त्रीण्युदयस्थानानि तद्यथा सप्त अष्टौ नव अविरतसम्यग्दृष्टीनां चत्वारि तद्यथा षट् सप्त अष्टौ नव। तत्र षडुदयोऽविरतानामौपशकसम्यग्दृष्टीनां क्षायिकसम्यग्दृष्टीनांवा प्राप्यते। तत्रौपशमिकसम्यग्दृष्टीनां द्वे सत्तास्थाने तद्यथा अष्टाविंशतिश्चतुर्विशतिश्च / तत्रष्टाविंशतिः प्रथम सम्यक्त्वोत्पादकाले उपशमश्रेण्यां तु प्रतिपद्यते उपशान्तानुबन्धिनामष्टाविंशतिरुदलितानन्तानुबन्धिनां चतुर्विंशतिः क्षायिकसम्यग्दृष्टीनां त्वेकविंशतिरेव / क्षायिकसम्यक्त्वं हि सप्तकक्षये भवति सप्तकक्षये च जन्तुरेकचिंशतिसत्कर्मेति सर्वसंख्यया षडुदये त्रीणि सत्तास्थानानि तद्यथा अष्टाविंशतिः सप्तविंशतिश्चतुर्विंशतिःसप्तादयेःमिश्रदृष्टीनां त्रीणि सत्तास्थानानि तद्यथा अष्टाविंशतिः सप्तविंशतिश्चतुर्विंशतिः तत्र योऽष्टाविंशतिः सत्कर्मासन् सम्यग्मिथ्यात्वं प्रतिपद्यते तस्याष्टाविंशतिः येन पुनर्मिथ्यादृष्टिना सता प्रथमं सम्यक्त्वमुदलितं सम्यग्मिथ्यात्वं च नाद्याप्युदलितुमारभ्यते अत्रान्तरे परिणामशतः मिथ्यात्वादिनिवृत्त्य सम्यग्मिथ्यात्वं प्रतिपद्यते तस्य सप्तविंशतिः / यः पुनः सम्यग्दृष्टिः सन्ननन्तानुबन्धिनो। विसंयोज्य पश्चात्परिणामशतः सम्यग्मिथ्यात्वं प्रतिपद्यते तस्य चतुर्विशतिः / सा चतसृष्वपि गतिषु प्राप्यते / यतश्चतुर्गतिका अपि सम्यग्दृष्टयोऽनन्तानुबन्धिनो विसंयोजयन्ति तदुक्तं कर्म प्रकृत्याम् “चउगइया पज्जत्ता, तिन्नि विसंजोयणा विसंजोयंति।करणेहिं तिर्हि सहियाणंतरकरणंउवसमोव" इति अत्र (तिन्निवित्ति) अविरता देशविरताः सर्वविरता वा यथायोगमिति अनन्तानुबन्धि विसंयोजनानन्तरंच केचित्परिणामवशतः सम्यमिथ्यात्वमपि प्रतिपद्यन्ते ततयचतसृष्वपि गतिषुसम्यग्मिथ्यादृष्टीनां चतुर्विशतिः