________________ एगगंध 7- अभिधानराजेन्द्रः - भाग 3 एगचरिया एगगम-पुं०(एकगम) तुल्याभिलापे, "सेसा एक्कगमाएति" स्था०२ ठा। एगगुण-न०(एकगुण) सिद्धश्रेणिकपरिकर्मश्रुतभेदे,। सम०। (तद्वक्तव्यता "सिद्धसेणिगपरिकम्म' शब्दे) एकेन गुणनेन गुणनं ताडनं यस्य स एकगुणः / एकेनगुणिते, त्रि०ा पोग्गलाणं वग्गणेतिएगाएगगुणकालगाणं। एकेन गुणननतामनं यस्य स एकगुणः / स कालो वर्णो येषान्ते एकगुणकालकास्तारतम्येन कृष्ण-तरकृष्णतमादीनां येभ्य आरभ्य प्रथममुत्कर्षबृत्तिर्भवति तस्मिन् स्था०१ ठा०। एगग्ग-त्रि०(एकाग्र) "एगग्गो काउस्सग्गम्मि'' एकाग्र एकचित्तः शेषव्यापाराभावादिति / आव०५ अ० "एगग्गस्स यसंतस्स" एकमग्रमालम्बनं यस्यासावेकानः / एकावलम्बने, | आ०म०द्विा विक्षेपरहितज्ञाने च / वाचा *ऐकान-त्रि० स्वार्थेऽण् एकाग्रचित्ते, एकतानचित्ते, वाचा *एकाग्य-त्रि०(एकमग्न्यं) यस्य। एकभावे,एकावलम्बने, वाचा *ऐकाय-न एकाग्रस्य भावः व्यञ् अनन्यासक्तचित्तत्वे, एकमात्रावलम्बिचित्तत्वे, वाचा एगग्गचित्त-त्रि० एकाग्रचित्त एकाग्रमेककं विषयं चित्तं यस्य सः / एकविषयकचित्ते, घोषणाश्रवणमधिकृत्य "एगग्गचित्त। उदउत्तमाणसाणं" एकाग्रं घोषणाश्रवणैकविषयं चित्तं येषान्ते एकाग्रचित्ताः। राज०। एकावलम्बने, "नाणमेगग्गचित्तो" दश०८ अ०४ उ०॥ एगग्गजोग-पुं०(एकाग्रयोग) अनालम्बनयोगपरनामधेये योगभेदे, एकाग्रयोगस्यैवापरनामानालम्बनयोग इति / अष्ट०। (तद्वक्तव्यता जोग शब्दे)। एगग्गया-स्त्री०(एकाग्रता) एकाग्र-तल्-एकाग्रत्वे, वाच० एकस्मिन् आलम्बनसदृशपरिणामतायाम्, "तुल्यावेकाग्रताशान्तो दितौ च प्रत्ययाविह" इहाधिकृतदर्शने तुल्यावेकरूपावलम्बनत्वेन सदृशौ शान्तोदितावतीताधः प्रविष्टवर्तमानाधस्फुरितलक्षणौ च प्रत्ययावेकाग्रता उच्यते। समाहितचित्तान्वयिनी। तदुक्तं शान्तोदितौ हि तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः। द्वा०२४ द्वा०॥ एगचक्खु-त्रि०(एकचक्षुष) एकं चक्षुरस्येत्येकचक्षुःस्था०३ ठा० काणे, तथा च प्रश्रव्याकरणे अन्चैकचक्षुषावधिकृत्योक्तम् / एतच्च दोषद्वयं गभगतस्योत्पद्यतेजातस्यच। तत्र गर्भस्थस्य दृष्टि-भागमप्रतिपन्नं तेजो जात्यन्धत्वं करोति तदेकाक्षिगतं काणत्वं विदधत इति प्रश्न०५ द्वा०। एकचक्षुस्केच क्षुषस्यभेदेच।स्था०३ ठा०। (तद्वक्तव्यता चक्खुशब्दे)। एगचक्खुविणिहय-त्रि०(एकचक्षुर्विनिहत) एकं चक्षुर्विनिहतं येषान्ते एकचक्षुर्विनिहताः। विनिहतैकचक्षुस्के, प्रश्न०१ द्वा०। एपचर-त्रि०(एकचर) एकः सन्चरतिचर्-पचा० अच्ा सुप्सुपेतिसमासः। एकएव चरतीत्येकवरः / एकाकिनि, आचा०५ अ०१ उ०। एकाकीभूत्वा चारिणि, असहायचारिणि, वाच० "णिब्भ-यमेगचरंति पासेणं' निर्भयं गतभीकं निर्भयत्वादेवैकचरमिति। सूत्र०१ श्रु०४ अ01 एगचरिया-स्त्री०(एकचर्या) चरणं चर्यते वाच- "चर्ग-तिभक्षणयोः" गदमदचरयमश्चानुपसर्ग इत्यनेन कर्मणि भावे वा यत्। आचा०१ श्रु०५ अ०१ उ०ा एकस्य चर्या ६ता एकाकिविहारप्रतिमाभ्युपगमे, आचा०६ अ०२ उ०।