________________ 8- अभिधानराजेन्द्रः - भाग 3 एगचरिया .एगचरिया अण्णाणपडायदोसेणं सययं मूढे धम्म णामि जाणति अट्टापया माणवककम्मकोविया जे अणुवरया अभिजाए परिमोक्खमाहुआवट्टमेव मणुपरिपट्टतित्ति // इह मनुष्यलोके एकेषां न सर्वेषां चरणं धर्यते वा चर्या एकस्य चर्या तत्र विषयकषायनिमित्तं यस्यैकचर्या स्यात्स किंभूतः स्यादित्याह(से बहुकोहे इत्यादि) स विषयगृध्नुरिन्द्रिया-नुकूलव]कचर्याप्रतिपन्नस्तीर्थिको गृहस्थो वा परैः परिभूयमानो वहुक्रोधो यस्येति बहुक्रोधस्तया वन्द्यमानों मानमुद्रहत इति बहुमानस्तथा कुरु कुचादिभिः कल्कतपसा च बहुमायी सर्वमेतदाहारादिलोभात्करोतीत्यतो बहुलोभः / यत एवमतो बहु-रजो बहुपापो बहुषु चारम्भादिषु रतस्तथा नटवद्भोगार्थ बहून्वेषान्विधत्त इति बहुनटस्तथा बहुभिः प्रकारैः शठो बहुशठ-स्तथा बहवः संकल्पाः कर्तव्या अध्यवशाया यस्य बहुसंकल्प इत्येवमन्येषामपि चौरादीनामेकचर्या वाघ्येति। स एवंभूतः किमवस्थः स्यादित्याह (आसव इत्यादि) आश्रया हिंसादयस्तेषु शक्तं सङ्गः आश्वशक्तं तद्विद्यते यस्या- सावाश्रवशक्ती हिंसाद्यनुसङ्गवानवलितं कर्म तेनावच्छन्नः कर्मावष्टव्ध इति यावत् / सचैवंभूतोऽपि किं ब्रूयादित्याह (उट्ठिय इत्यादि) धर्मचरणायोद्युक्त उत्थितस्तद्वादस्तं प्रवदन्तीर्थिकोऽप्येवमाह यथा अहमपि प्रव्रजितो धर्मचणायोद्यत इत्येवं प्रवदन् कर्मणाऽवच्छाद्यत इति सर्वोत्थितवादी आश्रवेषु प्रवर्त-मानः आजीविकाभयात् कथं प्रवर्तत इत्याह (मामे इत्यादि) मा मां केचनान्येऽद्राक्षुरवद्यकारिणमित्यतः प्रच्छन्नकार्य विदधात्येवं ज्ञानदोषेण वा विदधत्त इति किंवा (सययमित्यादि) सततमनवरतं मूढे मोहनीयोदयादज्ञानाद्वा धर्मश्रुतचारित्राख्यं नाभिजानातिन विवेचयतीत्यर्थः / यद्येवं ततः किमित्याह (अट्टाइत्यादि) आर्ता विषयकषायैः प्रजायन्त इति प्रजा जन्तवो हेमानव मनुजास्येवोपदेशार्हत्वान्मानवग्रहणं कर्मण्यष्टप्रकारे वीभत्स्यन्ते कोविदाः कुशला न धर्मानुष्ठान इति के पुनस्ते ये सततं धर्म नाभिजानन्ति कर्मबन्धको विदाश्चेत्यत आह (जे अणुवरया इत्यादि) ये के चनानिर्दिष्टस्वरूपा अनुपरताः पापानुष्ठा-नेभ्योऽनिवृत्ता ज्ञानदर्शनचारित्राणि मोक्षमार्ग इत्येषा विद्या ततो विषययेण विद्या परि समन्ततः मोक्षामाहस्तेधर्म नाभिजानतइति संबन्धः। धर्ममजानानाश्च किमाप्नुयुरित्याह (आवट्टइत्यादि) भावावर्तः संसारस्तमरहट्टघटीयन्त्रन्यायेनानुपरिवर्तते तास्वेव नरकादिगतिषु भूयो भूयो भवन्तीति यावत् / आचा०१ श्रु०५ अ० 130 / हिंसकस्य विषयारम्मकस्यैकचरस्यामुनिभावे दोषोद्भावनतः कारणमाह। गामाणुगामं दुइज्जमाणस्स दुजा तं दुप्परिकं तं भवति। अवियत्तस्स भिक्खुणो वयसा वि एगे चोइया कुप्पंतिमाण वा उण्णयमाणे य णरे महता मोहेण मुज्झति संवाहा बहवे भुजो भुजो दुरतिक्कमा अजाणओ अप्पा सत्तो एयं ते मा होउ एयंते कुशलस्स दंसणं॥ ग्रसते बुद्ध्यादिगुणानिति ग्रामः ग्रामादनुपश्चादपरो ग्रामो ग्रामानुग्रामस्तं दूयमानस्यानेकार्थत्वाद्धातूनां विहरत एकाकिनः साधोर्यस्मात्तदर्शयति (दुयति) दुष्ट यातं दुर्यातं गमनक्रियाया गर्दा गच्छत एवानुकूलप्रतिकूलोपसर्गसद्भावादहनकस्यैव कृतगतिभेददुष्टव्यन्तरीजङ्घाच्छेदनवत् / तथा दुष्टं पराक्रान्तम् आक्रातं स्थानमेकाकिनो भवति स्थूलभद्रेष्यसितोपकोषा गृहसाधो रिवेति / यदि वा चतुः प्रोषितभर्तृका गृहायितसाधोरिव तस्य महासत्वतया अक्षोभेऽपि हु पराक्रान्तमेवेति।। एतच न