अस-हायगमने, वाचा"चारो चरिया चरणं एगट्ठ" आचा० निका एकचर्यानिक्षेपो यथा सा च प्रशस्तेतरभेदे न द्विधा / सापि द्रव्यभावभेदात् प्रत्येकं द्विधा / तत्र द्रव्यतो गृहस्थपाषण्डिकादेविषयकषायनिमित्तमेकाकिनो विरहणं भावतस्तु अप्रशस्ता न विद्यते। सा हि रागद्वेषविरहाद्भवति। न च तद्रहितस्याप्रशस्ता वेति / प्रशस्ता तु द्रव्यतः प्रतिमाप्रतिपन्नस्य गच्छतः निर्गतस्य स्थविरकल्पिकस्य चैकाकिनः संघादिकार्यनिमित्तान्निर्गतस्य भावतस्तु पुनः रागद्वेषविरहाद्भवति / तत्र द्रव्यतो भावतश्चै-कचर्यानुत्पन्नज्ञानानां तीर्थकृतां प्रतिपन्नसंयमानामन्ये तु चतुर्भङ्गपतितास्तत्राप्रशस्तद्रव्यैकचर्याहरणम् / तद्यथा पूर्वदेशे धान्यपूरकाभिधाने सन्निवेशे एकस्तापसः प्रथमवय स एव कुमारसदृशविग्रहः षष्ठभक्तेन तद्ग्रामनिर्गमपथेतपस्तेपे। द्वितीयोऽप्युपग्रामगिरिगह्वरेऽष्टमभक्तेन तपः कर्मणा तापनां विधत्ते / तस्मैच ग्रामनिर्गमपथवर्तिने शीतोष्णसहिष्णवे गुणैराकृष्टो लोक आहारादिभिः सपर्ययोपतिष्ठते। सतथालोकेन पूज्यमाने वाग्भिरभिष्ट्यमान आहारादिनोपचर्यमाणो जनमूचे मत्तोऽपि गिरिपरिसरतोऽपि दुष्करकारकस्ततोऽसौ लोकस्तेन भूयो भूयः प्रोच्यमानस्तमेकाकिनं तापसमद्रिकुहरवासिनं पर्यपूजयत / दुष्करं च परगुणोत्कीर्तनमिति कृत्वा तस्यापि सपर्यादिकं व्यधात्। तदेवमाभ्यां पूज्याख्यात्यर्थमकचर्या विदधे / अतोऽप्रशस्तैवमनया दिशाऽन्येप्यप्रशस्तैकचर्याश्रिता द्रष्टान्ता यथासंभवमायोज्या इति। आचा०१ श्रु०५ अ०१ उ०। साच शिथिलकर्मणां भवति तथाहइहमेगेसिं एगचरिया होति तत्थि अराइयरेहिं कुलेहिंसुद्धसणाए सव्वेसणाए सो मेहावी परिव्यए सुमि अदुवा दुश्मि अदुवा तत्थ भेरवा याणायाणे परिकिलेसंति / ते फासे पुट्ठो अधीरो अहियासिज्जासित्तिबेमि॥ (इहमेगेसिंइत्यादि) इहास्मिन् प्रवचने एकेषां शिथिल-कर्मणामेकचर्या भवत्येकाकिविहारप्रतिमाभ्युपगमो भवति / तत्र च नानारूपा अभिग्रहविशेषास्तपश्चरणविशेषाश्च भवन्ती त्यतस्तावत्प्राभृतिकामधिकृत्याह.(तत्थियरा इत्यादि) तत्र तस्मिन्नेकाकिबिहारे इतरे सामान्यसाधुभ्यो विशिष्टतरा इतर-श्वान्तप्रान्तेषु कुलेषु सिद्धेषणया दशैषणादोषरहितेनाहारादिना सर्वेषणयेति सर्वा आहराद्युद्गमोत्पादनग्रासैषणरूपा तया सुपरिविशुद्धेन विधिना संयमे परिव्रजन्ति बहुत्वेऽप्येकदेशतामाह (से मेहाविइत्यादि)स मेधावी मर्यादाव्यवस्थितः संयम परिव्रजेदिति। किंच (सुभि इत्यादि) सआहारस्तेष्वितरेषु कुलेषु सुरभिर्वा स्यादथवा दुर्गन्धो न तत्र रागद्वेषौ विदध्यात्। किंच (अदुवा इत्यादि) अथवा तत्रैकाकिविहारित्वे पितृवन-प्रतिमाप्रतिपन्नस्य सतो भैरवा भयानका यातुधानादिकृताः शब्दाः प्रादुर्भवेयुः / यदिवा भैरवा वीभत्साः प्राणाः प्राणिनो दीप्तजिहादयोऽपरान् प्राणिनः क्लेशायान्त्युपतापयन्तित्वंतुपुनस्तः स्पृष्टस्तान्स्पर्शानदुःखविशेषान् धीरोऽक्षोभ्यः सन्नतिसहस्वेति। आचा०१ श्रु०६ अ०२ उ०। यस्य विषयकषायनिमित्तमे कचर्या तस्य न मुनित्वम् अन्ये प्रव्रज्यामप्यभ्युपेत्य के चिद् विषयपिंपासार्तास्ताद् कल्काचारानाचरन्तीति दर्शयितुमाह इहमेगेसिं एगचरिया भवति से बहुकोहे बहुमाणे बहु माए बहुलोहे बहुरए बहुणडे बहुसठे बहुसंकप्पे आसवसको पलिओच्छण्णे उद्वितवादं पवदमाणे मामे केइ य दक्खु