सर्वस्यैव दुर्यातं दुःखपकराक्रान्तश्च भवतीत्यतो विशिनष्टि अव्यक्तस्य भिक्षोरिति भिक्षणशीलो भिक्षुस्तस्य किंभूतस्याव्यक्तस्य स चाव्यक्तःश्रुतवयोभ्यां स्यात्तत्र श्रुताव्यक्तो येनाचारप्रकल्पो- ऽर्थतो नाधिगतो गच्छगतानां तन्निर्गतानांतुनवमपूर्वतृतीय- वस्त्विति। वयसा वा व्यक्त आ षोडशवर्षाद्गच्छगतानां तन्निर्गतानाञ्च त्रिंशत इति / अत्र चतुर्भङ्गिका श्रुतवयोभ्याम-व्यक्तस्यै कचर्या न कल्पते / संयमात्मविराधनात इत्याद्यो भङ्गः / तथा श्रुतेनाध्यक्तो वयसा च व्यक्तस्तस्याप्ये कचर्या न कल्पते / अगीतार्थत्वादुभयविराधनासद्भावादिति द्वितीयः। तथा श्रुतेनव्यक्तो वयसा चाव्यक्तस्तस्यापि न कल्पते बालतया सर्वपरिभवास्प-दत्वाद्विशेषतस्तेन कुलिङ्गादीनामिति तृतीयः / यस्तुभयव्यक्तः स सति कारणे प्रतिमामेकाकिविहारित्व-मभ्युद्यतविहारं वा प्रतिपद्यतामस्यापि कारणाभावे एकचर्या नानुमता। यतस्तस्यां गुप्तैर्या भाषेषणादिविषया बहवो दोषाः प्रादुःष्यन्ति / तथा ह्येकाकी पर्यटन् यदीर्यापथं शोधयति ततश्चाधुपयोगाभ्रस्यति तदुपयुक्तश्चेन्नेर्यापथं शोधयेदित्यादिका शेषाऽपि समितयो वाच्याः / अन्यचाजीर्णन वातादिक्षोभेण वा व्याध्याद्युद्भवसंयमात्मविरा-धना प्रवचनहीलनाच। तत्र यदि करुणापन्ना गृहस्थाः प्रतिजागरणं कुर्युस्तह्मज्ञानतया षट्कायोपमर्दैन कुर्वाणाः संयमबाधामा-पादयेयुरथ न कश्चित्तत्र तथा-भूतकर्तव्योद्यतः स्यात्ततः आत्म-विराधना। तथातीसारादौमूत्रपुरीषजवाल्यन्तर्वर्तित्वात्प्रवचनहीलना / अपिच ग्रामादि-व्यवस्थितः सन् धिग्जात्यादिना केशलुशिताद्यधिक्षेपेणा-विक्षिप्तः सन् परस्परोपमर्दकारि दण्डादण्डभण्डनं विदध्यात्तच्च गच्छगतस्य न संभवति गुर्वाधुपदेशसंभावत्तदुक्तम् "अक्कोसहणण्णमारण-धम्मब्भसणेवालसुलभाणा। भंमण्णइ धीरोजहुत्तराणं अभावम्मि" इत्येवमादिनोपदेशेन गच्छान्त तो गुरुणानुशास्यतेगच्छनिर्गतस्यतुपुनः दौषा एव केवला इत्युक्तञ्च "साहम्मिएहिं समुज्जएहिं / एमागीउ य जो विहरे आयंकपउरयाए, छक्कायबहम्मि आवडइ। एगाणियस्सदोसा, इत्थी साणे तहेव पडिणीए। भिक्खचिसोहिमव्वय, तम्हा सवि इज्जए गमणं" इत्यादि गच्छान्तर्वर्तिनस्तु बहवो गुणास्तन्निश्रया परस्यापि बालवृद्धादेखधतविहाराभ्युपगमात् / यथा हुंदके समर्थस्तरन्नपरमपि काष्ठादिविलग्नं तारयत्येवं गच्छेऽप्युद्यत-विहार्यपरं सीदन्तमुद्ययति तदेवमेकाकिनो दोषान् वक्ष्य-गच्छान्तर्विहारिणश्च गुणान् कारणभावे व्यक्तेनापि नैकचर्या विधेया कुतः पुनरव्यक्तेनेति स्थितम् / ननु वसतिसंभवे प्रतिषेधोऽयुक्तो न चास्ति संभवः एकाकिविहारितायाः को हि नाम वालिशः सहायान्विहाय समस्तापायास्पदमेकाकि विहारितामभ्युपेयादि-त्यत्रोच्यते न किंचिदपि कर्मपरिणतेरशक्यमस्ति तथा हि स्वातन्त्र्यगदागदकल्पस्य समस्तव्यसनप्रवाहसेतुभूतस्या शेषकल्याण-निकेतनस्य शुभाचाराधारस्य गच्छस्यान्तर्वर्तिनः क्वचित् प्रमादस्खलिते चोदिता अपरिगणय्य सदुपदेशमपर्यालोच्य सद्धर्ममविचार्य कषायविपाककटु-कतामनवधार्य परमार्थ पृष्ठतः कृत्वा कुलपुत्रतां वाग्मात्रादपि किंचित्कोपनिघाः सुखैषिणी गणितापदो गच्छान्निर्गच्छन्ति / तत्र चैहिकामुष्टिकापायानवाप्नुवन्तीत्युक्तं च "जह सायरम्भि मीणा, संखोहं सायरस्स असहंता / णिति तओ सुहकामी, णिग्गयमेता विणस्सन्ति / / एवं गच्छसमुद्दे, सारणवीचीहिंचोइया संता। णिति तओ सुहकामी, मीणा व जहाविणस्संति। "गच्छम्मि केइ पुरिसा, सउणीजह पञ्जरंतरुणिरुद्धा।